सञ्जयः-
एवं व्यूढेष्वनीकेषु तावकेष्वितरेषु च
धनञ्जयो रथानीकं पीडयंस्तव भारत
शरैरथिरथो युद्धे पातयामास पार्थिवान्
ते वध्यमानाः पार्थेन कालेनेव युगक्षये
धार्तराष्ट्रा रणे यत्ताः पाण्डवान् प्रत्ययोधयन्
प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम्
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम्
बभञ्जुर्बहुशो राजंस् तैश्चाभज्यन्त संयुगे
पताद्भिश्च रथैर्भिन्नैर् गजैः पत्तिभिरेव च
प्रभग्नैस्स्यन्दनैश्चासीद् युद्धमेतत् प्रवर्तितम्
द्रवद्भिश्च रथैर्भग्नैर् परिवर्ताद्भिरेव च
पाण्डवैः कौरवेयाश्च न प्राज्ञायत किञ्चन
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम्
न दिशः प्रदिशो वापि जज्ञिरेऽत्र समागताः
अनुमानेन सञ्ज्ञाभिर् नामगोत्रैश्च संयुगे
अवर्तत तदा युद्धं तत्र तत्र विशां पते
व्यूहो नाभिद्यत तदा कौरवाणां कथञ्चन
रक्षितस्सत्यसन्धेन भारद्वाजेन मारिष
तथैव पाण्डवानां च रक्षितस्सव्यसाचिना
नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः
सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः
उभयोस्सेनयो राजन् व्यतिषक्ताः परस्परम्
हयारोहा र्हयारोहान् पातयामासुराहवे
यष्टिभिर्विमलाभिश्च प्रासैरपि च संयुगे
रथी रथिनमासाद्य बाणैः कनकभूषणैः
पातयामास समरे शरैस्सन्नतपर्वभिः
गजारोहा गजारोहान् नाराचशरतोमरैः
संसक्तान् पातयामासुस् तव तेषां च सङ्घशः
पत्तिसङ्घा रणे पत्तीन् भिण्डिपालपरश्वथैः
निपातयन्ति संहृष्टाः परस्परजिगीषवः
रथी च समरे राजन्नासाद्य गजयोधिनम्
सगजं पातयामास गजी च रथिनां रथात्
रथिनं च हयारोहः प्रासेन भरतर्षभ
पातयामास समरे रथी च हयसादिनम्
पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम्
न्यपातयच्छितैश्शस्त्रैस् सेनयोरुभयोरपि
गजारोहा हयारोहान् पातयामासुराहवे
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत्
वारणस्थैश्च समरे हतास्तत्र पदातयः
निस्त्रिंशैर्निशितैस्तीक्ष्णैः पातयामासुराहवे
पातिताः प्रत्यदृश्यन्त तैश्चापि गजयोधिनः
हस्तिसङ्घा हयारोहैस् सादिसङ्घाश्च दन्तिभिः
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः
ध्वजैस्तत्रापविद्धैश्च तोमरैः कार्मुकैस्तथा
प्रासैस्तथा गदाभिश्च चक्रैः कर्पणकैस्तथा
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैश्शरैस्तथा
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः
विबभौ भूर्नरश्रेष्ठ स्रग्दामभिरिवाचिता
नराश्वकायैः पतितैर् दन्तिनां च महाहवे
शरीरैस्स्यन्दनैरभग्नैर् विकीर्णैश्च समन्ततः
अगम्यरूपा पृथिवी मांसशोणितकर्दमा
प्रशशाम रजो भौमम् उक्षितं गजशोणितैः
दिशश्च विमलास्सर्वास् सम्बभूवुर्जनेश्वर
उत्थितान्यगणेयानि कबन्धानि समन्ततः
चिह्नभूतानि जगतो विनाशार्थाय भारत
तस्मिन् युद्धे महारौद्रे वर्तमाने सुदारुणे
प्रत्यदृश्यन्त रथिनो धावमानास्ततस्ततः
ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः
पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः
एते समरदुर्धर्षास् सिंहतुल्यपराक्रमाः
पाण्डवानामनीकानि बभञ्जुस्समरे स्थिताः
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः
सात्यकिश्चेकितानश्च द्रोपदेयाश्च भारत
तावकांस्तव पुत्रांश्च सहितान् सर्वराजभिः
द्रावयामासुराजिस्थास् त्रिदशा दानवानिव
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः
रक्तोक्षिता घोररूपा विरेजुर्दानवा इव
विजित्य च रिपून् वीरास् सेनयोरुभयोरपि
व्यदृश्यन्त महामात्रा ग्रहा इव नभस्स्थले
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव
अभ्ययात् पाण्डवान् युद्धे राक्षसं च घटोत्कचम्
तथैवापततश्शूरान् महत्या सेनया वृतान्
भीष्मौद्रोणौ महात्मानौ वारयामासतुश्शरैः
किरीटी तु ततः क्रुद्धस् समन्तात् पार्थिवोत्तमान्
आर्जुनिस्सात्यकिश्चैव सौबलं ययतुर्बलम्
ततः प्रववृते घोरस् सङ्ग्रामो रोमहर्षणः
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्