सञ्जयः-
प्रभातायां च शर्वर्यां भीष्मश्शान्तनस्तदा
अनीकान्यनुसंयाने व्यादिदेश परन्तपः
गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा
पुत्राणां ते जयाकाङ्क्षी वृद्धः कुरुपितामहः
गरुडस्य तु यत् तुण्डं पिता देवव्रतस्तव
चक्षुषी च भरद्वाजः कृतवर्मा च भारत
अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ
त्रिगर्तैर्मद्रकैकेयैर् वाटधानैश्च संयुगे
भूरिश्रवाश्शलश्शल्यो भगदत्तश्च मारिष
मद्रकास्सिन्धुसौवीरास् तथा पाञ्चनदाश्च ये
जयद्रथेन सहिता ग्रीवा ह्यासन् विशां पते
पृष्ठे दुर्योधनो राजा सोदरैस्सह सानुगैः
विन्दानुविन्दावावन्त्यौ काम्भोजश्च नराधिपः
पुच्छमासन् महाराज शूरसेनाश्च सर्वशः
मागधाश्च कलिङ्गाश्च कशेरुकगणैस्सह
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः
कर्णाटाश्च विकुञ्जाश्च मुद्गाः कुण्डीविषास्तथा
बृहद्बलेन सहिता वामपार्श्वमुपास्थिताः
व्यूढं दृष्ट्वा तु सैन्यस्य सव्यसाची परन्तपः
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत पाण्डवः
व्यूहेन चार्धचन्द्रेण व्यूहं तमतिदारुणम्
दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत
नानाशस्त्रौघसम्पन्नैर् नानादेश्यैर्नृपैर्वृतः
तमन्वेति विराटश्च द्रुपदश्च महायशाः
तदनन्तरमेवासीन्नीलो नीलायुधो विभुः
नीलादनन्तरश्चापि धृष्टकेतुर्महाबलः
चेदिकाशिकरूषैश्च पौरवैश्चैव रक्षितः
धृष्टद्युम्नश्शिखण्डी च पाञ्चालाश्च प्रभद्रकाः
मध्ये सैन्यस्य महतस् स्थिता युद्धाय भारत
तत्रानु धर्मराजश्च गजानीकेन दंशितः
ततस्तु सात्यकी राजन् द्रौपद्याः पञ्च चात्मजाः
अभिमन्युस्ततश्शूर इरावांश्च ततः परम्
भैमसेनिस्ततो राजन् केकयाश्च महारथाः
एते सर्वे महाराज वामं पार्श्वमपालयन्
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः
तत्रानु रथिनां श्रेष्ठो वामशृङ्गे व्यवस्थितः
एवमेतं महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः
वधार्थं तव पुत्राणां तत्पक्षे ये समाश्रिताः
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्
तावकानां परेषां च निघ्नतामितरेतरम्
अश्वौघाश्च रथौघाश्च गजौघाश्च विशां पते
सम्पतन्तस्स्म दृश्यन्ते निघ्नमानाः परस्परम्
धावतां च रथौघानां युध्यतां च पृथक् पृथक्
बभूव तुमुलश्शब्दो विमिश्रो दुन्दुभिस्वनैः
एवं तु नरवीराणां निघ्नतामितरेतरम्
सुसम्प्रहारे तुमुले रौद्रमासीत् तदा वपुः