सञ्जयः-
ततोऽपराह्णभूयिष्ठे तस्मिन्नहनि दारुणे
रथाश्वनरनागानां सादिनां चाभवत् क्षयः
द्रोणपुत्रेण शल्येन कृपेण च महात्मना
समसज्जत पाञ्चाल्यस् त्रिभिरेतैर्महारथैः
स लोकविदितानश्वान् निजघान महाबलः
द्रौणेः पाञ्चालदायादश् शितैर्दशभिराशुगैः
ततश्शल्यरथं तूर्णम् आस्थाय हतवाहनः
द्रौणिः पाञ्चालदायादम् अभ्यवर्षदथेषुभिः
धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत
सौभद्रोऽभ्यपतत् तूर्णं विकिरन् निशिताञ् शरान्
स शल्यं पञ्चविंशत्या कृपं च नवभिश्शरैः
विव्याध समरे राजन् अश्वत्थामानमेव च
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा
शल्यो द्वादशभिस्तीक्ष्णैः कृपश्च निशितैस्त्रिभिः
लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम्
अभ्यवर्षत संहृष्टस् ततो युद्धमवर्तत
दौर्योधनिस्तु सङ्क्रुद्धस् सौभद्रं निशितैश्शरैः
विव्याध समरे राजन् विशिखैर्मर्मभेदिभिः
अभिमन्युस्ततः क्रुद्धो लक्ष्मणं भरतर्षभ
शरैः पञ्चाशतै राजन् क्षिप्रहस्तो व्यविध्यत
लक्ष्मणोऽपि धनुस्तस्य ततश्चिच्छेद पत्रिणा
मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः
तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा
अन्यदा दत्तबलवान् कार्मुकं बलवत्तरम्
तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ
अन्योन्यं विशिखैस्तीक्ष्णैर् जघ्नतुः पुरुषर्षभौ
ततो दुर्योधनो राजा पुत्रं दृष्ट्वा महाबलम्
पीडितं तव पौत्रेण ततः प्राराज्जनेश्वरः
सन्निवृत्ते तव सुते सर्व एव जनाधिपाः
आर्जुनिं रथवंशेन समन्तात् पर्यवारयन्
स तैः परिवृतश्शूरैश् शूरो युधि सुदुर्जयैः
न तदा प्रव्यथते राजन् कृष्णतुल्यपराक्रमः
सौभद्रमथ संसक्तं दृष्ट्वा पुत्रं धनञ्जयः
अभिदुद्राव सङ्क्रुद्धस् त्रातुकामस्स्वमात्मजम्
ततस्सरथनागाश्वा भीष्मद्रोणपुरोगमाः
अभ्यवर्तन्त राजानस् सहसा सव्यसाचिनम्
उद्धूतं सहसा भौमं नागाश्वरथसादिभिः
दिवाकररथं प्राप्तं रजस्तीव्रमदृश्यत
तानि नागसहस्राणि भूमिपालशतानि च
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः
प्रणेदुस्सर्वसैन्यानि बभूवुस्तिमिता दिशः
रजसा चावृतास्सर्वा दिशो राजन् कथञ्चन
कुरूणां जनयंस्तीव्रं प्रत्यदृश्यत दारुणम्
न चान्तरिक्षं न दिशो न भूमिर्न च भास्करः
प्राज्ञायत नरश्रेष्ठ शरसङ्घैः किरीटिनः
सम्पातितध्वजाः केचिद्धतश्वा रथिनोऽपरे
विप्रद्रुतरथाः केचिद् दृश्यन्ते रथपुङ्गवाः
विरथा रथिनश्चान्ये धावमानास्ततस्ततः
रणे तस्मिन्नदृश्यन्त सायुधास्साङ्गदैर्भुजैः
हयारोहा हयांस्त्यक्त्वा गजारोहांश्च दन्तिनः
अर्जुनस्य भयाद्राजन् व्यद्रवन्त समन्ततः
रथेभ्यश्च हयेभ्यश्च गजेभ्यश्च नराधिपाः
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनपीडिताः
सगदानुद्यतान् बाहून् सखड्गांश्च विशां पते
सप्रासांश्च सतूणीरान् सशरान् सशरासनान्
साङ्कुशान् सपताकांश्च तत्र तत्रार्जुनो नृणाम्
न्यकृन्तत रणे क्रुद्धो बिभ्रद्रौद्रं वपुस्तदा
परिघाणां विकीर्णानां मुद्गराणां च पार्थिव
प्रासानां भिण्डिपालानां निस्त्रिंशानां च भारत
परश्वथानां तीक्ष्णानां तोमराणां च भारत
वर्मणां चापविद्धानां कवचानां च संयुगे
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः
छत्राणां हेमदण्डानां तोमराणां च भारत
प्रतोदानां च योक्त्राणां कशानां चैव मारिष
राशयः प्रत्यदृश्यन्त विकीर्णानां विशां पते
नासीत् तत्र पुमान् कश्चित् तव सैन्यस्य भारत
न तत्रासीत् पुमान् कश्चित् तव सैन्यषु भारत
योऽर्जुनं समरे-वीरं प्रत्युदीयान्महारथम्
यो यो हि समरे पार्थं प्रत्युद्याति विशां पते
स सङ्ख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते
तेषु विभ्राम्यमाणेषु तव योधेषु सर्वशः
अर्जुनो वासुदेवश्च शङ्खौ दध्मतुरुत्तमौ
तत् पभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव
अब्रवीत् समरे शूरं भारद्वाजं यशस्विनम्
भीष्मः-
एष पाण्डुसुतो वीरः कृष्णेन सहितो बली
तथा करोति सैन्यानि यथा कुर्याद्धनञ्जयः
न ह्येष समरे शक्यो जेतुमन्यैः कथञ्चन
अस्यैतद् दृश्यते रूपं क्रुद्धस्येव पिनाकिनः
न निवर्तयितुं चापि शक्येयं महती चमूः
अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी
एष चास्तं गिरिश्रेष्ठं भानुमान् प्रत्यपद्यत
चक्षूंषि सर्वलोकस्य संहरन्निव भारत
सेनापहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथञ्चन॥
सञ्जयः-
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम्
अवहारमथो चक्रे तावकानां महारथः
ततस्सरथनागाश्वा जंय प्राप्य ससोमकाः
पाञ्चालाः पाण्डवाश्चैव प्रणेदुश्च पुनः पुनः
प्रययुश्शिबिरायैव धनञ्जयपुरस्कृताः
वादित्रघोषैस्संहृष्टाः प्रनृत्यन्तो महारथाः
ततोऽवहारस्सैन्यानां तव तेषां च भारत
अस्तं गच्छति सूर्ये च सन्ध्याकालेऽभ्यवर्तत