धृतराष्ट्रः-
मम पुत्रसमादिष्टः कलिङ्गो वाहिनीपतिः
कथमद्भुतकर्माणं भीमसेनं महाबलम्
चरन्तं गदया वीर दण्डहस्तमिवान्तकम्
योधयामास समरे कलिङ्गस्सह सेनया
सञ्जयः-
पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः
महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति
तामापतन्तीं महतीं कलिङ्गानां महाचमूम्
रथाश्वनागकलिलां प्रगृहीतमहागदः
भीमसेनः कलिङ्गानाम् आर्च्छद्भारत वाहिनीम्
केतुमन्तं च नैषादिम् आयान्तं सह चेदिभिः
ततश्श्रुतायुस्सङ्क्रुद्धो राज्ञा केतुमता सह
आससाद रणे भीमं व्यूढानीको महाबलः
अथास्त्रैर्बहुसाहस्रैः कलिङ्गानां जनेश्वर
अयुतेन गजानां च निषादैस्सह केतुमान्
भिमसेनं रणे राजन् समन्तात् पर्यवारयत्
चेदिमत्स्यकरूषाश्च भीमसेनपदानुगाः
अभ्यधावन्त समरे निषादैस्सह राजभिः
ततः प्रववृते युद्धं घोररूपं भयानकम्
परेषां तव योधानां परस्परजिघांसया
घोररूपं ततो युद्धं भीमस्य सहसा परैः
यथेन्द्रस्य महाराज महत्या दैत्यसेनया
तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत
बभूव सुमहाञ्शब्दस् सागरस्येव गर्जतः
अन्योन्यस्य तदा योधा विकर्षन्तो विशां पते
महीं चक्रुश्चितां सर्वां मांसशोणितकर्दमैः
योधांश्च स्वान् परान् वापि नाभ्यजानञ्जिघांसया
स्वानप्याददतेऽस्माकं शूरास्समरदुर्जयाः
विमर्दस्सुमहानासीद् अल्पानां बहुभिस्सह
कलिङ्गैस्सह चैदीनां निषादैश्च विशां पते
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः
भीमसेनं परित्यज्य सन्न्यवर्तन्त चेदयः
सर्वे कलिङ्गाश्चैव सन्निवृत्तेषु चेदिषु
स्वबाहुबलमास्थाय अभ्यवर्षन्त पाण्डवम्
न चचाल रथोपस्थाद् भीमसेनो महाबलः
शितैरवाकिरद्बाणैः कलिङ्गानां वरूथिनीम्
कालिङ्गश्च महेष्वासः पुत्रश्चास्य महारथः
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः
ततो भीमो महाबाहुर् प्रग्रह्य रुचिरं धनुः
योधयामास कालिङ्गान् स्वबाहुबलमाश्रितः
शक्रदेवस्तु समरे विसृजन् सायकान् बहून्
ववर्ष शरवर्षाणि तपान्ते जलदो यथा
जघान चाश्वन् समरे भीमसेनस्य सायकैः
हताश्वे स रथे तिष्ठन् भीमसेनो ममाबलः
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम्
गदयाऽभिहतो राजन् कालिङ्गतनयो रथात्
सध्वजस्सह सूतेन जगाम धरणीतलम्
हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनेश्वरः
रथैरनेकसाहस्रैर् भीमस्यावारयद्दिशः
अयुतेन गजानां च निषादैः परिवारितः
ततो भीमो महाबाहुस् रथादाप्लुत्य हृष्टवत्
निस्त्रिंशमाददे घोरं चिकीर्षुः कर्म दुष्करम्
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ
नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम्
कालिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य च
प्ररिगृह्य शरं तीक्ष्णम् एकं सर्पविषोपमम्
प्राहिणोद्भीमसेनाय जयकाङ्क्षी जनेश्वरः
तमापतन्तं वेगेन प्रेरितं निशितं शरम्
भीमसेनो द्विधा राजंश् चिच्छेद विपुलासिना
उदक्रोशच्च संहृष्टस् त्रासयानो वरूथिनीम्
कालिङ्गोऽथ ततः क्रुद्धो भीमसेनाय संयुगे
तोमरान् प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान्
तानप्राप्तान् महाबाहुः खगतानेव पाण्डवः
चिच्छेद समरे राजन्नसम्भ्रान्तो वरासिना
निकृत्य तु रणे भीमस् तोमरान् वै चतुर्दश
भानुमन्तं ततो भीमः प्राद्रवत् पुरुषोत्तमः
भानुमानपि सङ्क्रुद्धश् शरवर्षैरवाकिरत्
ननाद सिंहवन्नादं नादयानो नभस्थलम्
न तु तन्ममृषे भीमस् सिंहनादं महारणे
ततस्स्वनेन महता विननाद महाबलः
तेन नादेन वित्रस्ता कलिङ्गानां वरूथिनी
न भीमं समरे मेने मानुषं भरतर्षभ
गजमारुह्य बलवान् मदवारणविक्रमः
भानुमाञ् शरवर्षेण वर्षयामास पाण्डवम्
भीमसेनाय सङ्क्रुद्धः प्रेरयामास तं गजम्
पुरस्तादभिधावन्तं विनदन्तं महागजम्
तदा चरन्महाराज विनद्य विपुलस्वनम्
सासिर्वेगवदाप्लुत्य दन्ताभ्यां वारणोत्तमम्
आरुरोह ततो मध्यं नागराजस्य मारिष
खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत्
उत्तरा युधि नश्चास्य हत्वा भीमो रणोत्कटः
गुरुभारसहे स्कन्धे नागस्यासिमपातयत्
छिन्नस्कन्धस्स विनदन् पपात गजयूथपः
आरुग्णस्सिन्धुवेगेन सानुमानिव पर्वतः
गजात् पतत आप्लुत्य रणे भरतसत्तम
खड्गपाणिरदीनात्मा तस्थौ भुवि सुदंशितः
चचार च बहून् मार्गान् भीमः प्रहरतां वरः
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत
अश्वबृन्देषु नागेषु रथानीकेषु चाभिभूः
पदातीनां च सङ्घेषु विनिघ्नञ् शोणितोक्षितः
श्येनवद्व्यचरद्भीमो रणे तु स बलोत्कटः
छिन्दंस्तेषां शरीराणि शिरांसि च महाबलः
खड्गेन शितधारेण संयुगे गजयोधिनाम्
पदातिरेकस्सङ्क्रुद्धश् शत्रूणां भयवर्धनः
मोहयामास शूरांस्तान् कालान्तकयमोपमः
पदातिभिः पदातींश्च अश्वानश्वैर्गजान् गजैः
रथान् रथैश्च बहुधा जघान समरे बली
मूढास्तमेव चरणे विनदन्तस्समाद्रवन्
सोऽसिमुद्यम्य चरणे वेगेन विचरन् नदन्
निकृत्य रथिनां चाजौ रथेषाश्च युगानि च
जघान रथिनश्चापि बलवानरिमर्दनः
भीमसेनश्चरन् मार्गान् बहून् दृढपराक्रमः
भ्रान्तमाविद्धमुद्भ्रान्तम् आप्लुतं प्रसृतं प्लुतम्
संहतं समुदीक्षं च दर्शयामास पाण्डवः
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः
छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथाऽपरे
वियोधास्स्वान्यनीकानि मृद्गन्ति वरवारणाः
निपेतुरुर्व्यां च तथा विनदन्तो महारवान्
गजांश्च गजयन्तॄंश्च गजहस्तांश्च भारत
छिन्नांश्च तोमरावापान् महामात्रशिरांसि च
परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः
तूणीरानथ यक्त्राणि विचित्राणि धनूंषि च
अग्निकुण्डानि शुभ्राणि तोमरांश्चाङ्कुशैस्सह
घण्टाश्च विविधा राजन् हेमगर्भान्त्सरूनपि
पततः पातितांश्चैव पश्यामस्सह सादिभिः
छिन्नगात्रैश्छिन्नहस्तैर् निहतैर्वरवारणैः
आसीत् तस्मिन् रणे भूमिः पतितैः पर्वतैरिव
विमृद्यैवं महानागान् ममर्दाश्वान् महाबलः
अश्वारोहवरांश्चैव पातयामास संयुगे
तद्घोरमभवद्युद्धं तस्य तेषां च भारत
खलीनान्यथ चित्राणि कशाश्च कनकोज्ज्वलाः
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः
कवचान्यथ चित्राणि चित्राण्यास्तरणानि च
तत्रापविद्धान्येतानि पश्यामस्तत्र सड्घशः
चकर्त रथनीडांश्च रथचक्राणि चामिभूः
तैः कीर्णां वसुधां चक्रे शबलां कुसुमैरिव
आप्लुत्य रथिनः कांश्चित् परामृश्य महाबलः
पातयामास खड्गेन सध्वजानपि पाण्डवः
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः
आकाशाङ्क्षमाणाञ् शरणं पालयामास पाण्डवः
भीमस्य विक्रमं दृष्ट्वा गजाश्वरथयोधिनः
मार्गांश्च चरतश्चित्रान् व्यस्मयन्त रणे जनाः
निजघान पताकाश्च ध्वजदण्डान् बहूंश्च सः
खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयत्
ऊरुवेगेन चाप्यन्यान् पातयामास भूतले
अपरे चैनमालोक्य भयात् पञ्चत्वमागताः
एवं स बहुलां सेनां कलिङ्गानां तरस्विनाम्
विनिघ्नन् व्यचरद्भीमो युगान्ताग्निरिवाहवे
ततः कालिङ्गयैन्यानां प्रमुखे भरतर्षभ
श्रुतायुषमभिप्रेक्ष्य भीमसेनस्समभ्ययात्
तमायान्तमभिप्रेक्ष्य कालिङ्गो नवभिश्शरैः
भीमसेनममेयात्मा प्रत्यविध्यत् स्तनान्तरे
कलिङ्गबाणाभिहतस् तोत्रार्दित इव द्विपः
भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवोत्थितः
श्रुतायु्सतु ततो राजन् योजयित्वा महारथम्
भीमं सम्पादयामास रथेन रथनां वरम्
तमारुह्य रथं तूर्णं कौन्तेयश्शत्रुसूदनः
कलिङ्गमभिदुद्राव तिष्ठि तिष्ठेति चाब्रवीत्
ततश्श्रुतायुर्बलावान् भीमाय निशिताञ् शरान्
प्रेषयामास सङ्क्रुद्धो दर्शयन् हस्तलाघवम्
स कार्मुकच्युतैर्बाणैर् रुक्मपुङ्खैर्महाहवे
कलिङ्गेन तदा भीमो विद्धस्सप्तभिराशुगैः
सञ्चुक्रोध तदा भीमो दण्डाहत इवोरगः
क्रुद्धस्स चापमायम्य बलवद्बलिनां वरः
कलिङ्गमवधीत् पार्थो भीमस्सप्तभिरायसैः
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम्
ततः पुनरमेयात्मा नाराचैश्च त्रिभिः पुनः
बिभेद समरे वीरः प्रेक्ष्य भीमस्समाप्लुतम्
पत्त्यश्वरथमातङ्गं रणे भीमः प्रतापवान्
हतारोहाश्च मातङ्गाः पाण्डवेन कृता रणे
विप्रजग्मुरनीकेषु मेघा वातहता इव
मृद्गन्तस्स्वान्यनीकानि विनदन्तश्शरातुराः
योधा निपेतुर्मातङ्गैर् निहतास्तुरगैर्भुवि
ततो भीमो महाघोषं शङ्ख दध्मौ महाबलः
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत्
मोहस्तेन कलिङ्गानाम् आविवेश परन्तप
प्रचकम्प च तत् सैन्यं वाहनानि च भारत
मार्गांश्च चरिताश्चित्रान् धावतश्च यशस्विनः
मुहुश्चोत्पततो चिक्षु भीमस्य च महात्मनः
दृष्ट्वा कर्म सुदुर्धर्षं व्यस्मयन्त रणे जनाः
हन्यमानं भयत्रस्तं सैन्यं तत् समकम्पत
क्षोभ्यमाणमसम्बाधं ग्राहेणेव महत् सरः
त्रासितेषु च सैन्येषु भीमेनाद्भुतकर्मणा
पुनरावर्तमानेषु विद्रवत्सु समन्ततः
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः
अब्रवीत् स्वान्यनीकानि युध्यध्वमिति मारिष
सेनापतिवचश्श्रुत्वा शिखण्डिप्रमुखा गणाः
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः
धर्मराजश्च तान् सर्वान् पालयन् पृष्ठतोऽन्वगात्
महता मेघघोषेण गजनीकेन दंशितः
सर्वसैन्यानि सञ्चोद्य धृष्टद्युम्नो महाबलः
भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषैस्सह
न हि पञ्चालपुत्रस्य लोके कश्चन विद्यते
भीमशनैययोरन्यः नरः प्रियतमो भुवि
स तं पश्यन् कलिङ्गेषु चरन्तमरिसूदनम्
भीमसेनं महाबाहुं पार्षतः परवीरहा
ननर्द पुरुषव्याघ्रो जहृषे च परन्तपः
शङ्खं च समरे दध्मौ सिंहनादं ननाद च
पारावतसवर्णैश्च संयुक्ते तुरगोत्तमेः
शोभमानो महोत्सेधे रथे हेमविभूषिते
कोविदारध्वजं दृष्ट्वा भीमसेनस्समाश्वसत्
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैस्समभिद्रुतम्
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात्
तौ दूरात् सात्यकिं दृष्ट्वा धृष्टद्युम्नवृकोदरौ
कलिङ्गान् समरे वीरौ योधयेन्तौ यशस्विनौ
स तत्र गत्वा शैनेयो जवेन जयतां वरः
भीमपार्षतयोः पार्ष्णि जग्राह पुरुषोत्तमः
स कृत्वा कदनं तत्र प्रगृहीतशरासनः
आस्थितो रौद्रमात्मानं जघान समरे परान्
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयद्बली
अन्तरेण कलिङ्गानां पाण्डूनां चैव वाहिनीम्
तस्याः पारमपाराया भीमसेनस्य गच्छतः
आक्रोशन्त सुता दृष्ट्वा तावका भरतर्षभ
कालोऽयं भीमरूपेण युध्यतीति भयार्दिताः
ततश्शान्तनवश्श्रुत्वा निनदन्तं महाहवे
अभ्ययात् त्वरितो भीमं व्यूढानीकः परन्तपः
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः
अभ्यद्रवन्त वेगेन रथैर्हेमपरिष्कृतैः
परिवार्य च ते सर्वे गाङ्गेयं द्रुतमाहवे
त्रिभिस्त्रिभिश्शरैर्घोरैर् भीष्मं विव्यथुराहवे
प्रत्यविध्यत् ततस्सर्वान् पिता देवव्रतस्तव
यतमानान् महेष्वासांस् त्रिभिस्त्रिभिरजिह्मगैः
ततश्शरसहस्रेण सन्निवार्य महारथान्
हयान् काञ्चनसन्नाहान् भीमस्य न्यहनच्छरैः
हताश्वे तु रथे तिष्ठन् भीमसेनः प्रतापवान्
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति
अप्राप्तामेव तां शक्तिं राजन् देवव्रतश्शरैः
त्रिधा चिच्छेद समरे सा व्यशीर्यत भूतले
ततश्शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्
भीमसेनो रथात् तूर्णं पुप्लुवे भरतर्षभ
भीष्ममेवाभ्ययात् तूर्णं जिघांसुः पाण्डवर्षभः
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया
सारथिं कुरुवृद्धस्य पातयामास भारत
भीष्मस्तु निहते तस्मिन् सारथौ रथिनां वरः
वातायमानैस्तैरश्वैर् अपनीतो रणाजिरात्
भीमसेनस्ततो राजन्नपयाते महाव्रते
प्रजज्वाल महावह्निर् दहन् कक्षमिवैधितः
स हत्वा सर्वकालिङ्गान् सेनामध्ये व्यतिष्ठत
पश्यतां सर्वसैन्यानाम् अपोवाह यशस्विनम्
सम्पूज्यमानः पाञ्चाल्यैर् मत्स्यैश्च भरतर्षभ
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम्
अथाब्रवीद्भीमसेनं सात्यकिः परवीरहा
प्रहर्षयन् यदुश्रेष्ठो धृष्टद्युम्नस्य पश्यतः
सात्यकिः-
दिष्ट्या कालिङ्गराजश्च राजपुत्रश्च केतुमान्
शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः
स्वबाहुबलवीर्येण नागाश्वरथसङ्कुलः
महाव्यूहः कलिङ्गानाम् एकेन मृदितस्त्वया
सञ्जयः-
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिन्दम
रथाद्रथमभिप्लुत्य पर्यष्वजत पाण्डवम्
ततस्स्वरथमारुह्य पुनरेव महारथः
तावकानवधीत् क्रुद्धो भीमस्य बलमादधत्