धृतराष्ट्रः-
कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः
रणे समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय
दिष्टमेव परं मन्ये पौरुषं तु निरर्थकम्
यत्र शान्तनवो भीष्मो नाहनद्युधि पाण्डवम्
भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान्
स कथं पाण्डवं युद्धे नातरत् सञ्जयाद्य वै
सञ्जयः-
शृणु राजन् स्थिरो भूत्वा युद्धमेतत् सुदारुणम्
न शक्याः पाण्डवा जेतुं देवैरपि सवासवैः
द्रोणस्तु निशितैर्बाणैर् धृष्टद्युम्नमयोधयत्
सारथिं चास्य भल्लेन ध्वजं चैकेन विव्यथे
तथाऽस्य चतुरो वाहांश् चतुर्भिस्सायकोत्तमैः
पीडयामास सङ्क्रुद्धो धृष्टद्युम्नस्य मारिष
धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैश्शरैः
विव्याध समरे वीरस् तिष्ठ तिष्ठेति चाब्रवीत्
ततः पुनरमेयात्मा भारद्वाजः प्रतापवान्
शरैस्सञ्च्छादयामास धृष्टद्युम्नममर्षणम्
सन्दधे च शरं घोरं पार्षतान्तचिकीर्षया
शक्राशनिसमस्पर्शं कालदण्डमिवापरम्
हाहाकारो महानासीत् सर्वसैन्यस्य मारिष
तमिषुं संहितं दृष्ट्वा भारद्वाजेन धीमता
तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम्
य एकस्समरे वीरस् तस्थौ गिरिरिवाचलः
तं च सृष्टं महाघोरम् आयान्तं मृत्युमात्मनः
चिच्छेद शरवर्येण भारद्वाजस्य संयुगे
तत उच्चुक्रुशुः हृष्टाः पाञ्चालास्सह पाण्डवैः
धृष्टद्युम्नेन तत् कर्म कृतं दृष्ट्वा सुदुष्करम्
अथ शक्तिं महावेगां रुक्मवैडूर्यभूषिताम्
द्रोणस्य निधनाकाङ्क्षी चिक्षेप त्वरयाऽन्वितः
तामापतन्तीं सहसा शक्तिं कनकभूषिताम्
त्रिधा चिच्छेद समरे भारद्वाजो हसन्निव
शक्तिं तां विहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान्
ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वरः
शरवर्षं ततस्तूर्णं सन्निवार्य महारथः
द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम्
स च्छिन्नधन्वा समरे गदां गुर्वीं महाबलः
द्रोणाय प्रेषयामास अश्मसारमयीं दृढाम्
सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया
तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम्
लाघवाद्व्यंसयामास गदां हेमविभूषिताम्
व्यंसयित्वा गदां चैव प्रेषयामास पार्षते
भल्लान् सुनिशितान् पीतान् रुक्मपुङ्खान् सुदारुणान्
ते तस्य कवचं भित्त्वा पपुश्शोणितमाहवे
अथान्यद्धनुरादाय धृष्टद्युम्नो महामनाः
द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः
रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ
वसन्तसमये राजन् पुष्पिताविव किंशुकौ
अमर्षितस्ततो राजन् पराक्रम्य चमूमुखे
द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम्
अथैनं छिन्नधन्वानं शरैस्सन्नतपर्वभिः
अभ्यवर्षदमेयात्मा वृष्ट्या शैलमिवाम्बुदः
सारथिं चास्य भल्लेन रथनीडादपाहरत्
अथास्य चतुरो वाहांश् चतुर्भिर्निशितैश्शरैः
पातयामास समरे सिंहनादं ननाद च
भल्लेन चास्य तीक्ष्णेन हस्ताच्चापमपातयत्
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः
गदापाणिरवारोहत् ख्यापयन् पौरुषं महत्
तामस्य विशिखैस्तूर्णं पातयामास भारत
रथादनवरूढस्य तदद्भुतमिवाभवत्
ततस्स विपुलं चर्म शतचन्द्रं च मनोहरम्
खड्गं च विपुलं दिव्यं प्रगृह्य सुमुहाभुजः
अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया
आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम्
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम्
लाघवं चास्त्रयोगं च बलं बाह्वोश्च मारिष
यदेनं शरवर्षेण सङ्क्रुद्धस्समवारयत्
न शशाक ततो गन्तुं बलवानपि संयुगे
निवारितस्तु द्रोणेन धृष्टद्युम्नो महारथः
न्यवारयच्छरौघांस्तांश् चर्मणा कृतहस्तवत्
ततो भीमो महाबाहुस् सहसाऽभ्यपतद्बली
साहाय्यकारी समरे पार्षतस्य महात्मनः
स द्रोणं निशितैर्बाणै राजन् विव्याध सप्तभिः
पार्षतं च रथं तूर्णम् अन्यमारोहयत् तदा
ततो दुर्योधनो राजन् कलिङ्गं समचोदयत्
सैन्येन महता गुप्तं भारद्वाजस्य रक्षणे
ततस्सा महती सेना कलिङ्गानां जनेश्वर
भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात्
पाञ्चाल्यमपि सन्त्यज्य द्रोणः प्रहरतां वरः
विराटद्रुपदौ क्रुद्धौ योधयामास संयुगे
धृष्टद्युम्नोऽपि समरे धर्मराजानमन्वयात्
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्
कलिङ्गानां च समरे भीमस्य च महात्मनः
जगतस्तु क्षयकरं घोररूपं भयानकम्