धृतराष्ट्ः-
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च
कथं प्रहरतां श्रेष्ठास् सम्प्रहारं प्रचक्रिरे
सञ्जयः-
तथा व्यूढेष्वनीकेषु सन्नद्धरुचिरध्वजाः
तावकाः पाण्डवैस्सार्धं यथाऽयुध्यन्त तच्छृणु
अपारमिव सन्दृश्य सागरप्रतिमं बलम्
तेषां मध्ये स्थितो राज पुत्रो दुर्योधनस्तव
अब्रवीत् तावकान् सर्वान् युद्ध्यध्वमिति दंशितान्
ते मनः क्रूरमाधाय समभित्यक्तजीविताः
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः
ततो युद्धं समभवत् तुमुलं रोमहर्षणम्
तावकानां परेषां च व्यतिषक्तरथद्विपम्
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खास्सुतेजिताः
सन्निपेतुरतीवोग्रा नागेषु च हयेषु च
तथा प्रवृत्ते सङ्ग्रामे धनुरुद्यम्य दंशितः
ववर्ष शरवर्षाणि कुरुवृद्धः पितामहः
सौभद्रे भीमसेने च सात्यकौ च महारथे
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते
एतेषु नरसिंहेषु मात्स्यकारूशचेदिषु
अविषक्तं महाव्यूहं तस्मिन् वीरपरक्षये
सर्वेषामेव सैन्यानाम् आसीद्व्यतिकरो महान्
सादिनो ध्वजिनागाश्च हतप्रवरवाजिनः
विप्रकीर्णरथानीकास् समपद्यन्त पाण्डवाः
ततोऽर्जुनो नरव्याघ्रो दृष्ट्वा भीष्मं महारथम्
वार्ष्णेयमब्रवीत् क्रुद्धो याहि यत्र पितामहः
एष भीष्मस्सुसङ्क्रुद्धो वार्ष्णेय मम वाहिनीम्
नाशयिष्यति सङ्ग्रामे दुर्योधनहिते रतः
एष द्रोणः कृपश्शल्यो विकर्णश्च जनार्दन
धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना
सोऽहं भीष्मं वधिष्यामि सैन्यहेतोर्जनार्दन
तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय
एष त्वां प्रापये वीर पितामहरथं प्रति
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम्
प्रेषयामास भीष्मस्य रथं प्रति जनेश्वर
चलद्बहुपातकेन बलाकावर्णवाजिना
समुच्छ्रितमहाभीमनदद्वानरकेतुना
महता मेघनादेन रथेनादित्यवर्चसा
विनिघ्नन् कौरवानीकं शूरसेनांश्च पाण्डवः
प्रायाच्छरणदश्शीघ्रं सुहृदां हर्षवर्धनः
तमापतन्तं वेगेन प्रभिन्नमिव वारणम्
त्रासयन्तं रणे शूरान् स्तम्भयन्तं च सायकैः
सैन्धवप्रमुखैर्गुप्तश् शूरसेनैश्च केकयैः
सहसा प्रत्युदीयाय भीष्मश्शान्तनवोऽर्जुनम्
को हि गाण्डीवधन्वानम् अन्यः कुरुपितामहात्
द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति
ततो भीष्मो महाराज सर्वलोकमहारथः
अर्जुनं सप्तसप्तत्या नाराचानां समर्पयत्
द्रोणश्च पञ्चविंशत्या कृपश्शारद्वतसत्रिभिः
दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिश्शरैः
सैन्धवो नवभिश्चैव शकुनिश्चापि पञ्चभिः
विकर्णो दशभिर्भल्लै राजन् विव्याध पाण्डवम्
तैर्विद्धस्स महेष्वासैस् समन्तान्निशितैश्शरैः
न विव्यथे महाबाहुर् भिद्यमान इवाचलः
स भीष्मं पञ्चविंशत्या कृपं च दशभिश्शरैः
द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिश्शरैः
आर्तायनिं त्रिभिर्बाणै राजानं चैव पञ्चभिः
प्रत्यविध्यदमेयात्मा पाण्डवो युद्धदुर्मदः
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः
सौभद्रो द्रौपदेयाश्च परिवव्रुर्धनञ्जयम्
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम्
अभ्यवर्तत पाञ्चाल्यस् संयुक्तस्सह सोमकैः
भीष्मस्तु रथिनां श्रेष्ठो राजन् विव्याध पाण्डवम्
अशीत्या निशितैर्बाणैस् ततोऽक्रोशन्त पाण्डवाः
तेषां च निनदं श्रुत्वा प्रहृष्टानां प्रधर्षकम्
प्रविवेश ततो मध्यं रथसिंहः प्रतापवान्
तेषां महारथानां स मध्यं प्राप्य धनञ्जयः
चिक्रीड धनुषा राजल्ँलक्ष्यान् कृत्वा महारथान्
क्षत्रियाणां शिरांस्युग्रैः कृन्तन् शस्त्रैर्महारथः
शून्यान् कृत्वा रथोपस्थान् व्यचरत् फल्गुनस्तदा
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः
पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे
दुर्योधनः-
एष पाण्डुसुतस्तात कृष्णेन सहितो बली
यततां सर्वसैन्यानां मूलं नः परिकृन्तति
त्वयि जीवति गाङ्गेय द्रोणे च रथिनां वरे
त्वत्कृते चैव कर्णो वै न्यस्तशस्त्रो महारथः
न युध्यति रणे पार्थान् हितकामससदा मम
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः
सञ्जयः-
एवमुक्तस्ततो राजन् पिता देवव्रतस्तव
धिक् क्षात्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति
उभौ श्वेतहयौ राजन् संसक्तौ दृढधन्विनौ
सिंहनादं भृशं कृत्वा बाणशङ्खरवैस्सह
द्रौणिर्दुर्योधनश्चैव विकर्णश्च महारथः
परिवार्य रणे भीष्मम् अभ्यरक्षन् पितामहम्
तथैव पाण्डवास्सर्वे परिवार्य धनञ्जयम्
स्थिता युद्धाय महते ततो युद्धमवर्तत
गाङ्गेयस्तु रणे पार्थम् आनर्च्छन्नवभिश्शरैः
तमर्जुनः प्रत्यविध्यद् दशभिर्मर्मभेदिभिः
ततश्शरसहस्रेण सुप्रयुक्तेन भारत
धनञ्जयो जयप्रेप्सुः भीष्मस्यावारयद्दिशः
शरजालं ततस्तत् तु शरजालेन भारत
वारयामास पार्थस्य भीष्मश्शान्तनवो युधि
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ
निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ
भीष्मचापविमुक्तानि शरजालानि सङ्घशः
शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः
तथैवार्जुनमुक्तानि शरजालानि भागशः
गाङ्गेयशरनुन्नानि न्यपतन्त महीतले
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैश्शरैः
भीष्मोऽपि समरे पार्थं विव्याध निशितैश्शरैः
अन्योन्यस्य हयान् विद्ध्वा ध्वजौ च सुमहाबलौ
रथेषां रथचक्रे च शस्त्रैश्चिक्रीडतु रणे
ततः क्रुद्धो महाराज भीष्मश्शान्तनवश्शरैः
वासुदेवं ततस्तीक्ष्णैर् आजघान स्तनान्तरे
भीष्मचापच्युतैर्बाणैर् निर्विद्धो मधुसूदनः
विरराज रणे राजन् सपुष्प इव किंशुकः
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं वीक्ष्य माधवम्
सारथिं कुरुवृद्धस्य निर्बिभेद शितैश्शरैः
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति
न तौ शकतुरन्योन्यम् अतिसन्धातुमाहवे
तौ मण्डलानि चित्राणि गतप्रत्यागतानि च
अदर्शयेतां बहुधा सूतसामर्थ्यजं बलम्
अन्तरं च प्रहारेषु तर्कयन्तौ परस्परम्
राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः
तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ
तयोश्शङ्खनिनादेन रथनेमिस्वनेन च
दारिता सहसा भूमिश् चकम्पे च ननाद च
न तयोरन्तरं कश्चिद् रणे पश्यति भारत
धर्माश्रितस्य हि तथा न किञ्चिद्वृजिनं क्वचित्
चिह्नमात्रेण भीष्मं तु जज्ञिरे तत्र कौरवाः
तावुभौ समरे वीरावन्योन्यसमरे उभौ
तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे
तयोर्नृसिंहयो राजन् युद्धं दृष्ट्वाऽतिविक्रमम्
विस्मयं सर्वभूतानि जग्मुर्भारतसंयुगे
अन्योन्यं शरजालेन तावदृश्यौ बभूवतुः
प्रकाशतां पुनर्यातौ क्षणेन भरतर्षभौ
ततो देवास्सगन्धर्वाश् चारणाश्च सहर्षिभिः
अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम्
न शक्यौ युधि संरब्धौ जेतुमेतौ कथञ्चन
सदैत्यासुरगन्धर्वैः देवैरपि सवासवैः
आश्चर्यभूतं लोकेऽस्मिन् युद्धमेतन्महाद्भुतम्
नैतादृशानि युद्धानि भूतपूर्वाणि संयुगे
न हि शक्यो रणे भीष्मो जेतुं पार्थेन धीमता
सधनुश्च सरथश्च विसृजंश्चापि सायकान्
तथैव पाण्डवं युद्धे देवैरपि दुरासदम्
न हि जेतुं रणे भीष्म उत्सहेत धनुर्धरम्
इति स्म वाचोऽश्रूयन्त प्रोच्चरन्तस्ततस्ततः
गाङ्गेयार्जुनयोस्सङ्ख्ये त्वत्कृते भरतर्षभ
ततस्त्वदीया योधाश्च पाण्डवेयाश्च भारत
अन्योन्यं समरे जघ्नुस् तयोस्तत्र समागमे
शितधारैस्तथा खड्गैर् विमलैश्च परश्वधैः
उभयोस्सेनयोश्शूरा न्यकृन्तन्त परस्परम्
वर्तमाने तथा घोरे तस्मिन् वीरवरक्षये
द्रोणपाञ्चाल्ययो राजन् महानासीत् समागमः