सञ्जयः-
क्रौञ्चं ततो महाव्यूहम् अभेद्यं तनयस्तव
व्यूहं द्ष्ट्वा महाघोरं पार्थेनामिततेजसा
आचार्यमुपसङ्गम्य कृपं शल्यं च मारिष
सौमदत्तिं विकर्णं च अश्वत्थामानमेव च
दुःशासनादीन् भ्रातॄंश्च सर्वानेव च भारत
अन्यांश्च सुबहूञ् शूरान् युद्धाय समुपागतान्
प्राहेदं वचनं काले हर्षयंस्तनयस्तव
दुर्योधनः-
नानाशस्त्रप्रहरणास् सर्वे शस्त्रास्त्रकोविदाः
एकैकं हि समर्था हि यूयं सर्वे महारथाः
पाण्डुपुत्रान् रणे हन्तुं ससैन्यान् किमु संहताः
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्
संस्थानाश्शूरसेनाश्च सर्वकाः कुकुरास्तथा
आरोचकास्त्रिगर्ताश्च मद्रका यवनास्तथा
शत्रुञ्जयेन सहितास् तथा दुःशासनेन च
विकर्णेन च धीरेण तथा नन्दोपनन्दकैः
चित्रसेनेन सहितास् सहिताः पारिभद्रकैः
भीष्ममेवाभिरक्षन्तु सर्वसैन्यपुरस्कृताः
सञ्जयः-
दुर्योधनवचश्श्रुत्वा सर्व एव महारथाः
तथेत्येनं नृपा ऊदुस् तदा द्रोणपुरोगमाः
ततो द्रोणश्च भीष्मश्च तव पुत्रेण मारिष
अव्यूहन्त महाव्यूहं पाण्डवान् प्रति चाहवे
भीष्मस्सैन्येन महता समनन्तात् परिवारितः
ययौ प्रकर्षन् महतीं वाहिनीं सुरराडिव
तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान्
कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते
विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि
सहितास्सर्वसैन्येन भीष्ममाहवशोभिनम्
गान्धारास्सिन्धुसौवीराश् शिबयोऽथ वसातयः
शकुनिश्च स्वसैन्येन भारद्वाजमपालयत्
ततो दुर्योधनो राजा सहितः सर्वसोदरैः
अश्मान्तकैर्निषण्णैश्च तथा काश्मीरकोसलैः
दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः
अभ्यरक्षत संहृष्टस् सौबलेयस्य वाहिनीम्
भूरिश्रवाश्शलश्शल्यो भगदत्तश्च मारिषः
विन्दानुविन्दावावन्त्यौ वामं पाक्षमपालयन्
सौमदत्तिस्सुशर्मा च काम्भोजश्च सुदक्षिणः
श्रुतायुश्च शतायुश्च दक्षिणं पक्षमास्थिताः
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
महत्या सेनया सार्धं सेनापृष्टे व्यवस्थिताः
पृष्ठगोपास्तु तस्यासन् नानादेश्या जनेश्वराः
केतुमान् वसुदानश्च पुत्रः काश्यस्य चाभिभूः
ततस्ते तु नरास्सर्वे हृष्टा युद्धाय भारत
दध्मुश्शङ्खान् मुदा युक्तास् सिंहनादान् व्यनादयन्
तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः
सिंहनादं विनद्योच्चैश् शङ्खं दध्मौ प्रतापवान्
ततश्शङ्खाश्च भेर्यश्च पणवानकगोमुखाः
सर्वतश्चाप्यवाद्यन्त स शब्दस्तुमुलोऽभवत्
ततश्श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ
प्रदध्मतुश्शङ्खवरौ हेमरत्नपरिष्कृतौ
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः
युधुष्ठिरश्च धर्मात्मा माद्रीपुत्रो च पाण्डवौ
तथैव बलवान् राजन् भीमकर्मा वृकोदरः
अभिमन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्
काशिराजश्च शैब्यश्च शिखण्डी च महारथः
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः
पाञ्चाल्याश्च महेष्वासा द्रौपद्याः पञ्च चात्मजाः
सर्वे दध्मुर्महाशङ्खान् सिंहनादांश्च नेदिरे
स घोषस्सुमहांस्तत्र वीरैस्तैस्समुदीरितः
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्
एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः
पुनर्युद्धाय सञ्जग्मुस् स्पर्धमानाः परस्परम्