सञ्जयः-
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे
वर्तमाने महारौद्रे महावीरवरक्षये
दुर्मुखः कृतवर्मा च कृपश्शल्यो विविंशतिः
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः
एतैर्गुप्तो महेष्वासैः पञ्चभिः पावकोपमैः
पाण्डवानामनीकानि विजगाहे महारथः
चेदिकाशिकरूषेषु पञ्चालेषु च भारत
भीष्मस्य बहुधा तालश् चरन् केतुरदृश्यत
धनूषिं रथिनां भीष्मस् सोष्णीषाणि शिरांसि च
बाहूनपि रथांश्चोरून् तथा च विपुलान् ध्वजान्
विचकर्त महावेगैर् भल्लैस्सन्नतपर्वभिः
एकैकेन तु मातङ्गा नाराचेन महात्मनः
ताडितास्सहसा जग्मुः पृथिवीं पर्वतोपमाः
नृत्यन् स रथमार्गेषु भीष्मश्चरति पार्थिव
दुराधर्षस्तु शत्रूणां मनांसि समकम्पयत्
हयांश्च सहयारोहान् पातयामास संयुगे
सरथेन महेष्वासो विचरन् बहुधा बली
मण्डलानि विचित्राणि गोमूत्रादीनि भारत
अन्यान् बहुविधान्नागान् रथेन रथकोविदः
विस्मापयञ् शूरसङ्गान् विचरञ्जाह्नवीसुतः
अभिमन्युस्ततः क्रुद्धः पिशङ्गैस्तुरगोत्तमैः
संयुक्तं रथमास्थाय प्रायाद् भीष्मरथं प्रति
जाम्बूनदविचित्रेण कर्णिकारेण केतुना
अभ्यवर्तत भीष्मं च ताञ्ञ् शल्यप्रमुखान् नृपान्
सतालकेतुना कार्ष्णिस् समासाद्य महारथः
भीष्मेण युयुधे वीरस् तस्य चानुरथैस्सह
कृतवर्माणमेकेन शल्यं पञ्चभिराशुगैः
विद्ध्वा नवभिरानर्च्छच् छिताग्रैः प्रपितामहम्
पूर्णायतविसृष्टेन सम्यक् प्रणिहितेन च
ध्वजमेकेन विव्याध जाम्बूनदविभूषितम्
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना
जहार सारथेः कायाच् छिरस्सन्नतपर्वणा
विविंशति त्रिभीर्बाणैस् सर्वावरणभेदिभिः
धनुश्चिच्छेद चैकेन हत्वा चाश्वान् व्यनादयत्
कृपस्य निशिताग्रैस्तु हयांस्तीक्ष्णजवैश्शरैः
जघान समरे क्रुद्धो नृत्यन्निव महारथः
तस्य लाघवमालोक्य तुष्टुवुर्दैवतान्यपि
लब्धलक्षतया कार्ष्णेस् सर्वे भीष्ममुखाश्च ते
सत्त्ववन्तममन्यन्त साक्षादिव धनञ्जयम्
तस्य लाघवमार्गस्थं ह्यलातसदृशप्रभम्
दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत्
तमाद्यन्तं महावेगैर् भीष्मो दशभिराशुगैः
विव्याध समरे वीरम् आर्जुनिं परवीरहा
ध्वजं चास्य त्रिभिर्भल्लैश् चिच्छेद परमौजसः
सारथिं च त्रिभिर्बाणैर् आजघान यतव्रतः
तथैव कृतवर्मा च कृपश्शल्यश्च दुर्मुखः
विविंशतिस्तथा राजन् पञ्चयोधा महारथाः
निजघ्नुर्निशितैर्बाणैर् अभिमन्युं महाबलम्
अभिमन्युर्महावीरो विद्धो वीरैस्तु पञ्चभिः
तदा नाकम्पयत् कार्ष्णिर् मैनाक इव पर्वतः
स तैः परिवृतश्शूरो धार्तराष्ट्रैर्महारथैः
ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान् प्रति
ततस्तेषां महास्राणि संवार्य शरवृष्टिभिः
ननाद बलवान् कार्ष्णिर् भीष्माय विसृजञ् शरान्
सौभद्रस्य तदा राजन् बाह्वोर्बलमदृश्यत
यतमानं महेष्वासं भीष्ममर्दयतश्शरैः
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान्
स तांश्चिच्छेद समरे भीष्मचापच्युताञ् शरान्
ततो ध्वजमामोघेषुर्भीष्मस्य नवभिश्शरैः
चिच्छेद समरे वीरस् तत उच्चुक्रुशुर्जनाः
स राजतो महास्कन्धस् तालो हेमविभूषितः
सौभद्रविशिखैश्छिन्नः पपात भुवि भारत
तं च सौभद्रविशिखैः पातितं भरतर्षभ
दृष्ट्वा भीमो ननादोच्चैस् सौभद्रमभिपालयन्
अथ भीष्मस्स्वयं राजन् दिव्यमस्त्रमुदारधीः
प्रादुश्चक्रे महारौद्रे रणे तस्मिन् महाबलः
ततश्शरसहस्रेण शराणां नतपर्वणाम्
अवाकिरदमेयात्मा सौभद्रं प्रपितामहः
ततो दश महेष्वासाः पाण्डवानां महारथाः
रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः
विराटस्सह पुत्रेण धृष्टद्युम्नश्च पार्षतः
भीमश्च केकयाश्चैव सात्यकिश्च विशां पते
तेषां जवेनापततां भीष्मोऽपि त्वरितो रणे
पाञ्चाल्यं त्रिभिरानर्च्छत् सात्यकिं त्रिभिश्शरैः
पूर्णायतविसृष्टेन क्षुरेण निशितेन च
ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा
जाम्बूनदमयश्श्रीमान् केसरी स नरोत्तम
पपात भीमसेनस्य भीष्मेण मथितो रथात्
ततो भीमस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे
कृपमेकेन विव्याध कृतवर्माणमष्टभिः
प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना
अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः
तस्य वारणराजस्य जवेनापततो रथी
शल्यो निवारयामास वेगमप्रतिमं रणे
तस्य प्रगृह्य नागेन्द्रो बृहतस्साधुवाहिनः
पदा युगमधिष्ठाय जघान चतुरो हयान्
स हताश्वे रथे तिष्ठन् मद्राधिपतिरायसीम्
उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम्
तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः
स पपात गजस्कन्धात् प्रमुक्ताङ्कुशतोमरः
समादाय च शल्योऽसिम् अवप्लुत्य रथोत्तमात्
वारणेन्द्रस्य विक्रम्य चिच्छेदाशु महाकरम्
भिन्नमर्मा शरव्रातैश् छिन्नहस्तस्सवारणः
भीममार्तस्वरं कृत्वा पपात च ममार च
एतदीदृशकं कृत्वा मद्रराजो नराधिप
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः
उत्तरं तु हतं दृष्ट्वा वैराटिर्भ्रातरं तदा
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम्
शङ्खः क्रोधात् प्रजज्वाल हविषा हव्यवाडिव
स विस्फार्य महच्चापं शक्रचापोपमं बली
अभ्यधावज्जिघांसुस्तं शल्यं मद्राधिपं युधि
महता रथवंशेन समन्तात् परिवारितः
सृजन् बाणमयं वर्षं प्रायाच्छल्यरथं प्रति
तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम्
तावकानां रथास्सप्त समन्तात् पर्यवारयन्
मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम्
ततो भीर्मो महाबाहुर् विनद्य जलदो यथा
तालमात्रं धनुर्बिभ्रत् शङ्खमभ्यद्रवद्रणे
तमुद्यन्तमुदीक्ष्यैनं महेष्वासं महाबलम्
सन्त्रस्ता पाण्डवी सेना वातवेगहतेव नौः
ततोऽर्जुनस्सन्त्वरितश् शङ्खस्यासीत् पुरस्सरः।
भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत
हाहाकारस्ततो राजन् योधानां युधी युध्यताम्
तेजस्तेजसि संसक्तम् इत्येवं विस्मयो ह्यभूत्
अथ शल्यो गदापाणिर् अवतीर्य महारथात्
शङ्खस्य चतुरो वाहान् अवधीद्भरतर्षभ
स हताश्वो रथे तिष्ठन् खड्गमादाय विद्रुतः
बीभत्सोस्स्यन्दनं प्राप्य पुनश्शान्तिमविन्दत
ततो भीष्मरथात् तूर्णं प्रपतन्ति पतत्रिणः
यैरन्तरिक्षं भूमिश्च सर्वतोऽभूत् समावृतम्
पाञ्चाल्यानथ मात्स्यांश्च केकयांश्च प्रभद्रकान्
भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः
उत्सृज्य समरे राजन् पाण्डवं सव्यसाचिनम्
प्रियं सम्बन्धिनं राजञ् शरानवकिरन् बहून्
अग्निनेव प्रदग्धानि वानानि शिशिरात्यये
शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य च
अतिष्ठच्च रणे भीष्मो विधूम इव पावकः
मध्यन्दिने यथाऽऽदित्यं पतन्तमिव तेजसा
न शोकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम्
अभ्यवर्तत पाञ्चाल्यं द्रुपदं सेनया वृतम्
वीक्षाञ्चक्रुस्समन्तात् ते पाण्डवा भयपीडिताः
त्रातारं नाभ्यगच्छन्त गावश्शीतार्दिता इव
अथास्मिन् विद्रुते सैन्ये निरुत्साहे विमर्दिते
हाहाकारो महानासीत् पाण्डुसैन्येषु मारिष
ततो भीष्मश्शान्तनवो नित्यं मण्डलकार्मुकः
मुमोच बाणान् दीप्ताग्रान् अहीनाशीविषानिव
शरैरेकायनीकुर्वन् दिशस्सर्वा यतव्रतः
जघान पाण्डवरथान् आदिश्यादिश्य भारत
ततस्सैन्येषु भग्नेषु मथितेषु च सर्वशः
प्राप्ते चास्तं दिनकरे न प्राज्ञायत किञ्चन
भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे
अपहारमकुर्वस्ते सैन्यानां भरतर्षभ