सञ्जयः-
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम्
कुरूणां पाण्डवानां च सङ्ग्रामे विजिगीषताम्
सिंहानामिव संह्रादो दिवमुर्वीं च नादयन्
आसीत् किलकिलाशब्दस् तलशङ्खरवैस्सह
जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम्
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ
पत्तीनां पादशब्दश्च वाजिनां च महास्वनः
तोत्राङ्कुशनिपातश्च आयुधानां च निःस्वनः
घण्टाशब्दश्च नागानाम् अन्योन्यमभिधावताम्
तस्मिन् समुदिते शब्दे तुमुले रोमहर्षणे
तथैव रथनिर्घोषः पर्जन्यनिनदोपमः
ते मनः क्रूरमाधाय समभित्यक्तजीविताः
पाण्डवानभ्यवर्तन्त कुरवश्चोच्छ्रितध्वजाः
स्वयं शान्तनवो राजन्नभ्यधावद्धनञ्जयम्
प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम्
अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ
गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली
तथैव पाण्डवो राजन् भीष्मं नाकम्पयद्युधि
सात्यकिस्तु महेष्वासः कृतवर्माणमभ्ययात्
तयोस्सुतुमुलं युद्धम् अभवद्रोमहर्षणम्
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम्
आनर्च्छतुश्शरैस्तीक्ष्णैस् तक्षमाणौ परस्परम्
तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ
वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ
अभिमन्युर्महेष्वासं बृहद्बलमयोधयत्
ततः कोसलको राजा सौभद्रस्य विशां पते
ध्वजं चिच्छेद समरे सारथिं च न्यपातयत्
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ
बृहद्बलं महाराज विव्याध नवभिश्शरैः
अथापराभ्यां भल्लाभ्यां शिताभ्यामरिमर्दनः
ध्वजमेकेन चिच्छेद बिभेदैकेन सारथिम्
अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः
मानिनं समरे दृप्तं कृतवैरं महारथम्
भीमसेनस्तव सुतं दुर्योधनमयोधयत्
तावुभौ नरशार्दूलौ कुरुमुख्यौ महारथौ
अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे
तौ वीक्ष्य तु महात्मानौ कृतिनौ चित्रयोधिनौ
विस्मयस्सर्वभूतानां समपद्यत भारत
दुश्शासनस्तु नकुलं प्रत्युद्याय महारथः
अविध्यन्निशितैर्बाणैर् बहुभिर्मर्मभेदिभिः
तस्य माद्रीसुतः केतुं सशरं च शरासनम्
चिच्छेद विशिखैस्तीक्ष्णैः प्रहसन्निव भारत
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे
बाणैर्युगं च चिच्छेद ध्वयजं चास्य न्यपातयत्
दुर्मुखस्सहदेवं तु प्रत्युद्याय महारथम्
विव्याध शरवर्षेण यतमानं महाहवे
सहदेवस्ततो वीरो दुर्मुखस्य महामृधे
शरेण भृशतीक्ष्णेन पातयामास सारथिम्
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ
ततक्षाते शरैर्घोरैः कृतप्रतिकृतैषिणौ
युधिष्टिरस्स्वयं राजा मद्रराजमयोधयत्
तस्य मद्रपतिश्चापि धनुश्चिच्छेद मारिष
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः
अन्यत् कार्मुकमादाय वेगवद्बलवत्तरम्
ततो मद्रेश्वरं राजा शरैस्सन्नतपर्वभिः
छादयामास सङ्क्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत्
धृष्टद्युम्नस्ततो द्रोणम् अभ्यधावत भारत
तस्य द्रोणस्सुसङ्क्रुद्धः परासुकरणं दृढम्
त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम्
शरं चैव महाघोरं कालदण्डमिवापरम्
प्रेषयामास समरे सोऽस्य काये न्यमज्जत
अथान्यद्धनुरादाय सायकांश्च चतुर्दश
द्रोणं द्रुपदपुत्रस्तु प्रेषयामास संयुगे
तावन्योन्यं सुसङ्क्रुद्धौ चक्रतुस्सुभृशं रणम्
मागधस्सौमदत्तिं तु रभसं रभसो युधि
प्रत्युद्ययौ महाराज तिष्ठतिष्ठेति चाब्रवीत्
दक्षिणं सौमदत्तेस्तु निर्बिभेद रणे भुजम्
सौमदत्तिश्शरं तस्य जत्रुदेशे समर्पयत्
तयोस्समभवद्युद्धं घोररूपं विशां पते
दृप्तयोस्समरे तूर्णं वृत्रवासवयोरिव
बाह्लीकं तु रणे क्रुद्धं धृष्टकेतुस्समभ्ययात्
बाह्लीकस्तु रणे राजन् धृष्टकेतुममर्षणः
शरैर्दशभिरानर्च्छत् सिंहनादं ननाद च
धृष्टकेतुस्सुसङ्क्रुद्धो बाह्लीकं नवभिश्शरैः
विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम्
तौ तत्र समरे दृप्तौ चेरतुश्च मुहुर्मुहुः
समीयतुस्सुसङ्क्रुद्धावङ्गारकबुधाविव
राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः
अलम्बुसं प्रत्युदियाद् बलं शक्र इवाहवे
घटोत्कचस्ततस्तूर्णं राक्षसेन्द्रं महाहवे
नवत्या सायकैस्तीक्ष्णैर् अर्दयामास भारत
अलम्बुसस्तु समरे भैमसेनिं महाबलम्
बहुधा दारयामास सायकैर्नतपर्वभिः
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ
यथा देवासुरे युद्धे बलशक्रौ महारथौ
शिखण्डी समरे राजन् द्रौणिमभ्यर्दयद्बली
अश्वत्थामा ततः क्रुद्धश् शिखण्डिनमुपस्थितम्
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा ह्यकम्पयत्
शिखण्ड्यपि ततो राजन् द्रोणपुत्रमताडयत्
सायकेन सुतीक्ष्णेन पीतेन निशितेन च
समाजघ्नतुरन्योन्यं शरैर्बहुविधैर्नृप
भगदत्तं रणे शूरं विराटो वाहिनीपतिः
अभ्ययात् त्वरितो राजंस् ततो युद्धमवर्तत
विराटो भगदत्तं तु शरवर्षेण भारत
अभ्यवर्षत् सुसङ्क्रुद्धो मेघो वृष्ट्या इवाचलम्
भगदत्तस्ततः क्षिप्रं विराटं वाहिनीपतिम्
छादयामास नाराचैर् मेघस्सूर्यमिवोदितम्
बृहत् क्षत्रं तु कैकेयं कृपश्शारद्वतो ययौ
तं कृपश्शरवर्षेण च्छादयामास भारत
गौतमं चापि कैकयः शरवृष्ट्याऽभ्यपूरयत्
तावन्योन्यं हयान् हत्वा धनुषी विनिकृत्य च
विरथावसियुद्धाय समीयतुररिन्दमौ
तयोस्समभवद्युद्धं घोररूपं सुदारुणम्
द्रुपदस्तु ततो राजन् सैन्धवं वै जयद्रथम्
अभ्ययात् समरे हृष्टो हृष्टरूपं परन्तपः
ततस्सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः
ताडयामास समरे स च तं प्रत्यविध्यत
तयोस्समभवद्युद्धं घोररूपं सुदारुणम्
ईक्षितृप्रीतिजननं दृप्तशार्दूलयोरिव
विकर्णस्तु सुतस्तूर्णं युधामन्युं महाबलम्
अभ्ययाज्जवनैरश्वैस् ततो युद्धमवर्तत
विकर्णस्तु युधामन्युं विद्ध्वा नाकम्पयच्छरैः
युधामन्युर्विकर्णं च तदद्भुतमिवाभवत्
सुशर्माणं नरव्याघ्रश् चेकितानो महाबलः
अभ्यर्दयत् सुसङ्क्रुद्धः पाण्डवार्थे पराक्रमी
सुशर्मा तु महाराज चेकितानं महारथम्
महता शरवर्षेण वारयामास संयुगे
चेकितानोऽपि सङ्क्रुद्धस् सुशर्माणं महाहवे
शरैश्च छादयामास महामेघ इवाचलम्
शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी
अभ्यद्रवत राजेन्द्र सिंहो मत्तमिव द्विपम्
यौधिष्ठिरस्तु सङ्क्रुद्धस् सौबलं निशितैश्शरैः
व्यदारयत सङ्ग्रामे मघवानिव शम्बरम्
शकुनिः प्रतिविन्ध्यं तु प्रतिविन्ध्यस्तमाहवे
व्यदारयन्महाप्राज्ञश् शरैस्सन्नतपर्वभिः
सुदक्षिणं च राजेन्द्र काम्भोजानां जनेश्वरम्
श्रुतसोमः पराक्रान्तो ह्यभ्यद्रवत संयुगे
सुदक्षिणस्तु समरे भैमसेनिं महाबलम्
विद्ध्वा नाकम्पयत् सङ्ख्ये मैनाकमिव पर्वतम्
श्रुतसोमस्तु सङ्क्रुद्धः काम्भोजं तु नराधिपम्
शरैर्बहुभिरानर्च्छद् दारयन्निव सर्वशः
इरावानथ सङ्क्रुद्धश् श्रुतायुषममर्षणम्
प्रत्युद्ययौ रणे यत्तो घोररूपतरं ततः
आर्जुनिस्तत्र समरे हयान् हत्वा महारथः
ननाद तत् कर्म रणे सर्वसैन्यान्यपूजयन्
इरावानपि सङ्क्रुद्धश् श्रुतकीर्तिर्महारणे
निजघान गदाग्रेण ततो युद्धमवर्तत
विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम्
ससैन्यं ससुतं वीरम् अयुध्येतां परन्तपौ
तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम्
अयुध्येतां स्थिरौ भूत्वा महत्या सेनया सह
अनुविन्दस्तु गदया कुन्तिभोजमताडयत्
कुन्तिभोजश्च तं क्षिप्रं शरव्रातैरवाकिरत्
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः
स च तं प्रतिविव्याध तदद्भुतमिवाभवत्
केकया भ्रातरः पञ्च गान्धारान् पञ्च मारिष
ससैन्यास्तु ससैन्यांस्तु योधयन्ति महारणे
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम्
उत्तरं योधयत्तूर्णं विव्याध निशितैश्शरैः
उत्तरश्चापि तं वीरं विव्याध निशितैश्शरैः
ततो युद्धं समभवद् घोररूपं विशां पते
उलूकं तु शतानीकश् शरैर्बहुभीरावृणोत्
उलूकश्चापि तं बाणैर् निशितैर्लोमवापिभिः
तयोर्युद्धं समभवद् घोररूपं विशां पते
दारयेतां रणे शस्त्रैर् अन्योन्यमपराजितौ
आसन् द्वन्द्वसहस्राणि नरवारणवाजिनाम्
पाण्डवानां च समरे तावकानां च संयुगे
मुहूर्तमिव तद्युद्धम् आसीन्मधुरदर्शनम्
तत उन्मत्तवद्राजन्न प्राज्ञायत किञ्चन
गजो गजेन समरे रथी च रथिनं ययौ
अश्वोऽश्वं समरे प्रेत्य पदातिश्च पदातिनम्
एवं युद्धं सुदुर्धर्षं प्रव्याकुलमजायत
सङ्कुले तत्र युध्यन्ति समासाद्य परस्परम्
तत्र देवर्षिसिद्धाश्च चारणाश्च समागताः
प्रेक्षन्त ते रणे घोरं देवासुरसमं भुवि
ततो दन्तिसहस्राणि रथानां चापि मारिष
अश्वौघाः पुरुषौघाश्च विपरीतान् समाययुः
तत्रतत्रैव दृश्यन्ते रथवारणपत्तयः
सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः