धृतराष्ट्रः-
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च
के पूर्वं प्राहरंस्तत्र पाण्डवाः कौरवास्तदा
सञ्जयः-
भ्रातृर्वचनमाज्ञाय पुत्रो दुश्शासनस्तव
भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह
तथैव पाण्डवास्सर्वे भीमसेनपुरोगमाः
भीष्मेण युद्धमिच्छन्तस् सर्वे च सहिता ययुः
क्ष्वेळाः किलकिलाशब्दाः क्रकरा गोविषाणिकाः
भेरीमृदङ्गमुरवा हयकुञ्जरनिःस्वनाः
उभयोस्सेनयो र्ह्यासन् निस्वना नदतां नृणाम्
वधं प्रतिनदन्तश्च तदाऽऽसीत् तुमुलं महत्
महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः
चकम्पिरे शङ्खमृदङ्गनिःस्वनैः प्रकम्पितानीव वनानि वायुना
नरेन्द्रनागाश्वरथाकुलानां समागतानामशिवे मुहूर्ते
बभूव घोषस्तुमुलश्चमूनां वातोद्धतानामिव सागराणाम्
तस्मिन् समुत्थिते शब्दे तुमुले रोमहर्षणे
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम्
सिंहनादं च सैन्यानां आवृणोद्भीमनिस्वनः
हयानां हेषमाणानाम् अनीकेषु सहस्रशः
सर्वानभ्यभवच्छब्दान् भीमसेनस्य निस्वनः
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः
जीमूतस्येव नदतः शक्राशनिसमस्वनम्
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः
शब्देन भीमसेनस्य सिंहस्येवेतरे मृगाः
दर्शयन् घोरमात्मानं नवाभ्र इव नानदन्
विभीषयंस्तव सुतान् तव सेनां समाद्रवत्
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन्
छादयन्तश्शरव्रातैर् मेघा इव दिवाकरम्
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुष्प्रहस्तथा
दुःशासनश्चातिरथस् तथा दुर्मर्षणो नृपः
विविंशतिश्चित्रसेनो वृषसेनो महारथः
पुरुमित्रो जयो भोजस् सौमदत्तिश्च भूमिप
महाचापानि धुन्वन्तो मेघा इव सविद्युतः
आददानाश्च नाराचान् शितानाशीविषोपमान्
अग्रतः पाण्डुसेनाया ह्यतिष्टन् पृथिवीक्षितः
अथ तान् द्रौपदीपुत्रास् सौभद्रश्च महारथः
नकुलस्सहदेवश्च धृष्टद्युम्नश्च पार्षतः
धार्तराष्ट्रान् प्रतिययुर् अर्दयन्तश्शितैश्शरैः
वज्रैरिव महावेगैश् शिखराणि धराभृताम्
तस्मिन् प्रथमसङ्ग्रामे भीमज्यातलनिःस्वने
तावकानां परेषां च नासीत् कश्चित् पराङ्मुखः
लाघवं द्रोणशिष्याणाम् अपश्यं भरतर्षभ
निमित्तवेधिनां राजन् शरानुत्सृजतां भृशम्
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा
विनिश्चेरुश्शरा दीप्ता ज्योतींषीव नभस्थलात्
सर्वेत्वन्ये महीपालाः प्रेक्षका इव भारत
ददृशुर्दर्शनीयाक्षा भीमं ज्ञातिसमागमम्
ततस्ते जातसंरम्भाः परस्परकृतैषिणः
अन्योन्यस्पर्धया राजन् व्यायच्छन्त महारथाः
कुरुपाण्डवसेने ते हस्त्यश्वरथसङ्कुले
शुशुभाते रणेऽतीव पटे चित्रार्पिते यथा
ततस्ते पार्थिवास्सर्वे प्रगृहीतशरासनाः
सहसैन्यास्समापेतुः पुत्रस्य तव शासनात्
युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः
विनदन्तस्समापेतुस् तव पुत्रस्य वाहिनीम्
उभयोस्सेनयो राजन् परस्परसमागमे
अन्तर्धीयत चादित्यश् सैन्येन रजसा वृतः
प्रयुध्यतां प्रभग्नानां पुनरावर्ततामपि
तत्र स्वेषां परेषां वा विशेषो नोपपद्यते
तस्मिंस्तु तुमुले युद्धे वर्तमाने मयावहे
अति सर्वाण्यनीकानि पिता तेऽव्यभिरोचत