अर्जुनः-
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः
श्रीभगवान्-
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः
ये त्वक्षरमनिर्देश्यम् अव्यक्तं पर्युपासते
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः
क्लेशोऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम्
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः
अनन्येनैव योगेन मां ध्यायन्त उपासते
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्
भवामि न चिरात् पार्थ मय्यावेशितचेतसाम्
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्
अभ्यासयोगेन ततो मामिच्छाऽऽप्तुं धनञ्जय
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्
श्रेयो हि ज्ञानमभ्यासाज् ज्ञानाद्ध्यानं विशिष्यते
ध्यानात् कर्मफलत्यागस् त्यागाच्छान्तिरनन्तरम्
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च
निर्ममो निरहङ्कारस् समदुःखसुखः क्षमी
सन्तुष्टस्सततं योगी यतात्मा दृढनिश्चयः
मय्यर्पितमनोबुद्धिर् यो मे भक्तस्स मे प्रियः
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः
हर्षामर्षभयोद्वेगैर् मुक्तो यस्स च मे प्रियः
अनपेक्षश्शुचिर्दक्ष उदासीनो गतव्यथः
सर्वारम्भपरित्यागी यो मद्भक्तस्स मे प्रियः
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति
शुभाशुभपरित्यागी भक्तिमान् यस्स मे प्रियः
समश्शत्रौ च मित्रे च तथा मानापमानयोः
शीतोष्णसुखदुःखेषु समस्सङ्गविवर्जितः
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केन चित्
अनिकेतस्स्थिरमतिर् भक्तिमान् मे प्रियो नरः
ये तु धर्मामृतमिदं यथोक्तं पर्युपासते
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः