अर्जुनः-
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम
अधिभूतं च किं प्रोक्तम् अधिदैवं किमुच्यते
अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः
श्रीभगवान्-
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते
भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्
अधियज्ञोऽहमेवात्र देहे देहभृतां वर
अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम्
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः
यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेबरम्
तं तमेवैति कौन्तेय सदा तद्भावभावितः
तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च
मय्यर्पितमनोबुद्धिर् मामेवैष्यस्यसंशयः
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्
कविं पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद्यः
सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात्
प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम्
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं सङ्ग्रहेण प्रवक्ष्ये
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च
मूर्ध्न्याधायात्मनः प्राणम् आस्थितो योगधारणाम्
ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्
यः प्रयाति त्यजन् देहं स याति परमां गतिम्
अनन्यचेतास्सततं यो मां स्मरति नित्यशः
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्
नाप्नुवन्ति महात्मानम् संसिद्धिं परमां गताः
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते
सहस्रयुगपर्यन्तम् अहर्यद्ब्रह्मणो विदुः
रात्रिं युगसहस्रां तां तेऽहोरात्रविदो जनाः
अव्यक्ताद्व्यक्तयस्सर्वाः प्रभवन्त्यहरागमे
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके
भूतग्रामस्स एवायं भूत्वा भूत्वा प्रलीयते
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे
परस्तस्मात् तु भावोऽन्यो व्यक्तोऽव्यक्तात् सनातनः
यस्स सर्वेषु भूतेषु नश्यत्सु न विनश्यति
अव्यक्तोऽक्षर इत्युक्तस् तमाहुः परमां गतिम्
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम
पुरुषस्स परः पार्थ भक्त्या लभ्यस्त्वनन्यया
यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम्
यत्र काले त्वनावृत्तिम् आवृत्तिं चैव योगिनः
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ
अग्निर्ज्योतिरहश्शुक्लष् षण्मासा उत्तरायणम्
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः
धूमो रात्रिस्तथा कृष्णष् षण्मसा दक्षिणायनम्
तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते
शुक्लकृष्णे गती ह्येते जगतश्शाश्वते मते
एकया यात्यनावृत्तिम् अन्ययाऽऽवर्तते पुनः
नैते सृती पार्थ जानन् योगी मुह्यति कश्चन
तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन
वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत् पुण्यफलं प्रदिष्टम्
अत्येति तत् सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्