धृतराष्ट्रः-
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय
सञ्जयः-
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्
पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम्
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि
युयुधानो विराटश्च द्रुपदश्च महारथः
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्
पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः
अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम
नायका मम सैन्यस्य सञ्ज्ञार्थं तान् ब्रवीमि ते
भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च
अन्ये च बहवश्शूरा मदर्थे त्यक्तजीविताः
नानाशस्त्रप्रहरणास् सर्वे युद्धविशारदाः
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्
अयनेषु च सर्वेषु यथाभागमवस्थिताः
भीष्ममेवाभिरक्षन्तु भवन्तस्सर्व एव हि
तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः
सिंहनादं विनद्योच्चैश् शङ्खं दध्मौ प्रतापवान्
ततश्शङ्खाश्च भेर्यश्च पणवानकगोमुखाः
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्
ततश्श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः
नकुलस्सहदेवश्च सुघोषमणिपुष्पकौ
काश्यश्च परमेष्वासस् शिखण्डी च महारथः
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते
सौभद्रश्च महाबाहुश् शङ्खान् दध्मुः पृथक् पृथक्
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः
हृषीकेशं तदा वाक्यम् इदमाह महीपते
अर्जुनः-
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत
यावदेतान् निरीक्षेऽहं योद्धुकामानवस्थितान्
कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः
धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रियचिकीर्षवः
सञ्जयः-
एवमुक्तो हृषीकेशो गुडाकेशेन भारत
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्
भीष्मद्रोणप्रमुखतस् सर्वेषां च महीक्षिताम्
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति
तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान्
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि
तान् समीक्ष्य स कौन्तेयस् सर्वान् बन्धूनवस्थितान्
कृपया परयाऽविष्टो विषीदन्निदमब्रवीत्
अर्जुनः-
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्
सीदन्ति मम गात्राणि मुखं च परिशुष्यति
वेपथुश्च शरीरे मे रोमहर्षश्च जायते
गाण्डीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः
निमित्तानि च पश्यामि विपरीतानि केशव
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा
येषामर्थे काङ्क्षितं नो राज्यं भोगास्सुखानि च
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च
आचार्याः पितरः पुत्रास् तथैव च पितामहाः
मातुलाश्श्वशुराः पौत्रास् स्यालास्सम्बन्धिनस्तथा
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते
निहत्य धार्तराष्ट्रान् नः का प्रीतिस्स्याज्जनार्दन
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान्
स्वजनं हि कथं हत्वा सुखिनस्स्याम माधव
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन
कुलक्षये प्रणश्यन्ति कुलधर्मास्सनातनाः
धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवत्युत
अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः
सङ्करो नरकायैव कुलघ्नानां कुलस्य च
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन
नरके नियतं वासो भवतीत्यनुशुश्रुम
अहो बत महत् पापं कर्तुं व्यवसिता वयम्
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः
यदि मामप्रतीकारम् अशस्त्रं शस्त्रपाणयः
धार्तराष्ट्रा रणे हन्युस् तन्मे क्षेमतरं भवेत्
सञ्जयः-
एवमुक्त्वार्जुनस्सङ्ख्ये रथोपस्थ उपाविशत्
विसृज्य सशरं चापं शोकसंविग्नमानसः