सञ्जयः-
ततो धनञ्जयं दृष्ट्वा बाणगाण्डीवधारिणम्
पुनरेव महानादं व्यसृजन्त महारथः
पाण्डवस्सोमकाश्चैव ये चैषामनुयायिन
दध्मुः प्रमुदिताश्शङ्खान् वीरास्सागरसम्भवान्
तत्र भेर्यश्च पणवाः कङ्करा गोविषाणकाः
सहसैवाभ्यहन्यन्त ततश्शब्दो महानभूत्
अथ देवास्सगन्धर्वाः पितरस्समहेश्वराः
सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया
ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम्
समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत्
ते सेने स्तिमितेवास्ताम् ईक्षमाणे परस्परम्
गङ्गायमुनयोर्वेगौ यथैवैत्य परस्परम्
एवं प्रवृत्ते ते सेने निश्शब्दे जनसंसदि
चित्रे पट इवालेख्ये दर्शनीयतरे शुभे
ततो युधिष्ठिरो वीक्ष्य युद्धाय स समुद्यतः
ते सेने सागरप्रख्ये मुहुः प्रज्वलिते नृप
विमुच्य कवचं वीरो निक्षिप्य च वरायुधम्
अवरुह्य रथात् तूर्णं पद्भ्यामेव कृताञ्जलि
पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः
वाग्यतः प्रययौ धीरः प्राङ्मुखो रिपुवाहिनीम्
तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो वृकोदरः
अवतीर्य रथात् तूर्णं भ्रातृभिस्सहितो वशी
भीतं युधिष्ठिरं मत्वा भीमसेनः प्रतापवान्
वासुदेवश्च भगवान् पृष्ठतोऽनुजगाम ह
सात्यकिश्चार्जुनश्चैव ह्यभिमन्युश्च वीर्यवान्
युधामन्युप्रभृतयो राजानस्तं समुत्सुकाः
अर्जुनः-
किं ते व्यवसितं राजन् यदस्मानपहाय वै
पद्भ्यामेव प्रयातोऽसि प्रमुखे रिपुवाहिनीम्
भीमः-
क्व गमिष्यसि राजेन्द्र निक्षिप्य कवचायुधम्
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पाण्डव
नकुलः-
एवं गते त्वयि श्रेष्ठ मम भ्रातरि पार्थिव
भीस्समन्वेति हृदयं ब्रूहि गन्ताऽभयं क्व नु
सहदेवः-
अस्मिन् नृपसमूहे वै वर्तमाने महाहवे
योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखे स्थितान्
सञ्जयः-
एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दनः
नोवाच वाग्यतः किञ्चिद् गच्छत्येव युधिष्ठिरः
तानुवाच महाप्राज्ञो वासुदेवो महामनाः
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव
एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च
अनुमान्य गुरून् वृद्धान् योत्स्यते पार्थिवोऽरिभिः
श्रूयते हि पुराकल्पे गुरूनननुमान्य यः
युद्धायावतरत्येव तस्य नास्ति जयो रणे
यस्तु युद्धे समुत्पन्ने गरून् दृष्ट्वाऽथ दंशितान्
अनुमान्य यथाशास्त्रं तैस्तु युद्धे महत्तरैः
ध्रुवं तस्य जयो युद्धे भवेदिति मतिर्मम
एवं ब्रुवति कृष्णे तु निश्शब्दास्सर्वसैनिकाः
नेत्रैरनिमिषैस्सर्वैः प्रेक्षन्ते स्म युधिष्ठिरम्
हाहाकारो महानासीद् धार्तराष्ट्रचमूं प्रति
दृष्ट्वा युधिष्ठिरं दूराद् धार्तराष्ट्रस्य सैनिकाः
मिथस्सङ्कथयाञ्चकुर् एषोऽस्ति कुलपांसनः
व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात्
युधिष्ठिरस्ससोदर्यश् शरणार्थमुपागतः
धनञ्जये कथं नाथे पाण्डवे च वृकोदरे
नकुले सहदेवे च धृष्टद्युम्ने च सात्यकौ
न नूनं क्षत्रियकुले जातस्सम्प्रथिते भुवि
यदस्य हृदयं भीतम् अल्पसत्त्वस्य संयुगे
ततस्तु नृपतेस्सेना ह्येकीकृत्वा युधिष्ठिरम्
निःशब्दा समभूद्राजन् दृष्ट्वा प्राप्तं च पाण्डवम्
किं नु वक्ष्यति राजाऽसौ धर्मपुत्रो युधिष्ठिरः
किं नु वक्ष्यति भीष्मोऽसौ भारतानां धुरन्धरः
किं भीमस्समरश्लाघी किं नु कृष्णार्जुनाविति
विवक्षितं किमस्येति संशयस्सुमहानभूत्
उभयोस्सेनयो राजन् युधिष्ठिरकृते तदा
स विगाह्य चमूं शत्रोश् शरशक्तिसमाकुलाम्
भीष्ममेवाभ्ययात् तूर्णं भ्रातृभिः परिवारितः
तमुवाच ततो धीमान् पादौ सम्पीड्य पाण्डवः
भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम्
युधिष्ठिरः-
आमन्त्रये त्वां दुर्धर्ष त्वया योत्स्याम्यहं सह
अनुजानीहि मां राजन् आशिषश्च प्रयोजयः
जयेयं च रिपून् सर्वान् अनुज्ञातस्त्वयाऽनघ
युध्यन्तं मां रणे वीर त्वमनुज्ञातुमर्हसि
भीष्मः-
यद्येवं नाभिगच्छेस्त्वं युद्धाय कृतनिश्चयः
शपेयं त्वां महाराज पराभावाय पाण्डव
प्रीतोऽहं पुत्र युध्यस्व जयमाप्नुहि पाण्डव
यत् तेऽभिलषितं चान्यत् तदवाप्नुहि संयुगे
व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि
एवं गते महाराज युद्धादन्यत् किमिच्छसि
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्
एतत् सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः
अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन
हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत् किमिच्छसि
युधिष्ठिरः-
मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः
युद्धस्व कौरवस्यार्थे ममैष सततं वरः
भीष्मः-
मन्त्रयिष्याम्यहं राजन् यच्च ते हितमुत्तमम्
कामं योत्स्ये परस्यार्थे ब्रूहि यत् ते विवक्षितम्
युधिष्ठिरः-
कथं जयेयं सङ्ग्रामे भवन्तमपराजितम्
एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि
भीष्मः-
न तं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे
विजयेत पुमान् कश्चित् सक्षादपि शतक्रतुः
युधिष्ठिरः-
हन्त पृच्छामि तस्मात् त्वां पितामह नमोस्तु ते
जयोपायं हि मे ब्रूहि आत्मनस्समरे परैः
भीष्मः-
न शत्रुं तात पश्यामि समरे यो जयेत माम्
अयुध्यमानं संहत्य सौहृदेन परिप्लुतम्
न्यस्तशस्त्रं निरुद्योगं हन्युर्मां शत्रवो युधि
निक्षिप्तशस्त्रे पतिते विमुक्तकवचे तथा
द्रवमाणे च भीते च तवास्मीति च यो वदेत्
स्त्रियं स्त्रीनामधेयं च विकलं चाप्यपुत्रकम्
अप्रशस्ते च हीने च न युद्धं रोचयाम्यहम्
इदञ्च गदितं पार्थ परमं व्रतमाहवे
न तावन्मृत्युकालो मे पुनरागमनं कुरु
सञ्जयः-
ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन
शिरसा प्रतिगृह्याथ भूयस्तमभिवाद्य च
प्रायात् पुनर्महाराज आचार्यस्य रथं प्रति
पश्यतां सर्वसैन्यानां मध्ये तं भ्रातृभिस्सह
स द्रोणमभिवाद्याथ कृत्वा चापि प्रदक्षिणम्
उवाच वाचा दुर्धर्ष आत्मनिश्श्रेयसं वचः
युधिष्ठिरः-
आमन्त्रये त्वा भगवन् योत्स्ये विगतकल्मषः
जयेयं च रिपून् सर्वान् अनुज्ञातस्त्वया द्विज
द्रोणः-
यदि मां नाभिगच्छेस्त्वं युद्धाय कृतनिश्चयः
शपेयं त्वा महाराज पराभावाय नित्यशः
तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयाऽनघ
अनुजानामि युध्यस्व विजयं समवाप्नुहि
करवाणि च कं कामं ब्रूहि यत् ते विवक्षितम्
एवं गते महाराज युद्धादन्यत् किमिच्छसि
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः
ब्रवीम्यहं क्लीबभावात् त्वदर्थे कुरुनन्दन
योत्स्येऽहं कौरवस्यार्थे त्वया सार्धं विशां पते
युधिष्ठिरः-
जयमाशास्स्व मे ब्रह्मन् मन्त्रयस्व च यद्धितम्
युध्यस्व कौरवस्यार्थे वर एष वृतो मया
द्रोणः-
ध्रुवस्ते विजयो राजन् यस्य मन्त्री हरिस्तव
अहं त्वामनुजानामि रणे शत्रून् विजेष्यसि
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः
युध्यस्व गच्छ कौन्तेय पृच्छ वा किं ब्रवीमि ते
युधिष्ठिरः-
पृच्छामि त्वा द्विजश्रेष्ठ श्रृणु यन्मेऽभिकाङ्क्षितम्
कथं जयेयं समरे भवन्तमपराजितम्
द्रोणः-
न तेऽस्ति विजयस्तावद् यावद्वै मारयाम्यहम्
ममाशु निधने राजन् यतस्व सह सोदरैः
युधिष्ठिरः-
हन्त कस्मान्मम ब्रूहि वधोपायं त्वमात्मनः
आचार्य प्रणिपत्याहं पृच्छामि त्वां नमोऽस्तु ते
द्रोणः-
न शत्रुं तात पश्यामि यो मां हन्याद्रणे स्थितम्
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम्
यो मां प्रायगतं हन्यान् न्यस्तशस्त्रं तथा विभो
स वै हन्यान्महाराज सत्यमेतद्ब्रवीमि ते
शस्त्रं चाहं रणे जह्यां श्रुत्वा सुमहदप्रियम्
श्रद्धेयवाक्यात् पुरुषाद् इति सत्यं ब्रवीमि ते
सञ्जयः-
एतच्छ्रुत्वा महाराज भारद्वाजस्य पश्यतः
अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति
सोऽभिवाद्य कृपं राजा कृत्वा चैव प्रदक्षिणम्
उवाच दुर्धर्षतमं वाक्यं वाक्यविश्रदः
युधिष्ठिरः-
अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः
जयेयं च रिपून् सर्वान् अनुज्ञातस्त्वयाऽनघ
कृपः-
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः
शपेयं त्वां महाराज पराभावाय सर्वशः
किं ते करोमि वै कामं ब्रूहि पाण्डवनन्दन
एवं गते महाराज युद्धादन्यत् किमिच्छसि
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः
युधिष्ठिरः-
तेषामर्थे महाराज योद्धव्यमिति मे मतिः
अतस्त्वां क्लीबवद्ब्रूयां युद्धादन्यत् किमिच्छसि
हन्त पृच्छामि ते तस्माद् आचार्य श्रृणु मे वचः
सञ्जयः-
इत्युक्त्वा व्यथितो राजा निवाच गतचेतनः
गौतमस्तं प्रत्युवाच विज्ञायास्य विवक्षितम्
गौतमः-
अवध्योऽहं महीपाल युद्ध्यस्व जयमाप्नुहि
प्रीतस्तेऽभिगमेनाहं जयं तव नराधिप
आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते
सञ्जयः-
एतच्छ्रुत्वा महाराज गौतमस्य वचस्तदा
अनुमान्य कृपं राजा प्रययौ यत्र मद्रराट्
स शल्यमभिवाद्याथ कृत्वा चापि प्रदक्षिणम्
उवाच राजा दुर्धर्षम् आत्मानिश्श्रेयसं वचः
युधिष्ठिरः-
अनुमानये त्वां योत्स्यामि परान् विगतकल्मषः
जयेयं च महाराजन् अनुज्ञातस्त्वया रिपून्
शल्यः-
यदि मां निभिगच्छेथा युद्धाय कृतनिश्चयः
शपेयं त्वां महाराज पराभावाय वै रणे
तृष्टोऽस्मि पूजितश्चास्मि यत् काङ्क्षसि तदस्तु ते
अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि
ब्रूहि चैवापरं वीर केनार्थी किं ददामि ते
एवं गते महाराज युद्धादन्यत् किमिच्छसि
युधिष्ठिरः-
मन्त्रयस्व महाराज नित्यं मे हितमुत्तमम्
कामं युद्ध्यस्व रिपवे वरमेतद्वृणोम्यहम्
शल्यः-
मन्त्रयिष्ये महाराज नित्यं त्वद्धितमुत्तमम्
अर्थस्य पुरुषो दासो दासस्वर्थो न कस्यचित्
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः
अतस्त्वां क्लीबवद्ब्रूमि युद्धादन्यत् किमिच्छसि
तेषामर्थे महाराज योद्धव्यमिति मे मतिः
युधिष्ठिरः-
एवमेव वचस्सत्यम् उद्योगे यस्त्वया कृतः
सूतपुत्रस्य राजेन्द्र कार्यस्तेजोवधस्त्वया
त्वां हि योक्ष्यति सूतत्वे सूतपुत्रस्य मातुल
दुर्योधनो रणे शूरम् इति मे नैष्ठिकी मतिः
शल्यः-
सम्पत्स्यते च ते कामः कुन्तीपुत्र यथेप्सितम्
गच्छ युध्यस्व राजेन्द्र करिष्ये यद्धितं तव
सञ्जयः-
अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम्
निर्जगाम महासैन्याद् भ्रातृभिः परिवारितः
वासुदेवस्तु राधेयम् अभिगम्य जगाद वै
श्रीभगवान्-
श्रुतं मे कर्ण भीष्मस्य द्वेषात् किल न योत्स्यसि
तस्माद्विरम राधेय यावद्भीष्मो न हन्यते
हते तु भीष्मे राधेय पुनरेष्यसि संयुगम्
पाण्डुपुत्रस्य साहाय्यं यदि पश्यसि चेत् क्षमम्
कर्णः-
न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव
त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम्
सञ्जयः-
तच्छ्रुत्वा वचनं कृष्णस् सन्न्यवर्तत भारत
युधिष्ठिरपुरोगैश्च पाण्डवैस्सह सङ्गतः
अत सैन्यस्य मध्ये तु प्राक्रोशत् पाण्डवाग्रजः
युधिष्ठिरः-
योऽस्मिन् वृणोति तमहं वरये साह्यकारणात्
स रक्षाकारणादस्माद् आशु यातु मदन्तिकम्
सञ्जयः-
तच्छ्रुत्वा धर्मराजस्य वाक्यमद्धुतकर्मणः
सर्वे योधा रणे तस्मिंस् तूष्णीमासन् नराधिपाः
युयुत्सुरपि तच्छ्रुत्वा धर्मराजस्य धीमतः
वाक्यं तद्वाक्यकुशलो रहस्येनमुपागमत्
प्रणिपत्याथ धर्मज्ञं धर्मराजं युधिष्ठिरम्
भ्रातृभिस्सहितं वीरम् इदं वचनमब्रवीत्
युयुत्सुः-
युयुत्सुरपि धर्मात्मा वेश्यापुत्रस्तवात्मजः
अहं योत्स्यामि मिषतस् तव राजन् युधिष्ठिर
धृतराष्ट्रात्मजैस्सर्वैस् सङ्ख्ये दुर्योधनादिभिः
युष्मदर्थे महाराज यदि मां वुणुषेऽनघ
युधिष्ठिरः-
एह्येहि सर्वे योत्स्यामस् तव भ्रातॄनपण्डितान्
युयुत्सो वासुदेवश्च त्वमहं भ्रातरश्च मे
न भविष्यन्ति ते बाला धार्तराष्ट्रा न संशयः
वृणोभि त्वां महाबाहो युध्यस्व मम कारणात्
त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते
ततो जलक्रिया चैव त्क्या कार्या तथैव च
त्वत्पक्षीयाश्च राजानस् तेषां चैव पदानुगाः
संयुगे नाशमेष्यन्ति दुर्मदान्धा हि शीघ्रतः
त्वं तात कुशली धीमन् भविष्यसि न संशयः
श्रोष्यते रोदनं स्त्रीणां त्वदीयानां नृपात्मज
नन्दयिष्यसि मां तात युद्धं कृत्वा सुदुष्करम्
मदर्थे शत्रुभिस्तात धार्तराष्ट्रैस्सुदुर्मदैः
सदा भवान् मत्प्रियश्च भवतीति हि मे मतिः
एतदर्थं युयुत्सो त्वं नन्दितोऽसि मयाऽनघ
अतस्त्वा संयुगे तात वृणोमि प्रियमात्मनः
शत्रुभिस्त्वं महेष्वास युध्यस्व मम कारणात्
युद्धे मृता भविष्यन्ति धार्तराष्ट्रा न संशयः
मृत्युर्हि दृश्यते तेषाम् अधर्माद्वै नृपात्मज
भजस्वास्मान् राजपुत्र भजमानान् महाद्युते
न भविष्यति दुर्बुद्धिर् धार्तराष्ट्रोऽत्यमर्षणः
सञ्जयः-
ततो युयुत्सुः कौरव्य परित्यज्य सुतं तव
स सत्यमिति मन्वानो युधिष्ठिरवचस्तदा
जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम्
अवसद्धार्तराष्ट्रस्य कुत्सयन् कर्म दुष्कृतम्
सेनामध्ये हि तैस्साकं युद्धाय कृतनिश्चयः
ततो युधिष्ठरो राजा सम्प्रहृष्टस्सहानुजः
जग्राह कवचं भूयो काञ्चनं शतचन्द्रवत्
भीमोऽपि कवचं राजन् नाबबन्ध रणोत्सुकः
अर्जुनस्सह कृष्णेन कवचं धृतवानभूत्
नकुलस्सहदेवश्च दधतुः कवचे दृढे
धृष्टद्युम्नपुरोगाश्च सेनामावृत्य सर्वतः
नृपास्सर्वे महीपाल योद्धुकामास्सुदंशिताः
रणायाभिमुखा वीरास् तस्थुस्सङ्ग्राममूर्धनि
दंशितास्सर्व एवैते पाण्डवा भरतर्षभ
रथानारुरुहुस्सर्वे भूय एव नृपात्मजाः
यथापूर्वं यथान्याय्यं प्रत्यव्यूहन्त ते पुनः
तदा जहृषिरे सर्वे नानावर्णा जनास्तदा
कुञ्जरैः कुञ्जरारोहा वाजिभिश्चाश्वसादिनः
पत्तयश्च विनर्दन्तो बभूवुस्सम्प्रहर्षिताः
अवादयन् नरास्तत्र वादित्राणि समन्ततः
दुन्दुभीन् गोमुखान् भेरीः काहलान् पुष्करानपि
सिंहनादांश्च विविधान् विनेदुः पुरुषर्षभाः
रथस्थान् पुरुषव्याघ्रान् पाण्डवान् प्रेक्ष्य पार्थिवाः
धृष्टद्युन्मादयस्सर्वे पुनर्जहृषिरे मुदा
गौरवं पाण्डुपुत्राणां सत्यं धर्मज्ञातामपि
दृष्ट्वा महीक्षितस्तत्र पूजयाञ्चक्रिरे भृशम्
सौहृदं द कृपां चापि प्राप्ते काले महात्मनाम्
दयां च ज्ञातिषु परां कथयाञ्चक्रिरे नृपाः
साधुसाध्विति सर्वत्र निश्चेरुस्स्तुतिसंयुताः
वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षणाः
म्लेच्छाश्चार्याश्च ये तत्र ददृशुश्शुश्रुवुस्तदा
वृत्तान्तं पाण्डुपुत्राणां रुरुदुर्बाष्पगद्गदाः
ततो जघ्नुर्महाभेरीश् पटहान् गोमुखांस्तथा
शङ्खाश्च गोक्षीरनिभान् दध्मुर्हृष्टा मनस्विनः