सञ्जयः-
बृहतीं धार्तराष्ट्रस्य सेनां दृष्ट्वा समुद्यताम्
विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः
व्यूहं भीष्मेण चाभेद्यं कल्पितं वीक्ष्य पाण्डवः
युधिष्ठिरस्तदा राजा विषण्णोऽर्जुनमब्रवीत्
युधिष्ठिरः-
धनञ्जय कथं शक्यम् अस्माभिर्योद्धुमाहवे
धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः
अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्शिना
कल्पितश्शास्त्रदृष्टेन विधिना भूरिवर्चसा
ते वयं संशयं प्राप्तास् ससैन्याश्शत्रुकर्शन
कथमस्मान्महाव्यूहाद् उद्यातं नो भविष्यति
सञ्जयः-
अथार्जुनोऽब्रवीत् पार्थं युधिष्ठिरममित्रहा
विषण्णमभिसम्प्रेक्ष्य त्रस्तां च स्वामनीकिनीम्
अर्जुनः-
प्रज्ञयाभ्यधिकाञ् शूरान् गुणयुक्तान् बहूनपि
जयन्त्यल्पतरा येन तन्निबोध विशां पते
तत् तु ते कारणं राजन् प्रवक्ष्याम्यनसूयया
नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव
एनमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत्
पितामहः किल पुरा महेन्द्रादीन् दिवौकसः
न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः
यथा सत्यानृशंसाभ्यां धर्मेणैवोद्यमेन च
त्वक्त्वाऽधर्मं तथा सर्वे धर्मं चोत्तममास्थिताः
युध्यध्वमनहङ्कारा यतो धर्मस्ततो जयः
एवं राजन् विजानीहि ध्रुवोऽस्माकं रणे जयः
यथा ते नारदः प्राह यतः कृष्णस्ततो जयः
गुणभूतो हि नः कृष्णः पृष्ठमन्वेति मानद
ध्रुवं तु विजयश्चास्य सन्निधिश्चापरो गुणः
अनन्ततेजा गोविन्दश् शत्रुपूगेषु नित्यशः
सनातनोऽयं पुरुषो यतः कृष्णस्ततो जयः
पुरा ह्येष हरिर्भूत्वा वैकुण्ठोऽकुण्ठशासनः
सुरासुरानवस्फूर्जन्नब्रवीत् को जयेदिति
अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम्
तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिस्सुरैः
तस्मात् ते न व्यथां काञ्चिद् इह पश्यामि भारत
यस्य ते जयमाशास्ते विश्वभुक् त्रिदशेश्वरः