धृतराष्ट्रः-
सूर्योदये सञ्जय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन्
मामका वा भीष्मनीतास्समीके पाण्डवा वा भीमनीतास्तदानीम्
केषां जघन्यौ सोमसूर्यौ सवायू केषां सेनां श्वापदा व्याभषन्त
केषां यूनां मुखवर्णाः प्रसन्नास् सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत्
सञ्जयः-
उभे सेने तुल्यमेवोपयाते उभे व्यूहे युक्तरूपे नरेन्द्र
उभे चित्रे वनराजिप्रकाशे तथैवोभे नागरथाश्वपूर्णे
उभे सेने बृहत्यौ तुल्यरूपे तथैवोभे भारत दुर्विषह्ये
तथैवोभे स्वर्गजयोपसृष्टे तथा व्यूढे सत्पुरुषार्यजुष्टे
पश्चान्मुखाः कुरवो धार्तराष्ट्राः पश्चात् पार्थाः प्राङ्मुखा योत्स्यमानाः
दैत्येन्द्रसेनेव च कौरवाणां देवेन्द्रसेनेव च पाण्डवानाम्
शुक्रो वायुः पृष्ठतः पाण्डवानां धार्तराष्ट्राञ् श्वापदा व्याभषन्त
तेषां गजेन्द्रा मदगन्धातितीव्रा न सेहिरे तव पुत्रस्य नागाः
दुर्योधनो दन्तिनं पद्मवर्णं सौवर्णकक्ष्यं जातबलं प्रभिन्नम्
समास्थितो मध्यगतः कुरूणां संस्तूयमानो वन्दिभिर्मागधैश्च
चन्द्रप्रभं श्वेतमस्यातपत्रं सौवर्णस्रग्भ्राजते चोत्तमाङ्गे
तं सर्वतश्शकुनिः पार्वतीयैश् सार्धं गान्धारैः पाति गान्धारराजः
भीष्मोऽग्रतस्सर्वसैन्यस्य वृद्धश् श्वेतच्छत्रश्श्वेतदण्डस्सखड्गः
श्वेतोष्णीषः पाण्डुरेण ध्वजेन श्वेतैरश्वैश्श्वेतशैलप्रकाशः
सैन्यं सर्वं धार्तराष्ट्र त्वदीयं रथाश्वनागं सुदृढं चचाल
ये चाम्बष्ठाः क्षत्रिया ये च सिद्धास् तथा सौवीराः पञ्चनदाश्च शूराः
शोणैर्हयै रुक्मरथो महात्मा द्रोणो धनुष्पाणिरदीनसत्त्वः
आप्तो गुरुः प्रथितस्सर्वराज्ञां पश्चाच्चमूमिन्द्र इवावभाति
वार्धक्षत्रिस्सर्वसैन्यस्य मध्ये भूरिश्रवाः पुरुमित्रो जयश्च
साल्वा मत्स्याः केकयाश्चापि सर्वे गजानीकैर्भ्रातरो योत्स्यमानाः
शारद्वतश्चोत्तरार्धं महात्मा महेष्वासो गौतमश्चित्रयोधी
शकैः किरातैर्यवनैः प्लवैश्च सार्धं चमूमुत्तरतोऽभिपाति
महारथैरन्धकवृष्णिभोजैस् सौराष्ट्रकैर्नैकतरात्तशस्त्रैः
बृहद्बलं कृतवर्माभिगुप्तं बलं त्वदीयं दक्षिणेनाभियाति
संशप्तकानामयुतं रथानां मृत्युर्जयो वाऽर्जुनस्येति सृष्टाः
समेत्य तस्थुः पुरतोऽर्जुनस्य प्रचोदितास्तव पुत्रेण सङ्ख्ये
साग्रं शतसहस्रं तु नागानां तव भारत
नागे नागे रथशतं शतश्चाश्वा रथे रथे
अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः
रथे रथे समभवत् तदा तत्र गजे गजे
आसन् द्विगुणितं चाश्वा ह्यश्वे ह्यश्वे पदातयः
तथा चतुर्गुणं योधास् सधनुष्कास्सचर्मिणः
एवं व्यूहान्यनीकानि भीष्मेण तव भारत
अव्यूह्य मानुषं व्यूहं दैवं गान्धर्वमासुरम्
दिवसे दिवसे प्राप्ते भीष्मश्शान्तनवोऽग्रणीः
महारथौघविपुलस् समुद्र इव घोषवान्
कृतवान् धार्तराष्ट्राणां व्यूहः पश्चान्मुखो युधि
अनन्तरूपा ध्वजिनी नरेन्द्र भीमा त्वदीया न तु पाण्डवानाम्
तामेव मन्ये बृहतीमधृष्यां यस्या नेता केशवश्चार्जुनश्च