धृतराष्ट्रः-
अक्षौहिणीं दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः
कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्
कथं स भीष्मं कौन्तेयः प्रत्यव्यूहत पाण्डवः
सञ्जयः-
धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः
अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम्
युधिष्ठिरः-
महर्षेर्वचनात् तात वेदयन्ति बृहस्पतेः
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून्
सूचीमुखमनीकं स्याद् अल्पानां बहुभिस्सह
अस्माकं च तथा सैन्यम् अल्पीयस्सुतरां परैः
एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव
सञ्जयः-
तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुनः
अर्जुनः-
एष व्यूहामि ते व्यूहं राजन् परमदुर्जयम्
अचलं नाम वज्राख्यं विहितं वज्रपाणिना
यस्स वात इवोद्धूतस् समरे दुस्सहः परैः
धृष्टद्युम्नोऽग्रतो यातु परसैन्यानि भीषयन्
तेजांसि पार्थिवेन्द्राणां स मृद्गन् पुरुषर्षभान्
अग्रेण यास्यति स नो युद्धमार्गविचक्षणः
सेनाप्रणेता योऽस्माकं देवानामिव पावकिः
यं दृष्ट्वा पार्थिवास्सर्वे दुर्योधनपुरोगमाः
विवर्तिष्यन्ति सन्त्रस्तास् सिंहत्रस्ता मृगा इव
एतं सर्वे तु यास्याम प्राकारमकुतोभयाः
भीमसेनेन सहितं विष्णुनेव शतक्रतुम्
न हि सोऽस्ति पुमाल्ँलोके यस्सङ्क्रुद्धं वृकोदरम्
द्रष्ट्वा ह्यत्युग्रकर्माणं विषहेत नरर्षभम्
भीमसेनो गदां बिभ्रद् वज्रसारमयीं दृढाम्
चरन् वेगेन महता समुद्रमपि शोषयेत्
केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान्
एते गच्छन्तु सामात्याः प्रेक्षतस्ते जनाधिप
धृतराष्ट्रस्य दायादाः प्रेक्षकास्ते जना इव
सञ्जयः-
ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि भारत
अपूजयंस्तदा वाग्भिर् अनुकूलाभिराहवे
एवमुक्त्वा महाबाहुस् तथा चक्रे धनञ्जयः
व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तथा
सम्प्रयातान् कुरून् दृष्ट्वा पाण्डवानां महाचमूः
गङ्गेव पूर्णा स्तिमिता स्पन्दमाना व्यदृश्यत
भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च वीर्यवान्
नकुलस्सहदेवश्च युयुधानश्च सात्यकिः
बिभ्रन् गदां भीमसेनस् सर्वसारमयीं दृढाम्
समुद्यम्य ततः पश्चात् प्रायादक्षौहिणीवृतः
भ्रातृभिस्सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः
चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती
द्रौपदेयास्ससौभद्राः पृष्ठगोपास्तरस्विनः
धृष्टद्युम्नश्च पाञ्चाल्यस् तेषां गोप्ता महारथः
सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः
शिखण्डी तु ततः पश्चाद् अर्जुनेनाभिरक्षितः
यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ
पृष्ठगोपोऽर्जुनस्यासीद् युयुधानो महाबलः
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमोजसौ
राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः
बृहद्भिः कुञ्जरैर्मत्तैश् चलद्भिरचलैरिव
अक्षौहिण्याथ पाञ्चाल्यो यज्ञसेनो महामनाः
भ्रातृभिस्सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम्
विराटस्सह पुत्रैश्च पाण्डवार्थे पराक्रमी
तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः
नानाचिह्नधरा राजन् रथेष्वासन् महाध्वजाः
समुत्सार्य ततः पश्चाद् धृष्टद्युम्नो महारथः
भ्रातृभिस्सहपुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम्
त्वदीयानां परेषां च रथेषु विपुलान् ध्वजान्
अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः
पदातयस्ततोऽगच्छन् असिशक्त्यृष्टिपाणयः
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः
वारणा दशसाहस्राः प्रभिन्नकरटामुखाः
शूरा हेममयैर्जालैर् दीप्यमाना इवाचलाः
सघण्टा हेमकक्ष्याभिः पताकाभिरलङ्कृताः
क्षरन्त इव जीमूता मदान्धाः पद्मगन्धिनः
राजानमन्वयुः पश्चाज् जीमूता इव वार्षिकाः
भीमसेनो गदां भीमां प्रकर्षन् परिघोपमाम्
प्राकर्षत महत् सैन्यं दुराधर्षो महामनाः
तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम्
न शेकुस्सर्वतो योधाः प्रतिवीक्षितुमन्तिके
वज्रो नाम महाव्यूहो निर्भयस्सर्वतोमुखः
चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना
अभ्यतिष्ठन् प्रतिव्यूह्य पाण्डवानां तु वाहिनीम्
अजेया मानुषे लोके पाण्डवैरभिरक्षिताः
सन्ध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति
प्रववौ पृष्ठतो वायुर् अनभ्रे स्तनयित्नुमान्
विष्वग्वाताश्च विववुर् नीचैश्शर्करबर्हिणः
रजश्चोद्धूयत महत् तमसाच्छादयञ् जगत्
पपात महती चोल्का प्राङ्मुखी भरतर्षभ
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना
अथ सज्जीयमानेषु सैन्येषु भरतर्षभ
निष्प्रभोऽभ्युदितस्सूर्यस् सघोषा भूश्चचाल ह
व्यशीर्यत सनादा भूस् तदानीं भरतर्षभ
निर्घाता बहवो राजन् दिक्षु सर्वासु चाभवन्
प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किञ्चन
ध्वजानां धूयमानानां सहसा मातरिश्वना
किङ्किणीजालबद्धानां काञ्चनस्रग्विणां तथा
महतां सपताकानाम् आदित्यसमतेजसाम्
सर्वं झणझणीभूतम् आसीत् तालवनेष्विव
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः
व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम्
ग्रसन्त इव मज्जानो योधानां भरतर्षभ
दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम्