सञ्जयः-
यथा स भगवान् व्यासः कृष्णद्वैपायनोऽब्रवीत्
तथैव सहितास्सर्वे समाजग्मुर्महीग्रहाः
मघाविषयगस्सोमस् तद्दिनं प्रत्यपद्यत
दीप्यमानाश्च सम्पेतैर् दिवि सप्त महाग्रहाः
द्विधाभूत इवादित्य उदये प्रत्यदृश्यत
ज्वलन्त्या शिखया राजन् भानुमानुदितो दिविः
ववाशिरे च दीप्तायां दिशि गोमायुवायसाः
काङ्क्षमाणाश्शरीराणि मांसशोणितभोजनाः
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः
भरद्वाजात्मजश्चैव प्रातरुत्थाय दंसितौ
जयोऽस्तु पाण्डुपुत्राणाम् इत्यूचतुररिन्दमौ
युयुधाते तवार्थाय यथा स समयः कृतः
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव
समानीय महीपाला इदं वचनमब्रवीत्
भीष्मः-
इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत्
गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम्
एष वश्शाश्वतः पन्थाः पूर्वैः पूर्वतरं गताः
सम्भावयत चात्मानम् अव्यग्रमनसो युधि
नाभागोऽथ ययातिश्च मान्धाता नहुषो नृगः
संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः
अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे
यद्धे तु निधनं याति सोऽस्य धर्मस्सनातनः
सञ्जयः-
एवमुक्ता महीपाला भीष्मेण भरतर्षभ
निर्ययुस्तान्यनीकानि शोभयन्तो रथोत्तमाः
स तु वैकर्तनः कर्णस् सामात्यस्सह बन्धुभिः
न्यासितस्समरे शस्त्रं भीष्मेण भरतर्षभ
व्यपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः
निर्ययुस्सिंहनादेन नादयन्तो दिशो दश
श्वेतछत्रैः पताकाभिर् ध्वजवारणवाजिभिः
तान्यनीकान्यशोभन्त रथैश्च सपदातिभिः
भेरीपणवशङ्खैश्च दुन्दुभीनां च निःस्वनैः
रथनेमिनिनादैश्च बभूवालेलिता मही
काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः
भ्राजमाना व्यरोजन्त साग्नयः पर्वता इव
तालेन महता भीष्मो पञ्चतालेन केतुना
विमलादित्यसङ्काशस् तस्थौ कुरुचमूमुखे
ये त्वदीया महेष्वासा राजानो भरतर्षभ
यथादेशमवर्तन्त राज्ञश्शान्तनवस्य ते
स तु दुर्योधनस्सैन्ये सहितस्सर्वमागधैः
ययौ मातङ्गराजेन राजार्हेण पताकिना
पद्मवर्णस्त्वनीकानां सर्वेषामग्रतस्स्थितः
अश्वत्थामा ययौ यत्तस् सिंहलाङ्गूलकेतुना
श्रुतायुश्चित्रसेनश्व पुरुमित्रो विविंशतिः
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः
एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः
स्यन्दनैर्वीरकर्माणो भीष्मस्यासन् पुरोगमाः
तेषामपि महोत्सेधाश् शोभयन्तो रथोत्तमान्
भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः
जाम्बूनदमयी वेदिः कमण्डलुविभूषिता
केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह
अनेकशतसाहस्रम् अनीकमनुकर्षतः
महान् दुर्योधनस्यासीन् नागो मणिमयो ध्वजः
तस्य पौरवकालिङ्गाः काम्भोजाश्च सुदक्षिणाः
क्षेमधन्वा च शल्यश्च तस्थुः प्रमुखतो रथाः
स्यन्दनेन महार्हेण केतुना वृषभेण च
प्रकर्षन्निव सेनाग्रं मागधस्य कृपो ययौ
तदङ्गपतिना गुप्तं कृपेण च मनस्विना
शारदाभ्रप्रतीकाशं प्राच्यानामभवद्बलम्
अनीकप्रमुखे तिष्ठन् वराहेण महायशाः
शुशुभे केतुमुख्येन राजतेन जयद्रथः
शतं रथसहस्राणां तस्यासन् वशवर्तिनः
अष्टौ दन्तिसहस्राणि सादिनामयुतानि षट्
तत्सिन्धुपतिना राजन् पालितं ध्वजिनीमुखम्
अनन्तरथनागाश्वम् अशोभत महद्बलम्
षष्ट्या रथसहस्राणां नागानामयुतेन च
पतिस्सर्वकलिङ्गानां ययौ केतुमता सह
तस्य पर्वतसङ्काशा व्यरोचन्त महागजाः
यन्त्रतोमरतूणीरैः पताकाभिरलङ्कृताः
शुशुभे केतुमुख्येन पावकेन कलिङ्गराट्
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च
केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम्
आस्थितस्समरे राजन् मेघस्थ इव भानुमान्
तेजसा दीप्यमानस्तु वारणोत्तममास्थितः
भगदत्तो ययौ राजा यथा वज्रधरस्तथा
गजस्कन्धगतावास्तां भगदत्तेन सम्मितौ
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ
स रथानीकवान् व्यूहो हस्त्यङ्गोत्तमशीर्षवान्
वाजिपक्षः पतत्युग्रः प्रहसन् सर्वतोमुखः
द्रोणेन विहितो राजन् राज्ञा शान्तनवेन च
तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च