वैशम्पायनः-
अथ गावल्गणिर्विद्वान् संयुगादेत्य भारत
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित्
ध्यायते धृतराष्ट्राय सहसोत्पत्य दुःखितः
आचष्ट निहतं भीष्मं भरतानां पितामहम्
सञ्जयः-
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ
हतो भीष्मश्शान्तनवो भरतानां पितामहः
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम्
शरतल्पगतस्सोऽद्य शेते कुरुपितामहः
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत्
स शेते निहतो राजन् सङ्ख्ये भीष्मश्शिखण्डिना
यस्सर्वान् पृथिवीपालान् समवेतान् महामृधे
जिगायैकरथेनैव काशिपुर्यां महारथः
जामदग्न्यं रणे रामम् अयुध्यद्वसुसम्भवः
न हतो जामदग्न्येन निहतोऽद्य शिखण्डिना
महेन्द्रसदृशश्शौर्ये धैर्येण हिमवानिव
समुद्र इव गाम्भीर्यो सहिष्णुत्वे धरासमः
शरदंष्ट्रो धनुर्वक्रः खड्गजिह्वो दुरासदः
नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः
पाण्डवानां महात् सैन्यं यं दृष्ट्वोद्यन्तमाहवे
प्रावेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः
परिरक्ष्य च सेनां तु दशरात्रमनीकहा
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्
यस्स शक्र इवाक्षोभ्यो वर्षन् बाणान् सहस्रशः
जघान युधि योधानाम् अर्बुदं दशभिर्दिनैः
स शेते निहतो भूमौ वातरुग्ण इव द्रुमः
तव दुर्मन्त्रिते राजन् यथा नार्हस्स भारत