सञ्जयः-
उत्तरेषु च कौरव्य द्वीपेषु श्रूयते कथा
यथा श्रुतं महाराज ब्रुवतस्तान् निबोध मे
घृततोयस्समुद्रो वै दधिमण्डोदनः परः
सुरोदस्सागरश्चैव तथाऽन्यो जलसागरः
परस्परेण द्विगुणास् सर्वे द्वीपा नराधिप
पर्वताश्च महाराज समुद्रैः परिवारिताः
गौरस्तु मध्यमे द्वीपे गिरिर्मणिशिलो महान्
पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः
प्रजापतिरुपासीनः प्रजानां विदधत् सुखम्
कुशद्वीपे कुशस्तम्बो मध्ये जनपदैस्सह
सम्पूज्यते शाल्मली च द्वीपे शाल्मलिके नृप
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः
सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा
गोमन्दः पर्वतो राजन् सुमहान् सर्वधातुमान्
वसते भगवान् यत्र श्रिया कमललोचनः
मोक्षिभिस्संस्तुतो नित्यं प्रभुर्नारायणो हरिः
शाकद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः
सुनामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः
षष्ठो हरिगिरिर्नाम षडेते रत्नपर्वताः
एषामन्तरविष्कम्भो द्विगुणस्सर्वभागशः
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्
तृतीयं वै रथाकारं चतुर्थं लम्बनं स्मृतम्
पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम्
सप्तमं कापिलं वर्षं सप्तैते वर्षपूजिताः
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर
विचरन्ति रमन्ते च न तेषु म्रियते जनः
न तेषु दस्यवस्सन्ति म्लेच्छजात्योऽपि वा नृप
गौरप्रायो जनस्सर्वस् सुकुमारश्च पार्थिव
अवशिष्टेषु सर्वेषु वक्ष्यामि मनुजेश्वर
यथाश्रुतं महाराज तदप्येकमनाश्शृणु
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः
क्रौञ्चात् परो वामनको वामनादन्धकारकः
अन्धकारात् परो राजन् मैनाकः पर्वतोत्तमः
मैनाकात् परतो राजन् गोविन्दो गिरिरुत्तमः
गोविन्दात् तु परो राजन् निबिडो नाम पर्वतः
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतश्शृणु
क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः
मनोनुगात् परश्चोष्णो देशः कुरुकुलोद्वह
उष्णात् परः प्रावरकः प्रावारादन्धकारकः
अन्धकारकदेशात् तु मुनिदेशोऽपरस्स्मृतः
मुनिदेशात् परश्चैव प्रोच्यते दुन्दुभिस्वनः
सिद्धचारणसङ्कीर्णो गौरप्रायो जनाधिप
एते देशा महाराज देवगन्धर्वसेविताः
पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान्
तत्र नित्यं निवसति स्वयं देवः प्रजापतिः
तं पर्युपासते नित्यं देवास्सर्वे महर्षयः
वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप
जम्बूद्वीपात् प्रवर्तन्ते रत्नानि विविधान्युत
द्वीपेषु तेषु सर्वेषु प्रजानां कुरुसत्तम
विप्राणां ब्रह्मचर्येण सत्येन च दमेन च
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः
एको जनपदो राजन् द्वीपेष्वेतेषु भारत
उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः
द्वीपानेतान् महाराज रक्षंस्तिष्ठति नित्यशः
स राजा स शिवो राजन् प्रेक्षितायाः प्रजापतिः
गोपायति नरश्रेष्ठ प्रजास्सजडपण्डिताः
भोजनं चात्र कौरव्य प्रजास्स्वयमुपस्थितम्
एवमेव महाराज भुज्यते तद्धि नित्यदा
ततः परं समा नाम दृश्यते लोकसंस्थितिः
चतुरश्रा महाराज त्रयस्त्रिंशत् तु मण्डलम्
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकविश्रुताः
दिग्गजा भरतश्रेष्ठ वामनैरावतादयः
सुप्रतीकस्तदा राजन् प्रभिन्नकरटामुखः
तस्याहं परिमाणं तु न सङ्ख्यातुमिहोत्सहे
असङ्ख्यातस्स नित्यं हि तिर्यगूर्ध्वमधस्तथा
तत्रैव वायवो वान्ति दिग्भ्यस्सर्वाभ्य एव हि
असङ्क्रुद्धा महाराज तान्निगृह्णन्ति ते गजाः
पुष्करैः पद्मसङ्काशैर् वर्षवद्भिर्महाप्रभैः
ते शनैः पुनरेवाशु वतान् मुञ्चन्ति नित्यशः
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः
आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः
धृतराष्ट्रः-
परमो विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः
दर्शितं द्वीपसंस्थानम् उत्तरं ब्रूहि सञ्जय
सञ्जयः-
उक्ता द्वीपा महाराज ग्रहान् मे शृणु तत्त्वतः
स्वर्भानुः पुरुषव्याघ्र यावदेव स्वभावतः
परिमण्डलो महाराज स्वर्भानुश्श्रूयते ग्रहः
योजनानां सहस्राणि विष्कम्भो द्वादशस्य वै
परिणाहेन षट्त्रिंशद् विपुलेन तथाऽनघ
षष्टिमाहुश्शतान्यस्य पुरा पौराणिकास्तथा
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः
विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत् तु मण्डलम्
एकोनषष्टिवैपुल्यात् शीतरश्मेर्महात्मनः
सूर्यस्त्वष्टसहस्राणि द्वे चान्ये कुरुनन्दन
विष्कम्भेण महाराज मण्डलं त्रिंशतं स्मृतम्
अष्टपञ्चाशतं राजन् विपुलत्वेन चानघ
श्रूयते परमोदारः पतङ्गस्स विभावसुः
एतत् प्रमाणमर्कस्य निर्दिष्टमिह भारत
स राहुश्छादयत्येतौ यथाकालं महत्तया
चन्द्रादित्यौ महाराज सङ्क्षेपोऽयमुदाहृतः
यथाद्दिष्टं मया प्रोक्तं सनिर्याणमिदं जगत्
इत्येतत् ते महाराज पृच्छतश्शास्त्रचक्षुषा
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति
सर्वमुक्तं मया तत्त्वं तस्माच्छममवाप्नुहि
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम्
श्रीमान् भवति राजन्यस् सिद्धार्थस्साधुसम्मतः
आयुर्बलं च वीर्यं च तेजश्चास्य विवर्धते
यश्शृणोति महाराज पर्वणीदं यतव्रतः
प्रीयन्ते पितरस्तस्य तथैव प्रपितामहाः
इदं तु भारतं वर्षं यत्र वर्तामहे वयम्
पूर्वं प्रवर्तते पुण्यं तत् सर्वं श्रुतवानसि