धृतराष्ट्रः-
जम्बूद्वीपस्त्वया प्रोक्तो यथावदिह सञ्जय
विष्कम्भस्य मम ब्रूहि परिमाणं च तत्त्वतः
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम्
प्लक्षद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय
शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च
शाकद्वीपं च मे ब्रूहि राहोस्सोमार्कयोस्तथा
सञ्जयः-
राजन् सुबहवो द्वीपा यैरिदं सन्ततं जगत्
तेषां तत्त्वं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहास्तथा
अष्टादश सहस्राणि योजनानां विशां पते
षट् शतानि च पूर्णानि विष्कम्भो जम्बुसञ्ज्ञितः
लवणस्य समुद्रस्य विष्कम्भो द्विगुणस्स्मृतः
नानाद्रुमलताकीर्णो मणिविद्रुमचित्रितः
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः
सिद्धचारणसङ्कीर्णस् सागरः परिमण्डलः
प्लक्षद्वीपं च वक्ष्यामि यथावदिह भारत
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन
जम्बूद्वीपप्रमाणेन द्विगुणस्स नराधिप
विष्कम्भेण महाराज सागरोऽपि द्विभागशः
शाल्मलिश्च कुशक्रौञ्जो द्विगुणो ह्युत्तरोत्तरम्
यथासङ्ख्यं परिवृतस् सुरासर्पिः पयोधिभिः
शाकद्वीपं तु वक्ष्यामि यथावदिह भारत
श्रृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन
क्षीरोदेन नृपश्रेष्ठ यश्च सम्परिवारितः
तत्र पुण्या जनपदा न तत्र म्रियते जनः
कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते
शाकद्वीपस्य सङ्क्षेपो यथावद्भरतर्षभ
उक्त एष महाराज किमन्यत्कथयामि ते
धृतराष्ट्रः-
शाकद्वीपस्य सङ्क्षेपो यथावदिह सञ्जय
उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः
सञ्जयः-
अतीव गुणवत् सर्वं तत्र पुण्यं जनाधिप
विस्तृताः पर्वता राजन् सप्तात्र मणिभूषिताः
रत्नाकरास्तथा नद्यस् तेषां नामानि मे श्रृणु
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते
प्रागायतो महाराज जलदो नाम पर्वतः
ततो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः
ततः परेण कौरव्य जलधारो महागिरिः
ततो नित्युमुपादत्ते वासवः परमं जलम्
यतो वर्षं प्रभवति वर्षकाले जनेश्वर
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः
रेवती दिवि नक्षत्रं पितामहकृतो विधिः
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः
यतश्श्यामत्वमापन्ना प्रजा जनपदेश्वर
धृतराष्ट्रः-
सुमहान् संशयो मेऽद्य त्वयोक्ते सूतनन्दन
प्रजाः कथं महाप्राज्ञा सम्प्राप्ताश्श्यामतामिह
सञ्जयः-
सर्वेष्वेव महाराज द्वीपेषु कुरुनन्दन
गौरः कृष्णश्च वर्णोऽत्र तयोर्वर्णान्तरो नृप
श्यामो यस्मात् प्रवृत्तो वै तेन वक्ष्यामि भारत
ततः परं कौरवेन्द्र दुर्गश्शैलो महोदयः
केसरी केसरयुतो यतो वातः प्रवाति वै
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः
वर्षाणि तेषु कौरव्य सप्तोक्तानि महर्षिभिः
महामेरुर्महाभागो मलयः कुसुमोत्करः
जलधारो महाराज सुकुमार इति स्मृतः
रैवतस्य तु कौमारश् श्यामस्य मणिकाञ्चनः
केसरस्याथ मोधारिः परेण तु महाद्रुमः
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च
क्रौञ्जद्वीपस्य सङ्ख्यातस् तस्य मध्ये महाद्रुमः
शाको नाम महाराज तस्य वृत्तमिह श्रृणु
तत्र पुण्या जनपदाः पूज्यते तत्र शङ्करः
तत्र गच्छन्ति सिद्धाश्च देवताश्चारणास्तथा
धार्मिकाश्च प्रजा राजंश् चत्वारोऽतीव भारत
वर्णास्स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते
दीर्घायुषो महाराज जरामृत्युविवर्जिताः
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता
सुकुमारी कुमारी च सीता संवेणुका तथा
महानदी च कौरव्य तथा मणिजला नदी
इषुर्वर्धनिका चैव तथा भरतसत्तम
तत्र प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोत्तम
सहस्राणां शतान्येव ततो वर्षति वासवः
न तासां नामधेयानि परिमाणं तथैव च
शक्यन्ते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः
तत्र पुण्या जनपदाश् चत्वारो लोकसम्मताः
मकाश्च मशकाश्चैव मानसा मन्दगास्तथा
मका ब्राह्मणभूयिष्ठास् स्वकर्मनिरताश्च ते
मशकेषु च राजन्या धार्मिकास्सर्वकामदाः
मानसेषु महाराज वैश्या धर्मोपजीविनः
सर्वकामसमायुक्तास् शूरा धर्मार्थकोविदाः
शूद्राश्च मन्दके नित्यं पुरुषा धर्मशीलिनः
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः
स्वधर्मेणैव राजेन्द्र ते रक्षन्ति परस्परम्
एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम्
एतदेव च वक्तव्यं शाकद्वीपे महौजसि