धृतराष्ट्ः-
भारतस्यास्य वर्षस्य ततो हैमवतस्य च
प्रमाणमायुषस्सूत लब्ध्वा चापि शुभाशुभम्
अनागतमतिक्रान्तं वर्तमानं च सञ्जय
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च
सञ्जयः-
चत्वारि भारते वर्षे युगानि भरतर्षभ
कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन
पूर्वं कृतयुगं नाम ततस्त्रेतायुगं प्रभो
सङ्क्षेपाद्द्वापरस्याथ ततस्पुष्यं प्रवर्तते
चत्वारि तु सहस्राणि वर्षाणां कुरुनन्दन।
आयुस्सङ्ख्या कृतयुगे सङ्ख्याता राजसत्तम
तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप
द्वे सहस्रे द्वापरे तु भुवि तिष्ठन्ति साम्प्रतम्
न प्रमाणं स्थितिर्ह्यस्ति तिष्येऽस्मिन् भरतर्षभ
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च
महाबला महासत्त्वाः प्रज्ञागुणसमन्विताः
अजायन्ते कृते राजञ् भावयन् भूतभावनाः
महोत्साहा महात्मानो धार्मिकास्सत्यवादिनः
जातास्तु वै कृतयुगे धनिनः प्रयदर्शनाः
आयुष्मन्तो महावीर्या धनुर्धरवरा युधि
जायन्ते क्षत्रिर्याश्शूरास् त्रेतायां च सहस्रशः
सर्ववर्णा महाराज जायन्ते द्वापरे युगे
महोत्साहा महावीर्याः परस्परहितैषिणः
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप
लुब्धाश्चानृतिनश्चैव पुष्ये जायन्ति भारत
ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च
पुष्ये भवति मर्त्यानां रागो लोभश्च भारत
सङ्क्षेपो वर्तते राजन् द्वापरेऽस्मिन् नराधिप
गुणोत्तरं हैमवतं हरिवर्षं ततः परम्