धृतराष्ट्रः-
यदिदं भारतं वर्षं यत्रेदं चोर्जितं बलम्
यत्रातिमात्रलुब्धोऽयं पुत्रो दुर्योधनो मम
यत्र गृध्नाः पाण्डवेया यत्र मे सज्जते मनः
एतत् सर्वं ममाचक्ष्व त्वं हि मे बुद्धिमान् मतः
सञ्जयः-
न तत्र पाण्डवा गृध्नाश् शृणु राजन् वचो मम
गृध्नो दुर्योधनस्तत्र शकुनिश्चापि सौबलः
अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः
ये गृध्ना भारते वर्षे न मृष्यन्ति परस्परम्
तत्र ते वर्णयिष्यामि वर्षं भारत भारतम्
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च
पृथोस्तु राजन् वैन्यस्य तथेक्ष्वाकोर्महात्मनः
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च
भरतस्य तथैलस्य नृगस्य नृपतेस्तथा
अन्येषां च महाराज क्षत्रियाणां बलीयसाम्
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम्
तत् ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिन्दम
शृणु मे गदतो राजन् यन्मां त्वं परिपृच्छसि
महेन्द्रो मलयस्सह्यश् शुक्तिमानृक्षवानपि
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः
तेषां सहस्रशो राजन् पर्वतास्ते समीपतः
अभिज्ञातास्समृतिमतां विपुलाश्चित्रसानवः
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो
नदीं पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम्
गोदावरीं नर्मदां च बाहुदां च महानदीम्
शतद्रूं चन्द्रभागां च यमुनां च महानदीम्
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम्
नदीं वेत्रवतीं चैव कृष्णवेणीं च निम्नगाम्
इरावतीं वितस्तां च पयोष्णीं देविकामपि
वेदस्मृतां वेदवतीं त्रिदिवामिक्षुलां शमीम्
कर्षणीं चित्रहर्षां च चित्रसेनां च निम्नगाम्
गोमतीं धूतपापां च वन्दनां च महानदीम्
कौशिकीं त्रिविदां दिव्यां निश्चल्यां लोहितारणीम्
रथस्यां शतकुम्भां च सरयूं च नरेश्वर
चर्मण्वतीं वेत्रवतीं हस्तिहेमां दशां तथा
शरावतीं पयोष्णीं च हरां भीमरथीमपि
कावेरीं ब्रह्मदण्डां च वाणीं शतवरीमपि
निश्चितां सुहितां चापि सुप्रयोगां जनाधिप
पवित्रां कुण्डलां सिन्धुं पुरजां पुरमालिनीम्
पूर्णवीरां महावीरां वेत्रां वेगवतीमपि
पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम्
मरुच्छिद्रां तुङ्गभद्रां मोघां ह्रदवतीमपि
तृणावतीमकृष्णां च सखिसूचिं च कौरव
सदानीरामवृष्ट्यां च कुशपारां महानदीम्
विदिशां सुशुवां चैव तथा वीरवतीमपि
वास्तुं सुवास्तुं गाधिं च मधुं चैव हिरण्यगाम्
पल्लवस्तबकां चैव पाञ्चालीमथ रोहिणीम्
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम्
उपेन्द्रां बहुदां चैव रुचिरामङ्गवाहिनीम्
विनदीं पिप्पलां बेण्णां प्रवेणीं च महानदीम्
विशालां ताम्रपर्णी च ताम्रां च कपिलामपि
वरदां वेदपादां च हरिद्रवसमापगाम्
शीघ्रां च विपुलां चैव भारद्वाजां च निम्नगाम्
कौशिकीं निम्नगां वर्णां बाहुदां वृद्धनर्मदाम्
दुर्गामन्ताश्शिलां चैव ब्रह्मवेध्यां बृहद्वतीम्
रक्षश्शिरोहरां चैव तथा जाम्बूनदीमपि
असमां च समां दाशां रसवन्तीं परायणाम्
नीलां च प्रतरां चैव धूणिकां च महानदीम्
मानवीं वृषभां चैव महौघां च नराधिप
सदा निरामयां हृष्टां मन्दगां मन्दवाहिनीम्
ब्राह्मणीं च महागौरीं दुर्गामपि च भारत
चित्रोपलां चित्ररथां मञ्जुलां वालुमालिनीम्
मन्दाकिनीं वैतरणीं मन्दां चापि महानदीम्
शुक्तिमतीमनङ्गां च सरङ्गामुत्पलावतीम्
लोहित्यां करतोयां च तथैव बधसाह्वयाम्
कुमारीं मृष्टकुल्यां च ब्रह्मकुल्यां च मारिष
सरस्वतीं सुपुण्यां च सर्वगङ्गां च भारत
मानवीमृषभां चैव महानद्यो नराधिप
विश्वस्य मातरस्सर्वास् सर्वाश्चैव महाबलाः
तथा नद्यस्त्वप्रकाशाश् शतशोऽथ सहस्रशः
इत्येतास्सरितो राजन् समाख्याता यथास्मृति
अत ऊर्ध्वं जनपदान् निबोध गदतो मम
अत्रेमे कुरुपाञ्चालास् साल्वा माद्रेयजाङ्गलाः
शूरसेनाः कलिङ्गाश्च बाह्लिकाख्यास्तथैव च
मत्स्याः कुलिङ्गास्सात्वीयाः कुन्तिकाः काशिकोसलाः
चेदिवत्साः करूशाश्च कालसिन्धुपुलिन्दकाः
उत्तराश्च दशार्णाश्च मेखलाः कोसलैस्सह
पञ्चालाः कोसलाश्चैव महावृष्ठायुगन्धराः
परावृद्धा हिलङ्गाश्च काशयोऽपरकाशयः
जठराः कुकुराश्चैव रस्यगार्णाश्च भारत
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः
गोमन्दामन्दकाष्षण्डा विदर्भानूपवासकाः
अश्मकाश्च सुराष्ट्राश्च गोपराष्ट्रास्सवेतनाः
अधिराजाः कुलुन्दाश्च बल्लराष्ट्राश्च केवलम्
सावित्रीयास्सायपाका वक्रावक्रतराश्शुकाः
विदेहा मगधास्सूक्ष्मा महदायतयस्तथा
अङ्गवङ्गकलिङ्गाश्च यकृल्लोमास्तथैव च
मल्लास्सुदेष्णाः प्रहुणास् तथा महुषकर्षकाः
बाह्लीका वाटधानाश्च आभीराः कालतोयकाः
पुररन्ध्राश्च हूध्राश्च पल्लवाश्चर्मखण्डिकाः
अटवीशबराश्चैव मरुभूताश्च मारिष
वयोवृद्धास्तथा वृद्धास् सुराष्ट्राः केकयास्तथा
कुन्त्यावलाः परादद्राः कक्ष्यास्सामुद्रनिष्कुटाः
अन्ध्राश्च बहुशो राजन् ननावीर्यास्तथैव च
सह्यजाताः प्रावृषीया भार्गवाश्च जनाधिप
बहुद्वीपास्सुकेशाश्च तथा यावकवंशकाः
कारूशास्सिन्धुसौवीरा गान्धारावन्तिकास्तथा
किराता बर्बरास्सिद्धा विदेहास्ताम्रलिप्तकाः
विन्ध्यदेशाः किराताश्च सुदेष्णाद्रमिडास्तथा
मन्दरा हृतमण्डाश्च कर्णाया भूतलास्तथा
कच्छाश्शैबलकच्छाश्च जाङ्गलाङ्गलपल्लवाः
वीरबाहाश्शूरतोया राजितास्तस्य कङ्कणाः
तिलपाराश्च सीराश्च मधुमन्तस्सकुन्दराः
काश्मीरास्सिन्धुसौवीरा गान्धारावन्तयस्तथा
किराता बर्बरास्सिद्धा विदेहास्ताम्रमालिकाः
कौकुट्टकास्तथा व्यङ्ग्याः कोङ्कणा मलयालकाः
समङ्गाः कोपनाश्चैव कुरुनागाश्वमारिषाः
ध्वजाह्युत्सवसङ्केता संश्रयास्सर्वनिर्णयाः
आयसाः कोकिलाश्श्रेयाः परमर्मापहास्तथा
तथैव विन्ध्यमालीनाः कुलिन्दा वल्कलैस्सह
पल्लवा मालवाश्चैव तथैव परिमल्लकाः
कपिजाः कुक्कुटाश्चैव मण्डकाः करुणास्तथा
मूषपास्स्थलपालाश्च सपिकास्स्फूर्तिरञ्जकाः
अल्पेषास्सथविराश्चैव भूषपास्तेनपास्तथा
मीक्षकाश्च पताकाश्च तङ्कणाः परतङ्गणाः
उत्तराश्चापरे म्लेच्छाः जना भरतसत्तम
व्यसनाश्च सकाम्भोजा दारुणा सिद्धजातयः
सरद्रुहाः कुञ्जराश्च यवनाः पावनैस्सह
तथैव रमणश्चीनाश्च तथैव दशमालिकाः
क्षत्रियोपनिवेश्याश्च वैश्यशूद्रकुलानि च
शूद्राः क्षिलाश्च दरदाः काश्मीराः पशुभिस्सह
कालकाश्च तुषाराश्च पल्लवा गिरिगह्वराः
आत्रेयास्सभरद्वाजास् तथैव च सुयोषितः
औपगाश्च कलिङ्गाश्च त्रिगर्ता वंशजातयः
कारस्कराश्च वङ्गाश्च आन्ध्राश्च द्रमिलास्तथा
चोलाश्च केरलाश्चैव तथा पाण्ड्यास्ससिंहलाः
नाजरा भागवर्ताश्च तथैव कररञ्जनाः
उद्देशमात्रेण मया देशास्सङ्कीर्तिता विभो
एषां बलं गुणं चात्र त्रिवर्गस्य महाफलम्
दुह्याद्धेनुः काममिव भूमिस्सम्यगनुष्ठिता
तस्यां गृध्नन्ति राजानश् शूरा धर्मार्थकोविदाः
ते त्यजन्त्याहवे प्राणान् रसगृध्रास्तरस्विनः
देवमानुषकार्याणां कामं भूमिः परायणम्
अन्योन्यं तेऽवलुम्पन्ति सारमेया इवामिषम्
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम्
न जातु तृप्तिः कामानां विद्यतेऽद्य हि कस्यचित्
तस्मात् परिग्रहेद्भूमेर् यतन्ते भुवि पाण्डवाः
साम्ना दानेन भेदेन दण्डेनैव च पार्थिव
पिता माता च पुत्राश्च खादन्ति नरपुङ्गव
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनाम्