धृतराष्ट्रः-
वर्षाणां चैव नामानि पर्वतानां च सञ्जय
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः
सञ्जयः-
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु
वर्षं रमणकं नाम जायन्ते तत्र मानवाः
शुक्लाभिजनसम्पन्नास् सर्वे सुप्रियदर्शनाः
रतिप्रधानाश्च तथा जायन्ते पुरुषर्षभाः
दशवर्षसहस्राणि शतानि दश पञ्च च
जीवन्ति ते महाराज नित्यं मुदितमानसाः
दक्षिणे शृङ्गिणं चैव श्वेतस्याथोत्तरेण तु
वर्षं हैरण्वतं नाम तत्र हैरण्वती नदी
यक्षारगा महाराज धनिनः प्रियदर्शनाः
महाबलास्तत्र सदा राजन् मुदितमानसाः
एकादशसहस्राणि वर्षाणां ते जनाधिप
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च
शृङ्गाणि वै शृङ्गवतस् त्रीण्येव मनुजाधिप
एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम्
सर्वरत्नमयं चैकं भवनैरुपशोभितम्
तत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली
उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम्
न तत्र सूर्यस्तपति न जीर्यन्ते च मानवाः
चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूतजनावृतः
पद्मप्रभाः पद्मवर्णाः पद्मवर्णनिभाननाः
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः
अनिष्पन्दासुगन्धाश्च निराहारा जितेन्द्रियाः
देवलोकच्युतास्सर्वे तथा विरजसो नृप
त्रयोदशसहस्राणि वर्षाणां ते जनाधिप
आयुःप्रमाणं जीवन्ति नरा भरतसत्तम
क्षीरोदस्य समुद्रस्य तथैवोत्तरतो हरिः
शाश्वद्वसति वैकुण्ठश् शकटे कनकोज्ज्वले
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम्
अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम्
स प्रभुस्सर्वलोकानां स विभुर्भरतर्षभ
सङ्क्षेपो विस्तरश्चैव कर्ता कारयिता च सः
पृथिव्यापस्तथाऽऽकाशं वायुस्तेजश्च पार्थिव
स यज्ञस्सर्वभूतनाम् आस्यं तस्य हुताशनः
वैशम्पायनः-
एवमुक्तस्सञ्जयेन धृतराष्ट्रो महायशाः
ध्यानमन्वगमद्राजा पुत्रान् प्रति जनाधिप
स विचिन्त्य महातेजाः पुनरेवाब्रवीद्वचः
धृतराष्ट्रः-
असंशयं सूतपुत्र कालः सङ्क्षिपते जगत्
सृजते च पुनस्सर्वं नेह विद्यति शाश्वतम्
नरो नारायणश्चैव यज्ञस्सर्वभूतभृत्
देवा वैकुण्ठ इत्याहुर् वेदा विष्णुरिति श्रुतिः