धृतराष्ट्रः-
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व सञ्जय
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम्
सञ्जयः-
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे
उत्तराः कुरवो राजन् दिव्यास्सिद्धनिषेविताः
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम्
वस्त्राणि च प्रसूयन्ते फलन्याभरणानि च
सर्वा मणिमयी भूमिस् सूक्ष्मकाञ्चनवालुका
सर्वत्र सुखसंस्पर्शा दीर्घकालं जनाधिप
देवलोकच्युतास्सर्वे जायन्ते तत्र मानवाः
शुक्लाभिजनसम्पन्नास् सर्वे सुप्रियदर्शनाः
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसम्भवम्
मिथुनं जायमानं तत् समन्ताच्च प्रवर्तते
तुल्यरूपगुणोपेतं समवेतं तथैव च
एवमेकानुरक्तं च चक्रवाकसमं विभो
निरामया वीतशोका नित्यं मुदितमानसाः
दशवर्षसहस्राणि दशवर्षशतानि च
जीवन्ति ते महाराज न चान्योन्यं जहत्युत
भारुण्डा नाम शकुनास् तीव्रतुण्डा महाबलाः
ते निर्हरन्ति च मृतान् दरीषु प्रक्षिपन्ति च
उत्तराः कुरवो राजन् व्याख्यातास्ते समासतः
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम्
भद्रांश्च नाम वर्षं तु पुरा वै गन्धमादनात्
तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते
भद्रसालवनं तत्र कालाम्रश्च महाद्रुमः
कालाम्रश्च महाराज नित्यपुष्पफलश्शुभः
सहस्रयोजनोत्सेधस् सिद्धचारणसेवितः
तत्र वै पुरुषाश्श्वेतास् तेजोयुक्ता महाबलाः
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्वचन्द्रनिभाननाः
चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः
दशवर्षसहस्राणि तत्रायुर्भरतर्षभ
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः
तत्र माल्यवतश्शृङ्गे दृश्यते हव्यवाट् सदा
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ
तथा माल्यवतश्शृङ्गे जायन्ते सुकृता जनाः
योजनानां सहस्राणि पञ्चशन्माल्यवंस्थितः
महारजतसङ्काशा जायन्ते तत्र मानवाः
ब्रह्मलोकच्युतास्सर्वे सर्वे च ब्रह्मवादिनः
तपस्ते तप्यमानस्तु भवन्ति ह्यूर्ध्वरेतसः
रक्षणार्थं तु भूतानां प्रविश्यन्ति दिवाकरम्
षष्टिस्तानि सहस्राणि षष्टिस्तानि शतानि च
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्
षष्टिवर्षसहस्राणि षष्टिर्वर्षशतानि च
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम्