धृतराष्ट्रः-
उक्तो द्वीपस्य सङ्क्षेपो विस्तरं ब्रूहि सञ्जय
यावाद् भूम्यवकाशोऽयं दृश्यते चन्द्रमणडले
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम्
वैशम्पायनः-
एवं पृष्टस्स राज्ञा तु सञ्जयो वाक्यमब्रवीत्
सञ्जयः-
प्रागायता महाराज षडेते रत्नपर्वताः
अवगाढा ह्युभयतस् समुद्रौ पूर्वपश्चिमौ
हिमवान् हेमकूटश्च निषधश्च नगोत्तमः
नीलश्च वैडूर्यमयश् श्वेतश्च रजतप्रभः
सर्वधातुविचित्रश्च शृङ्गवान्नाम पर्वतः
एते वै पर्वता राजन् सिद्धचारणसेविताः
एषामन्तरविष्कम्भा योजनानि सहस्रशः
तत्र पुण्या जनपदास् तानि वर्षाणि भारत
वसन्ति तेषु सत्त्वानि नानाभेदानि नित्यशः
इदं तु भारतं वर्षं ततो हैमवतं परम्
ततः किम्पुरुषावासं वर्षं हिमवतः परम्
हेमकूटात् परं चैव हरिवर्षं प्रचक्षते
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
प्रागायतो महाराज माल्यवान्नाम पर्वतः
ततः परं माल्यवतः पर्वतो गन्धमादनः
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः
आदित्यतरुणाभासो विधूम इव पावकः
योजनानां सहस्राणि षोडशान्तरतस्तथा
ऊर्ध्वं च चतुरशीतिर् द्वात्रिंशन्मूर्ध्नि विस्तृतः
अधस्ताच्चतुरशीतिर् योजनानां महीपते
ऊर्ध्वम्मधश्च तिर्यक् च मेरुरावृत्य तिष्ठति
तस्य पार्श्वे त्वमी द्वीपाश् चत्वारस्संस्थिताः विभो
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत
उत्तराः कुरवश्चैव कृतपुण्यजनाश्शुभाः
सुमुखो यत्र राजेन्द्र सुपर्णस्यात्मजः किल
स तु वै चिन्तयामास सौवर्णान् प्रेक्ष्य वायसान्
मेरुरुत्तममध्यानाम् अधमानां च पक्षिणाम्
अविशेषकरो यस्मात् तस्मादेनमुपैम्यहम्
यमादित्योऽनुपर्येति सततं ज्योतिषां पतिः
चन्द्रश्चैव सनक्षत्रो वायुश्चैव प्रदक्षिणः
स पर्वतो महाराज दिव्यपुष्पफलान्वितः
भवनैरावृतस्सर्वैर् जाम्बूनदमयैश्शुभैः
तत्र देवगणा राजन् गन्धर्वासुरराक्षसाः
अप्सरोगणसंयुक्ताश् शैले क्रीडन्ति नित्यशः
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः
समेत्य विविधैर्यज्ञैर् यजन्तेऽनेकदक्षिणैः
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहाहुहूः
अभिगम्य नरश्रेष्ठ स्तुवन्ति विविधैस्स्तवैः
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि
तस्यैव मूर्धन्युशना काव्यो राजन् महीपते
तस्य इमानि रत्नानि तस्येमे रत्नपर्वताः
तस्मात् कुबेरो भगवांश् चतुर्थं भागमश्नुते
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शुभम्
कर्णिकारवनं दिव्यं शिलातलसमुद्भवम्
तत्र साक्षात् पशुपतिस् सर्वर्भूतैस्समावृतः
उमासहायो भगवान् रमते भूतभावनः
कर्णिकारमयी मालां बिभ्रत् पादावलम्बिनीम्
त्रिभिर्नेत्रैः कृतोद्योतैस् त्रिभिस्सूर्यैरिवोदितैः
तमुग्रतपसस्सिद्धास् सुव्रतास्सत्यवादिनः
पश्यन्ति न हि दुर्वृत्तैश् शक्यो द्रष्टुं महेश्वरः
तस्य शैलस्य शिखरे क्षीरधारा दिवश्च्युता
त्रिंशद्बाहुपरिग्राह्या भीमनिर्घातनिःस्वना
पुण्या पुण्यजनैर्जुष्टा गङ्गा भागीरथी शुभा
पतत्यजस्रं वेगेन ह्रदे चन्द्रप्रभे नृप
तया ह्युत्पादितः पुण्यस् स ह्रदस्सागरोपमः
तां धारयामास तदा दुर्धरां पर्वतैरपि
शतं वर्षसहस्राणि शिरसैव महेश्वरः
दक्षिणेन च मेरोस्तु निषधस्योत्तरेण च
सुदर्शनो नाम महाञ् जम्बूवृक्षस्सनातनः
सर्वकालफलैः पूर्णस् सिद्धचारणसेवितः
तस्य नाम्ना समाख्यातो जम्बूद्वीपस्सनातनः
योजनानां सहस्रे द्वे शतं च भरतर्षभः
उत्सेधो वृक्षराजस्य दिविस्पृङ्मनुजेश्वर
अरत्रीनां सहस्रं च शतानि नव पञ्च च
परिणायेऽस्य पक्वानां फलानां रसभेदिनाम्
पतमानानि तान्युर्वी कुर्वते विपुलस्वनम्
विमुश्चन्ति रसं जातु महाराजतसन्निभम्
स तु जम्बूफलरसो नदी भूत्वा जनाधिप
मेरुं प्रदक्षिणीकृत्य स प्रयात्युत्तरान् कुरून्
न क्षुधा न क्लमश्चापि न पिपासा जनाधिप
तस्मिन् फलरसे पीते न जरा बाधते हि तान्
तत्र जाम्बूनदं नाम कनकं देवभूषणम्
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवा
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते
जम्बूषण्डश्च तत्रैव सुमहान् सागरोपमः
आयुर्दशसहस्राणि तत्र वर्षे तु भारत
सुवर्णवर्णाश्च नरास् स्त्रियश्चाप्सरसोपमाः
अनामया वीतशोका नित्यं मुदितमानसाः
जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः
गन्धमादनशृङ्गेषु कुबेरस्सह राक्षसैः
संवृतोऽप्सरसां सङ्घैर् मोदते गुह्यकाधिपः
गन्धमादनपादेषु परेषु परगन्धिकाः
एकादशसहस्राणि वर्षाणां परमायुषः
तत्र कृष्णा नरा राजंस् तेजोयुक्ता महाबलाः
स्त्रियश्चोत्पलपत्राभास् सर्वास्सुप्रियदर्शनाः
वर्षन्त्विलावृतं नाम तत्र श्रृङ्गमतः परम्
तत्र स्थिते महाराज द्वे वर्षे दक्षिणोत्तरे
इलावृत्तं मध्यमं तु पञ्च दीर्घाणि चैव हि
उत्तरोत्तरमेतेभ्यो वर्षमुद्दीप्यते गुणैः
आयुःप्रमाणदारोग्याद् धर्मतः कामतोऽर्थतः
समन्वितानि भूतानि तेषु वर्षेषु भारत
एवमेतैर्महाराज पर्वतैः पृथिवी चिता
हेमकूटस्तु सुमहान् कैलासो नाम पर्वतः
यत्र वैश्रवणो राजन् गुह्यकैस्सह मोदते
तत्र देवो महादेवो नित्यमास्ते सहोमया
चित्रे शिलातले रम्ये देवर्षिगणपूजितः
अस्त्युत्तरेण कैलासान्मैनाकः पर्वतोत्तमः
हिरण्यशृङ्गस्सुमहान् वीर्यो मणिमयो गिरिः
तस्य पार्श्वे महद्दिव्यं शुभ्रं काञ्चनवालुकम्
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
गत्वा भागीरथीं गङ्गाम् उवास बहुलास्समाः
यूपा मणिमयास्तत्र चैत्याश्चापि हिरण्मयाः
तत्रेष्ट्वा च तपस्सिद्धस् सहस्राक्षो महायशाः
स्रष्टा भूतपतिर्यत्र सर्वान् लोकान् सनातनान्
उपास्यते तिग्मतेजा यत्र भूतैस्समन्ततः
नरनारायणौ ब्रह्मा देवस्स्थाणुश्च पञ्चमः
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते
वस्वौकसारा नलिनी पावनी च सरस्वती
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी
अचिन्त्या देवसङ्कल्पा प्रभावैश्चैव संयुता
उपासते यत्र सत्रं सहस्रयुगपर्यये
दृश्याऽदृश्या च भवति तत्र तत्र सरस्वती
एता दिव्यास्सप्त गङ्गास् त्रिषु लोकेषु विश्रुताः
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः
सर्पा नागाश्च निषधे गोकर्णं च तपोवनम्
गन्धर्वा निषधे शैले नीलो ब्रह्मर्षयो नृपाः
देवासुरग्रहाश्चैव पर्वते लोकविश्रुते
शृङ्गवांस्तु महाराज पितॄणां प्रतिसञ्चरः
इत्येतानि महाराज सप्त वर्षाणि भागशः
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च
एषामृद्धिर्बहुविधा दृश्यते दैवमानुषी
अशक्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषता
यां तु पृच्छसि मां राजन् दिव्यामेनां शशाकृतिम्
स वै सुदर्शनद्वीपो दृश्यते शशवद्द्विधा
पार्श्वे शशस्य वै वर्षे उभये दक्षिणोत्तरे
शाकद्वीपश्च क्रौञ्चश्च शाल्मलिः पुष्कर एव च
ताम्रपर्णीशिरोजश्च श्रीमान् मलयपर्वतः
एतद्द्वितीयं द्वीपस्य दृश्यते शशसञ्ज्ञितम्