वैशम्पायनः-
एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत
स मुहूर्तमिव ध्यात्वा विनिश्श्वस्य च भारत
सञ्जयं संशितात्मानम् अपृच्छद्भरतर्षभ
धृतराष्ट्रः-
सञ्जयेमे महीपालाश् शूरा युद्धाभिनन्दिनः
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह
पार्थिवाः पृथिवीहेतोस् समभित्यक्तजीविताः
न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यमक्षयम्
भौममैश्वर्यमिच्छन्तो न मृष्यन्ति परस्परम्
मन्ये गुणाधिकां भूमिं तन्ममाचक्ष्व सञ्जय
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च
कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले
देशानां च परीमाणं नगराणां च सञ्जय
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः
दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा
प्रभावात् तस्य विप्रर्षेर् व्यासस्यामिततेजसः
सञ्जयः-
यथाप्रज्ञं महाभाग भौमान् वक्ष्यामि ते गुणान्
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ
द्विविधानीह भूतानि चराणि स्थावराणि च
चराणां त्रिविधा योनिर् अण्डस्वेदजरायुजाः
चराणां खलु सर्वेषां श्रेष्ठा राजञ् जरायुजाः
जरायुजानां प्रवरा मानवाः पशवश्च ये
नानारूपाणि बिभ्रन्तस् तेषां भेदाश्चतुर्दश
अरण्यवासिनस्सप्त सप्तैव ग्रामवासिनः
सिंहव्याघ्रवराहाश्च महिषा हरिणस्तथा
ऋक्षाश्च वानराश्चैव सप्तारण्यास्मृता नृप
गौरजा मनुजाश्चैव अप्यश्वतरगर्दभाः
एते ग्राम्यास्समाख्याताः पशवस्सप्त साधुभिः
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः
ग्राम्याणां पुरुषाः श्रेष्ठास् सिंहाश्चारण्यवासिनाम्
सर्वेषामेव भूतानाम् अन्योन्यमुपजीविकाः
उद्भिज्जास्स्थावराः प्रोक्तास् तेषां पञ्चैव जातयः
वृक्षगुल्मलतावल्ल्यस् त्वक्सारास्तृणजातयः
तेषां विंशतिरेकोना महाभूतेषु पञ्चसु
चतुर्विंशतिरुद्दिष्टा गायत्री लोकसम्मता
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम्
तत्त्वेन भरतश्रेष्ठ लोकानश्नुते शुभान्
भूमौ हि जायते सर्वं भूमौ सर्वं विनश्यति
भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम्
यस्य भूमिस्तस्य सर्वं जगत् स्थावरजङ्गमम्
तस्यां बुध्या च राजानो विनिघ्नन्तीतरेतरम्
धृतराष्ट्रः-
नदीनां पर्वतानां च नामधेयानि सञ्जय
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः
प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वतः
निखिलेन त्वमाचक्ष्व काननानि च सञ्जय
सञ्जयः-
पञ्चैतानि महाराज महाभूतानि सङ्ग्रहात्
जगतीस्थानि भूतानि समान्याहुर्मनीषिणः
भूमिरापस्तथैवाग्निर् वायुराकाशमेव च
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः
शब्दस्स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
चत्वारोऽप्सु गुणा राजन् गन्धस्तत्र न विद्यते
शब्दस्स्पर्शश्च रूपं च तेजस्येते गुणास्त्रयः
शब्दस्स्पर्शश्च वायोस्तु अाकाशे शब्द एव हि
एते पञ्च गुणा राजन् महाभूतेषु पञ्चसु
वर्तन्ते सर्वभूतेषु येषु भूताः प्रतिष्ठिताः
अन्योन्यं नापि वर्तन्ते साम्यं तिष्ठन्ति वै तदा
यदा तु विषमीभावम् आविशन्ति परस्परम्
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा
आनुपूर्व्याद् विनश्यन्ति जायन्ते चानुपूर्वशः
सर्वाण्यपरिमेयाणि तथैषां रूपमैश्वरम्
तत्रतत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः
तेषां मनुष्यास्तत्त्वेन प्रमाणानि प्रचक्षते
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्
सुदर्शनं तु वक्ष्यामि द्वीपं ते कुरुनन्दन
परिमण्डलो महाराज द्वीपोऽयं चक्रसंस्थितः
नदीजालप्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा
वृक्षैः पुष्पफलोपेतैस् सम्पन्नधनधान्यवान्
लवणेन समुद्रेण सर्वतः परिवारितः
यथा हि पुरुषः पश्यत्यादर्शे रूपमात्मनः
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले
द्विरंशः पिप्पलस्तत्र द्विरंशस्तु शशो महान्
सर्वौषधिसमापन्नः पर्वतैः परिवारितः
अतो यदन्यत् ता आपः एषः सङ्क्षेप उच्यते