वैशम्पायनः-
एवमुक्त्वा मुनिस्तत्त्वं कवीन्द्रो राजसत्तम
पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत् परम्
पुनरेवाब्रवीद्राजन् कालवादी महातपाः
व्यासः-
असंशयं पार्थिवेन्द्र कालस्सङ्क्षयते जगत्
सृजते च पुनर्लोकान् विद्यते नेह शाश्वतम्
ज्ञातीनां सुहृदां चैव कुरुपाण्डवयोस्तथा
धर्म्यं दर्शय पन्थानं समर्थो ह्यसि वारणे
एवं ज्ञातिवधं प्राप्तो मा कुरुष्व ममाप्रियम्
कालोऽयं पुत्ररूपेण तव जातो महाद्युते
न वधः पूज्यते वेदे हितं नैतत् कथञ्चन
न हन्यात् स न वा हन्यात् कुलधर्मात् स्वकां तनुम्
कालेनोत्पथगन्तासि शक्ये सति निवारणे
कुलस्यास्य विनाशाय तथैव च महीक्षिताम्
अनर्थो राज्यरूपेण त्यज्यतामसुखावहः
लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान्
किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्विषम्
यशो धर्मं च कीर्तिं च पालयन् स्वर्गमाप्स्यसि
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः
वैशम्पायनः-
एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः
प्रशस्य वाक्यं वाक्यज्ञो वचनं त्विदमब्रवीत्
धृतराष्ट्रः-
यथा भवान् वेद तथाऽस्मि वेत्ता भावाभावौ विदितौ मे यथावत्
स्वार्थे हि सम्मुह्यति तात लोको मां चापि लोकात्मकमेव विद्धि
प्रसादये त्वामतुलप्रभाव त्वं नो गतिर्दर्शयिता च धीरः
न चापि वै त्वं ससुतं सबान्धवं सकल्मषं कर्तुमिहार्हसि त्वम्
त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिस्स्मृतिः
कुरूणां पाण्डवानां च मान्यश्चापि पितामहः
व्यासः-
वैचित्रवीर्य नृपते यत् ते मनसि वर्तते
अभिधत्स्व यथाकामं छेत्ताऽस्मि तव संशयम्
धृतराष्ट्रः-
यानि लिङ्गानि सेनानां भवन्ति युधि जेष्यताम्
तानि सर्वाणि भगवञ् छ्रोतुमिच्छामि तत्त्वतः
व्यासः-
प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः
पुण्या गन्धाश्चाहुतीनां प्रवान्ति जयस्यैतद्भाविनो रूपमाहुः
गम्भीरघोषाश्च महास्वनाश्च शङ्खा मृदङ्गाश्च नदन्ति यत्र
विशुद्धरश्मिस्तपनश्शशी च जयस्येतद्भाविनो रूपमाहुः
इष्टा वाचः पृष्ठतो वायसानां श्रुता यत्र युधि जेतुं नृपाणाम्
हृष्टानां वै गच्छतां युद्धभूमिं जयस्यैतद्भाविनो रूपमाहुः
ये पृष्ठतस्ते त्वरयन्ति राजन् ये त्वग्रतस्ते प्रतिषेधयन्ति
कल्याणवाचश्शकुना राजहंसाश् शुकाः क्रौञ्चाश्शतपत्राश्च यत्र
प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये ध्रुवं जयन्तस्य वदन्ति विप्राः
अलङ्कारैः कवचैः केतुभिश्च मुखप्रसदैर्देहवर्णैश्च नॄणाम्
भ्राजिष्मती दुष्प्रतिप्रेक्षणीया येषां चमूस्ते विजयन्ति शत्रून्
हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत
न म्लायन्ते स्रजश्चैव ते तरन्ति रिपून् रणे
प्रयाणे वायसा वामाद् भागच्चैव तु दक्षिणम्
प्रपद्यन्ते जयो राज्ञां भवेद्युधि न संशयः
शब्दरूपरसस्पर्शगन्धाश्चापि कृताश्शुभाः
तथा योधाः प्रहृष्टाश्च येषां तेषां ध्रुवो जयः
अन्वीय वायवो वान्ति तथाऽभ्राणि वयांसि च
अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च
एतानि जयमानानां लक्षणानि विशां पते
भवन्ति विपरीतानि मुमूर्षूणां नराधिप
अल्पायां वा महत्यां वा सेनायामिति निश्चयः
हर्षो योधगणस्यैवं जयलक्षणमुच्यते
राजा दीनो धारयति सेनां सुमहतीमपि
सेनाऽपि सा विदीर्येत योधाश्शूरतरा अपि
दुर्निवर्त्यातरा चैव प्रभग्ना हि महाचमूः
अपामिव महावेगास् त्रस्ता मृगगणा इव
नैव शक्या समादातुं सन्निपाते महाचमूः
दीर्ण इत्येव दीर्यन्ते यथा शूरतरा अपि
भग्नान् योधान् विसम्प्रेक्ष्य भयं भूतगणस्य च
भवेच्च भरतश्रेष्ठ तथा सम्प्रेक्षतामपि
ते योधा दुद्रुवुश्शूरा दिशो विभ्रामिताः परैः
नैव स्थापयितुं शक्या शूरैरपि महाचमूः
संहत्य महतीं सेनां चतुरङ्गां महीपतिः
शक्नोति न समाघातुं धीरानिन्द्रसमो युधि
उपायैर्विजयेच्छ्रेष्ठम् आहुर्भेदेन मध्यमम्
जघन्य एष विजयो यो युद्धेन महीपतेः
महादोषस्सन्निपाते तस्माद्दुष्टस्स उच्यते
परस्परज्ञास्संहृष्टा व्यवधूतास्सुनिश्चिताः
अपि पञ्चाशतं शूरा मृद्नन्ति महतीं चमूम्
अपि वा पञ्च षट् सप्त विजयन्त्यनिवर्तिनः
न वैनतेयो गरुडः प्रशंसति महाजनम्
दृष्ट्वा सुपर्णोऽपचितिं महतीमपि भारत
न बाहुल्येन सेनाया जयो भवति भारत
अध्रुवो हि जयो नाम दैवं चात्र परायणम्
जयवन्तोऽपि सङ्ग्रामे क्षयवन्तो भवन्त्युत