व्यासः-
खरा गोषु प्रजायन्ते रमन्ते मातृभिस्सुताः
अनार्तवं पुष्पफलं दर्शयन्ति वनद्रुमाः
गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान्
क्रव्यादान् भक्षयिष्यन्ति गोमायूनितरे मृगाः
त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवो शिवाः
जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः
त्रिपादाश्शिखिनस्तार्क्ष्याश् चतुर्दंष्ट्रा विषाणिनः
तथैवान्ये प्रदृश्यन्ते शुका वै ब्रह्मवादिनाम्
वैनतेया मयूरांश्च जनयन्ति पुरे तव
गोवत्सं वडवा सूते श्वा सृगालं महीपते
कुञ्जराश्शशारिकाश्चैव शुकाश्चाशुभवादिनः
स्त्रियः काश्चित् प्रजायन्ते चतस्रः पञ्च कन्यकाः
जातमात्राश्च नृत्यन्ति गायन्ति च हसन्ति च
पृथग्जनस्य कुहकाः ताडयन्ति परस्परम्
नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम्
प्रतिमाश्चालिखन्त्येतास् सशस्त्राः कालचोदिताः
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः
उपनर्दन्ति नृत्यन्ति नगराणि युयुत्सवः
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च
विष्ग्वाताश्च विवान्त्युग्रा रजो नाप्युपशाम्यति
अभीक्ष्णं कम्पते भूमिर् अर्कं राहुस्तथाऽग्रहीत्
श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति
अभावो हि विशेषेण कुरूणां सम्प्रदृश्यते
धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति
सेनयोरशिवं घोरं करिष्यति महाग्रहः
मघास्वङ्गारको वक्रश् श्रवणे च बृहस्पतिः
भगं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते
शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते
उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते
श्यामो ग्रहः प्रज्वलितस् सधूमस्सह पावकः
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति
ध्रुवः प्रज्वलितो घोरम् अपसव्यं प्रवर्तते
चित्रास्वात्यन्तरे चैव विष्ठितः परुषग्रहः
वक्रानुवक्रं कृत्वा तु श्रवणे पावकप्रभः
ब्राह्मं राशिं नक्षत्रमाश्रित्य लोहिताङ्गो व्यवस्थितः
सर्वसस्यप्रतिच्छन्ना पृथिवी सस्यमालिनी
पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः
हीना स्यात् प्रथिवीपालैर् भविष्यति नराधिप
गावाः क्षीरसमृद्ध्या च सम्पन्नः पृथिवीतले
सुखदास्सर्वलोकस्य यासां निघ्नमिदं जगत्
ता गावः प्रस्नुता वत्सैश् शोणितं प्रक्षरन्त्युत
निश्चेरुरथ यानेभ्यः खड्गाश्च ज्वलिता भृशम्
व्यक्तं पश्यन्ति शस्त्राणि सङ्ग्रामं प्रत्युपस्थितम्
अग्निवर्णा यथा भासश् शस्त्राणामुदकस्य च
कवचानां ध्वजानां च भविष्यति महान् क्षयः
दिक्षु प्रज्वलिताश्चैव व्याहरन्ति मृगद्विजाः
अत्याहितं दर्शयन्तः क्षत्रियाणां महद्भयम्
एकपक्षाक्षिचरणाश् शकुनाः खेचरा निशि
रौद्रं वदन्ति संरब्धाश् शोणितं छर्दयन् मुहुः
ग्रहौ ताम्रारुणनिभौ प्रज्वलन्ताविव स्थितौ
सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम्
संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ
विशाखयोस्समीपस्थौ शनैश्चरबृहस्पती
कृत्तिकास्तु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन्
वपूंष्यपाहरत् तासां धूमकेतुरवस्थितः
त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते
बुधस्सम्पततेऽभीक्ष्णं जनयन् प्राणिनां भयम्
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम्
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम्
चन्द्रसूर्यावुभौ ग्रस्तौ दवमासे त्रयोदशीम्
अपर्वणि ग्रहेनेतौ प्रजास्सङ्क्षपयिष्यतः
रजोवृता दिशस्सर्वाः पांसुवर्षैस्समन्ततः
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम्
मांसवर्षं ततश्चासीत् तीव्रं कृष्णचतुर्दशीम्
अर्धरात्रे महाघोरे अतृप्यंस्तत्र राक्षसाः
प्रतिस्रोतोवहन्त्यन्यास् सरितश्शोणितोदकाः
फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव
पतन्त्युल्कास्सनिर्घातास् सधूमा विद्युदाश्रिताः
अद्य चैव च निशाव्युष्टावुदये भानुराहत
ज्वलन्तीभिर्महोल्काभिश् चतुर्भिस्सर्वतो दिशम्
आदित्यमुपतिष्ठद्भिस् तत्र चोक्तं महर्षिभिः
भूमिपालसहस्राणां भूमिः पास्यति शोणितम्
कैलासमन्दराभ्यां तु तथा हिमवतो विभो
सहस्राणि महाशब्दं शिखराणि पतन्त्युत
महाद्भुते भूमिकम्पे चत्वारस्सागराः पृथक्
वेलामुद्वर्तयन्तीव स्म क्षोभयन्तः पुनः पुनः
वृक्षानुन्मथ्य वान्त्युग्रा वाताश्शर्करकर्षिणः
पतन्ति चैत्या वृक्षाश्च ग्रामेषु नगरेषु च
पीतलोहितवर्णश्च ज्वलत्यग्निर्हुतो द्विजैः
वामार्चिश्शवगन्धश्च धूमप्रायः खरस्वनः
स्पर्शगन्धरसाश्चैव विपरीता विशां पते
धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः
मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहस्तथा
प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि
गृध्राः परिपतन्त्युग्रा वाममण्डलमाश्रिताः
पक्वापक्वेति सुभृशं प्रणद्यन्ते वयांसि च
निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम्
निश्वसन्तो विवर्णाङ्गा बले वेपथुसंश्रिताः
रुदन्ति नीचैस्तुरगा मातङ्गाश्च सहस्रशः
एवंविधं दुर्निमित्तं क्षयाय पृथीवीक्षिताम्
भौमं दिव्यं चान्तरिक्षं त्रिविधं जायतेऽनिशम्॥
वैशम्पायनः-
एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम्
यथा लोकस्समुच्छेदं नायं गच्छेत भारत
पितुर्वचो निशम्यैवं धृतराष्ट्रोऽब्रवीदिदम्
धृतराष्ट्रः-
दिष्टमेतत् पुरा मन्ये भविष्यति न संशयः
क्षत्रियाः क्षत्रधर्मेण यदि योत्स्यन्ति संयुगे
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम्
इह कीर्तिं परे लोके दीर्घकालं महत् सुखम्
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे