जनमेजयः-
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः
पार्थिवाश्च महात्मानो नानादेशसमागताः
वैशम्पायनः-
यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः
कुरुक्षेत्रे तपःक्षेत्रे शृणु तत् पृथिवीपते
अवतीर्य कुरुक्षेत्रं पाण्डवास्सहसोमकाः
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः
वेदाध्ययनसम्पन्नास् सर्वे युद्धाभिनन्दिनः
आशंसन्तो जयं युद्धे बधं चाभिमुखा रणे
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम्
प्राङ्मुखाः पश्चिमे भागे न्यवशन्त ससैनिकाः
स्यमन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः
स्थापयामास विधिवत् कुन्तीपुत्रो युधिष्ठिरः
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता
निरश्वपुरुषा चासीद् रथकुञ्जरवर्जिता
यावत् तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम्
तावदेव समावृत्तं बलं पार्थिवसत्तम
एकस्थास्सर्ववर्णास्ते मण्डलं बहुयोजनम्
पर्याक्रामन्त देशांश्च नदीश्शैलावनानि च
तथा युधिष्ठिरो राजा सर्वेषां भरतर्षभ
आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम्
सञ्ज्ञाश्च विविधास्तातास् तेषां चक्रे युधिष्ठिरः
एवं वादी वेदितव्यः पाण्डवेयोऽयमित्युत
अभिज्ञानानि सर्वेषां सञ्ज्ञाश्च विविधास्तथा
योजयामास कौरव्यो युद्धकाल उपस्थिते
दृष्ट्वा ध्वजाग्रं पार्थस्य धार्तराष्ट्रो महाबलः
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान्
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम्
दृष्ट्वा दुर्योधनं हृष्टास् सर्वे पाण्डवसैनिकाः
दध्मुस्सर्वे महाशङ्खान् भेरीर्जघ्नुस्सहस्रशः
ततः प्रहृष्टां स्वां सेनाम् अभिवीक्ष्याथ पाण्डवाः
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान्
स्वयोधान् हर्षयन्तौ तौ वासुदेवधनञ्जयौ
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ
पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः
श्रुत्वा सवाहना योधाश् शकृन्मूत्रं प्रसुस्रुवुः
यथा सिंहस्य नदतस् स्वनं श्रुत्वेतरे मृगाः
त्रसेयुस्तद्वदेवासीद् धार्तराष्ट्रबलं तदा
उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन
अन्तर्दधे तदाऽऽदित्यस् सैन्येन रजसा वृतः
ववर्ष तत्र पर्जन्यो मांसशोणितवृष्टिमान्
व्युक्षन् सर्वाणि भूतानि तदद्भुतमिवाभवत्
वायुस्तत्र प्रादुरभून्नीचैश्शर्करवर्षवान्
विनिघ्नंस्तान्यनीकानि व्यधमंश्चैव तद्रजः
उभे सेने तदा राजन् युद्धाय मुदिते भृशम्
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे
उभयोस्सेनयोरासीद् अद्भुतस्स समागमः
युगान्ते समनुप्राप्ते द्वयोस्सागरयोरिव
शून्याऽऽसीत् पृथिवी सर्वा बालवृद्धवशेषिता
तेन सेनासमूहेन समानीत्तेन कौरवैः
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः
धर्मांश्च स्थापयामासुर् युद्धानां भरतर्षभ
निवृत्ते विहिते नो युद्धे स्यात् प्रीतिश्च परस्परम्
यथापुरं यथायोगं न च स्याच्चलनं पुनः
वाचा युद्धे प्रवृत्ते तु वाचैव प्रतियोधनम्
निष्क्रान्ताः पृतनामध्यान्न हन्तव्याः कथञ्चन
रथी च रथिना योध्यो गजेन सह वै गजः
अश्वेनाश्वः पदातिश्च पादातेनैव भारत
यथायोगं यथावीर्यं यथोत्साहं यथावयः
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले
परेण सह संयुक्तं न चान्यः प्रहरेद्युधि
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथञ्चन
परेण सह संयुक्तः प्रमत्तो विमुखस्तथा
न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु
न भेरीशङ्खवादेषु प्रहर्तव्यं कथञ्चन
एवं ते समयं कृत्वा कुरुपाण्डवसैनिकाः
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम्
विनिद्रित्य महात्मानस् ततस्ते पुरुषर्षभाः
हृष्टरूपास्सुमनसो राजानो बलवत्तराः
उभयोस्सेनयोर्मध्ये बभूवुस्सहसैनिकाः