वैशम्पायनः-
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः
दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति
आप्लाव्य शुचयस्सर्वे स्रग्विणश्शुक्लवाससः
गृहीतशस्त्रा ध्वजिनस्स्वस्ति वाच्य हुताग्नयः
सर्वे ब्रह्मविदश्शूरास्सर्वे सुचरितव्रताः
सर्वे कामकृतश्चैव सर्वे चाहवलक्षणाः
आहवेषु पराल्ँलोकाञ्जिगीषन्तो महाबलाः
एकाग्रमनसस्सर्वे श्रद्दधानाः परस्य च
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैस्सह
प्रययुस्सर्व एवैते भारद्वाजपुरोगमाः
अश्वत्थामा शान्तनवस्सैन्धवोऽथ जयद्रथः
दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये नृपाः
गान्धारराजश्शकुनिः प्राच्योदीच्याश्च सर्वशः
शकाः किराता यवनाश्शिबयोऽथ वसातयः
स्वैस्स्वैरनीकैस्सहिताः परिवार्य महारथाः
एते महारथास्सर्वे द्वितीये निर्ययुर्बले
कृतवर्मा सहानीकस्त्रिगर्तश्च महारथः
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः
शलो भूरिश्रवाश्शल्यः कौसल्योऽथ बृहद्बलः
एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः
ते समेत्य यथान्यायं धार्तराष्ट्रा महाबलाः
कुरुक्षेत्रस्य पश्चार्धे व्यवातिष्ठन्त दंशिताः
दुर्योधनस्तु शिबिरं कारयामास भारत
यथैव हास्तिनपुरं द्वितीयं समलङ्कृतम्
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा
कुशला अपि राजेन्द्र नरा नगरवासिनः
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः
कारयामास कौरव्यश्शतशोऽथ सहस्रशः
पञ्चयोजनविस्तीर्णं मण्डलं तद्रणाजिरम्
सेनानिवेशास्ते राजन्नाविशञ्छतसङ्घशः
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम्
विविशुश्शिबिराण्यत्र द्रव्यवन्ति सहस्रशः
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम्
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम्
सनागाश्वमनुष्याणां ये च शिल्पोपजीविनः
ये चान्येऽनुगतास्तत्र सूतमागधवन्दिनः
वणिजो गणिकाश्चारा ये चैव प्रेक्षका जनाः
सर्वांस्तान्कौरवो राजा विधिवत्पर्यरक्षत