सञ्जयः-
प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव
मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत
दुर्योधनः-
पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुत्तमम्
प्रभूतनरनागाश्वं महारथसमाकुलम्
भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः
लोकपालसमैर्गुप्तं धृष्टद्युम्नपुरोगमैः
अप्रधृष्यमनावार्यमुद्धूतमिव सागरम्
सेनासागरमक्षोभ्यमपि देवैर्महाहवे
केन कालेन गाङ्गेय क्षपयेथा महाद्युते
आचार्यो वा महेष्वासः कृपो वा सुमहाबलः
कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः
दिव्यास्त्रविदुषस्सर्वे भवन्तो हि बले मम
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे
हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम
अनेनाहं विधानेन सन्नद्धस्सततोत्थितः
क्षपयेयं महत्सैन्यं केन कालेन भारत
भीष्मः-
अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते
बलाबलममित्राणां तेषां यदिह पृच्छसि
शृणु राजन्मम रणे या शक्तिः परमा भवेत्
शस्त्रवीर्यं रणे यच्च भुजयोश्च महाभुज
आर्जवेनैव युद्धेन योद्धव्य इतरो जनः
मायायुद्धेन मायावी इत्येतद्धर्मनिश्चितम्
हन्यामहं महाभाग पाण्डवानामनीकिनीम्
दिवसे दिवसे कृत्वा भागं भागाह्निकं मम
राज्ञां तु दशसाहस्रं कृत्वा भागं महाद्युते
सहस्रं रथिनामेकमेष भागो मतो मम
अनेनाहं विधानेन सन्नद्धस्सततोत्थितः
क्षपयेयं महत्सैन्यं कालेनानेन भारत
मुञ्चेयं यदि शस्त्राणि महान्ति समरे स्थितः
शतसाहस्रघातीनि हन्यां मासेन भारत
सञ्जयः-
श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्ततः
पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम्
आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान्
निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव
द्रोणः-
स्थविरोऽस्मि महाबाहो मन्दप्राणविचेष्टितः
शस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम्
यथा भीष्मश्शान्तनवो मासेनेति मतिर्मम
एषा मे परमा शक्तिरेतन्मे परमं बलम्
सञ्जयः-
द्वाभ्यामेव तु मासाभ्यां कृपश्शारद्वतोऽब्रवीत्
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम्
कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित्
तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः
जहास सस्वनं हासं वाक्यं चेदमुवाच ह
भीष्मः-
न हि यावद्रणे पार्थं बाणशङ्खधनुर्धरम्
वासुदेवसमायुक्तं रथेनोद्यन्तमुद्यतम्
समागच्छसि राधेय तेनैवमभिमन्यसे
शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः