भीष्मः-
चकार यत्नं द्रुपदस्सुतायास्सर्वकर्मसु
ततो लेख्यादिषु तथा शिल्पेषु च परन्तप
इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह
तस्य माता महाराज राजानं वरवर्णिनी
चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा
ततस्तां पार्षतो दृष्ट्वा कन्यां सम्प्राप्तयौवनाम्
स्त्रियं मत्वा ततश्चिन्तां प्रपेदे सह भार्यया
द्रुपदः-
कन्या ममेयं सम्प्राप्ता यौवनं शोकवर्धिनी
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः
न तन्मिथ्या महाराज भविष्यति कथञ्चन
भार्या-
त्रैलोक्यकर्ता कस्माद्धि वृथा वक्तुमिहार्हति
यदि ते रोचते राजन्वक्ष्यामि शृणु मे वचः
श्रुत्वेदानीं प्रपद्येथास्स्वां मतिं पृषतात्मज
क्रियतामस्य यत्नेन विधिवद्दारसङ्ग्रहः
भविता तद्वचस्सत्यमिति मे निश्चिता मतिः
भीष्मः-
ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दम्पती
वरयाञ्चक्रतुः कन्यां दशार्णाधिपतेस्सुताम्
ततो राजा द्रुपदो राजसिंहस्सर्वान्राज्ञः कुलतस्सन्निशाम्य
दाशार्णकस्य नृपतेस्तनूजां शिखण्डिने वरयामास कन्याम्
हिरण्यवर्मेति नृपो योऽसौ दाशार्णकस्स्मृतः
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने
स च राजा दशार्णेषु महानासीत्सुदुर्जयः
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः
कृते विवाहे तु तदा सा कन्या राजसत्तम
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी
कृतदारश्शिखण्डी च काम्पिल्यं पुनरागमत्
न च सा वेद तां कन्यां कञ्चित्कालं स्त्रियं किल
यदा त्वेनामजानात्सा स्त्रियमेव नृपात्मजा
धात्रीणां च सखीनां च व्रीडमाना न्यवेदयत्
कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम्
ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा
जग्मुरार्तिं परां प्रेष्याः प्रेषयामासुरेव च
ततो दशार्णाधिपतेः प्रेष्यास्सर्वा न्यवेदयन्
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः
शिखण्ड्यपि महाराज पुंवद्राजकुले तदा
विजहार मुदा युक्तस्स्त्रीत्वं नैवातिरोचयन्
ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ
हिरण्यवर्मा राजेन्द्र रोषादार्तिं जगाम ह
ततो दाशार्णको राजा तीव्रकोपसमन्वितः
दूतं प्रस्थापयामास द्रुपदस्य निवेशनम्
ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः
एक एकान्तमुत्सार्य रहो वचनमब्रवीत्
दूतः-
दाशार्णराजो राजंस्त्वामिदं वचनमब्रवीत्
अभिषङ्गात्प्रकुपितो विप्रलब्धस्त्वयाऽनघ
अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव
यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि
तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते
एष त्वां सजनामात्यमुद्धरामि स्थिरो भव
अवमत्य च वीर्यं मे कुलं चारित्रमेव च
विप्रलम्भस्त्वयाऽपूर्वो मनुष्येषु प्रवर्तितः
कुरु सर्वाणि कार्याणि भुङ्क्ष्व भोगाननुत्तमान्
अभियास्यामि शीघ्रं त्वां समुद्धर्तुं सबान्धवम्