दुर्योधनः-
कथं शिखण्डी गाङ्गेय कन्यां भूत्वा सती तदा
पुरुषोऽभूद्युधि श्रेष्ठ तन्मे ब्रूहि पितामह
भीष्मः-
भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः
महिषी दयिता ह्यासीदपुत्रा च विशाम्पते
एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः
अपत्यार्थे महाराज तोषयामास शङ्करम्
अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः
लेभे कन्यां महादेवात्पुत्रो मे स्यादिति ब्रुवन्
भगवन्पुत्रमिच्छामि भीष्मप्रतिचिकीर्षया
इत्युक्तो देवदेवेन स्त्री पुमांस्ते भविष्यति
निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत्
स तु गत्वा च नगरं भार्यामिदमुवाच ह
कृतो यत्नो महादेवि पुत्रार्थं तपसा महान्
कन्या भूत्वा पुमान्भावी इति चोक्तोऽस्मि शम्भुना
पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः
न तदन्यच्च भविता भवितव्यं हि तत्तथा
ततस्सा नियता भूत्वा ऋतुकाले मनस्विनी
पत्नी द्रुपदराजस्य द्रुपदं प्रविवेश ह
लेभे गर्भं यथाकालं विधिदृष्टेन हेतुना
पार्षतस्य महीपाल यथा मां नारदोऽब्रवीत्
ततो दधार सा देवी गर्भं राजीवलोचना
तां स राजप्रियां भार्यां द्रुपदः कुरुनन्दन
पुत्रस्नेहान्महाबाहुस्सुखं पर्यचरत्तदा
सर्वानभिप्रायगतान्भार्याऽलभत कौरव
अपुत्रस्य सतो राज्ञो द्रुपदस्य यशस्विनः
यथाकालं तु सा देवी महिषी द्रुपदस्य ह
कन्यां प्रवररूपां तु प्राजायत नराधिप
अपुत्रस्य तु राज्ञस्सा द्रुपदस्य मनस्विनी
ख्यापयामास राजेन्द्र पुत्रो ह्येष ममेति वै
ततस्स राजा द्रुपदः प्रच्छन्नाया नराधिप
पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत्
रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा
चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत
न हि तां वेद नगरे कश्चिदन्यत्र पार्षतात्
श्रद्दधानो हि तद्वाक्यं देवस्याच्युततेजसः
छादयामास तां कन्यां पुमानिति च सोऽब्रवीत्
जातकर्माणि सर्वाणि कारयामास पार्थिवः
पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः
अहमेकस्तु चारेण वचनान्नारदस्य च
ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा