भीष्मः-
ततस्ते तापसास्सर्वे तपसे धृतनिश्चयाम्
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चासकृत्
तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा
अम्बा-
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः
वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः
यत्कृते दुःखवसतिमिमां प्राप्ताऽस्मि शाश्वतीम्
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह
नाहत्वा युधि गाङ्गेयं निवर्तिष्ये तपोधनाः
एष मे हृदि सङ्कल्पो यदर्थमिदमुद्यतम्
स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः
भीष्मः-
तां देवो दर्शयामास शूलपाणिरुमापतिः
मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम्
छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम्
हनिष्यसीति तां देवः प्रत्युवाच मनस्विनीम्
ततस्सा पुनरेवाथ कन्या रुद्रमुवाच ह
अम्बा-
उपपद्येत्कथं देव स्त्रिया युधि जयो मम
स्त्रीभावेन च मे गाढं मनश्शान्तमुमापते
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः
भीष्मः-
यथा स सत्यो भवति तथा कुरु वृषध्वज
यथा हन्यां समागम्य भीष्मं शान्तनवं युधि
तामुवाच महादेवः कन्यां किल वृषध्वजः
शिवः-
न मे वागमृतं प्राह सत्यं भद्रे भविष्यति
हनिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे
स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती
द्रुपदस्य कुले जाता भविष्यसि सुसम्मतः
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसम्मतः
यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति
भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात्
भीष्मः-
एवमुक्त्वा महादेवः कपर्दी वृषभध्वजः
पश्यतामेव विप्राणां तत्रैवान्तरधीयत
ततस्सा पश्यतां तेषां महर्षीणामनिन्दिता
समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम्
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम्
ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम्