रामः-
प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि
यथाशक्त्या मया युद्धं कृतं वै पौरुषं परम्
न चैवमपि शक्नोमि भीष्मं शस्त्रभृतां वरम्
विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन्
एषा मे परमा शक्तिरेतन्मे परमं बलम्
यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते
भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः
निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता
भीष्मः-
एवमुक्त्वा ततो रामो विनिश्श्वस्य महामनाः
तूष्मीमासीत्ततः कन्या प्रोवाच भृगुनन्दनम्
अम्बा-
भगवन्नेवमेवैतद्यथाऽऽह भगवांस्तथा
अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः
यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया
अनिवार्यं रणे वीर्यमस्त्राणि विविधानि च
न चैव शक्यते युद्धे विशेषयितुमन्ततः
न चाहमेनं यास्यामि पुनर्भीष्मं कथञ्चन
गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन
समरे पातयिष्यामि स्वयमेव भृगूद्वह
भीष्मः-
एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना
तपसे धृतसङ्कल्पा सा मे चिन्तयती वधम्
ततो महेन्द्रसहितैर्मुनिभिर्भृगुसत्तमः
यथागतं तथा सोऽगान्मामुपामन्त्र्य भारत
ततो रथं समारुह्य स्तूयमानो द्विजातिभिः
प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम्
यथावृत्तं महाराज सा च मां प्रत्यनन्दत
पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि
दिवसे दिवसे ह्यस्या गतिजल्पितचेष्टितम्
प्रत्याहरंश्च मे युक्तास्स्थिताः प्रियहिते सदा
यदैव हि वनं प्रायात्सा कन्या तपसे धृता
तथैव व्यथितो दीनो गतचेता इवाभवम्
न हि मां क्षत्रियः कश्चिद्वीर्येण विजयद्युधि
ऋते ब्रह्मविदस्तात तापसान्संशितव्रतान्
अपि चैतन्मया राजन्नारदे विनिवेदितम्
व्यासे चैव तथा कार्यं तौ चोभौ मामवोचताम्
नारदव्यासौ-
न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्
सा कन्या तु महाराज प्रविश्याश्रममण्डलम्
यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम्
निराहारा कृशा रूक्षा जटिला मलपङ्किनी
षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना
यमुनाजलमाश्रित्य संवत्सरमथापरम्
उदवासं निराहारा पारयामास भामिनी
शीर्णपर्णेन चैकेन पारयामास सा परम्
संवत्सरं तीव्रकोपात्पादाङ्गुष्ठाग्रविष्ठिता
एवं द्वादश वर्षाणि तापयामास रोदसी
निवर्त्यमाना पित्रा च ज्ञातिभिर्नैव शक्यते
ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम्
आश्रमं पुण्यशीलानां तापसानां महात्मनाम्
तत्र पुण्येषु तीर्थेषु सा प्लुताङ्गी दिवानिशम्
व्यचरत्काशिकन्या सा यथाकामविचारिणी
नन्दाश्रमे महाराज तथोलूकाश्रमे शुभे
च्यवनस्याश्रमे चैव ब्रह्मणस्स्थान एव च
प्रयागे देवयजने देवारण्येषु चैव ह
भोगवत्यां महाराज कौशिकस्याश्रमे तथा
माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा
रामाश्रमे च कौरव्य गार्ग्यस्य चाश्रमे
एतेषु तीर्थेषु तदा काशिकन्या विशाम्पते
आप्लावयत गात्राणि व्रतमास्थाय वै तपः
तामब्रवीच्च कौरव्य मम माता जलोत्थिता
गङ्गा-
भीष्मः-
किमर्थं क्लिश्यसे भद्रे तथ्यमेतद्वदस्व मे
सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता
अम्बा-
भीष्मेण समरे रामो निर्जितश्चारुलोचने
कोऽन्यस्तमुत्सहेञ्जेतुमुद्यतेषुं महीपतिः
साऽहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम्
विचरामि महीं देवि यथा हन्यामहं नृपम्
एतद्व्रतफलं देवि परमस्मिन्यथा हि मे
भीष्मः-
ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि
नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाऽबले
यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम्
व्रतस्था तु शरीरं त्वं यदि नाम विमोक्ष्यसि
नदी भविष्यसि शुभे कुटिला वार्षिकोदका
दुस्तीर्था चानभिज्ञाता वार्षिकी नाष्टमासिकी
भीष्मग्राहवती घोरा सर्वभूतभयङ्करी
एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत
माता मम महाभागा स्मयमानेव भामिनी
कदाचिदष्टमे मासि कदाचिद्दशमे तथा
न प्राश्नीतोदकमपि तेपे सा वरवर्णिनी
सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः
पतिता परिधावन्ती पुनः काशिपतेस्सुता
सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत
वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा
सा कन्या तपसा तेन देहार्धेन व्यजायत
नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा