भीष्मः-
ततो हलहलाशब्दो दिवि राजन्महानभूत्
प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन
अयोजयमहं तत्र तदस्त्रं भृगुनन्दने
प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत्
नारदः-
एते वियति कौरव्य दिवि देवगणास्स्थिताः
ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयूयुजः
रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते
तस्यावमानं कौरव्य मा स्म कार्षीः कथञ्चन
भीष्मः-
ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः
ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन्
ब्राह्मणाः-
यदाह भरतश्रेष्ठ नारदस्तत्तथा कुरु
एतद्धि परमं श्रेयो लोकानां भरतर्षभ
भीष्मः-
ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं मृधे
ब्रह्मास्त्रं दीपयाञ्चक्रे तस्मिन्युधि यथाविधि
ततो रामो रुषितो राजसिंह दृष्ट्वा तदस्त्रं विनिवर्तितं वै
जितोऽस्मि भीष्मेण सुमन्दबुद्धिरित्येव वाक्यं सहसा व्यमुञ्चत्
ततोऽपश्यत्पितरं जामदग्न्यः पितुस्तथा पितरं चास्य चान्यान्
ते तत्र चैनं परिवार्य तस्थुरूचुश्चैनं सान्त्वपूर्वं तदानीम्
पितरः-
मा स्मैवं साहसं तात पुनः कार्षीः कथञ्चन
भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः
क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन
स्वाध्यायो व्रतचर्या च ब्राह्मणानां परं धनम्
इदन्निमित्तं कस्मिंश्चिदस्माभिरुपमन्त्रितम्
शस्त्रधारणमत्युग्रं तच्चाकार्यं कृतं त्वया
वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे
विमर्दस्ते महाबाहो व्यपयाहि रणादितः
पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम्
विसर्जयैतद्दुर्धर्षं तपस्तप्यस्व भार्गव
एष भीष्मश्शान्तनवो देवैस्सर्वैर्निवारितः
निवर्तस्व रणादस्मादिति चैव प्रचोदितः
रामेण सह मा योत्सीर्गुरुणेति पुनः पुनः
न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह
मानं कुरुष्व राजेन्द्र ब्राह्मणस्य रणाजिरे
वयं तु गुरवस्तुभ्यं तस्मात्त्वां वारयामहे
भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक
गाङ्गेयश्शन्तनोः पुत्रो वसुरेष महायशाः
कथं शक्यस्त्वया जेतुं निवर्तस्वेह भार्गव
अर्जुनः पाण्डवश्रेष्ठः पुरन्दरसुतो बली
नरः प्रजापतिर्वीरः पूर्वदेवस्सनातनः
सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान्
भीष्ममृत्युर्यथाकालं विहितो वै स्वयम्भुवा
भीष्मः-
एवमुक्तस्स पितृभिः पितॄन्रामोऽब्रवीदिदम्
रामः-
नाहं युधि निवर्तेयमिति मे व्रतमाहितम्
न निवर्तितपूर्वश्च कदाचिद्रणमूर्धनि
निवर्त्यतामापगेयः कामं युद्धात्पितामहाः
न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथञ्चन
मुनयः-
ततस्ते ऋषयो राजन्नृचीकप्रमुखास्तदा
नारदेनैव सहिताः मामागम्येदमब्रुवन्
निवर्तस्व रणात्तात मानयस्व द्विजोत्तमम्
भीष्मः-
नेत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया
मम व्रतमिदं लोके नाहं युद्धात्कदाचन
विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतश्शरैः
नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात्
त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः
ततस्ते मुनयस्सर्वे नारदप्रमुखा नृप
भागीरथी च मे माता रणमध्यं प्रपेदिरे
तथैवात्तशरो धन्वी तथैव दृढनिश्चयः
स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन्
समेत्य सहिता भूयस्समरे भृगुनन्दनम्
मुनयः-
नावनीतं हि हृदयं विप्राणां शाम्य भार्गव
राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम
अवध्यो वै त्वया भीष्मस्त्वं च भीष्मस्य भार्गव
भीष्मः-
एवं ब्रुवन्तस्ते सर्वे प्रतिरुद्ध्य रणाजिरम्
वारयाञ्चक्रिरे शस्त्रं पितरो भृगुनन्दनम्
ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः
अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान्
ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम्
विप्राः-
प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु
भीष्मः-
दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै
लोकानां च हितं कुर्वन्नहमप्याददे वचः
ततोऽहं राममासाद्य ववन्दे भृशविक्षतः
रामश्चाप्युत्स्मयन्प्रेम्णा मामुवाच महातपाः
रामः-
त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः
गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया
भीष्मः-
मम चैव समक्षं तां कन्यामाहूय भार्गवः
उक्तवान्दीनया वाचा मध्ये तेषां महात्मनाम्