भीष्मः-
ततो रात्र्यां व्यतीतायां प्रतिबुद्धोऽस्मि भारत
ततस्सञ्चिन्त्य वै स्वप्नमवापं हर्षमुत्तमम्
ततस्समभवद्युद्धं मम तस्य च भारत
तुमुलं सर्वभूतानां रोमहर्षणमद्भुतम्
ततो बाणमयं वर्षं ववर्ष मयि भार्गवः
न्यवारयमहं तच्च शरजालेन भारत
ततः परमसङ्क्रुद्धः पुनरेव महातपाः
ह्यस्तनेन च कोपेन शक्तिं वै प्राहिणोन्मयि
इन्द्राशनिसमस्पर्शां यमदण्डोपमप्रभाम्
ज्वलन्तीमग्निवत्सङ्ख्ये लेलिहानां समन्ततः
ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा
सा ममाभ्यवधीत्तूर्णं अंसदेशे च भारत
अथासृगस्रवद्घोरं गिरेर्गैरिकधातुवत्
रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण
ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः
प्रैषयं मृत्युसङ्काशं शरं सर्पविषोपमम्
स तेनाभिहतो वीरो ललाटे द्विजसत्तमः
अशोभत महाराज सशृङ्ग इव पर्वतः
स संरब्धस्समावृत्य शरं कालान्तकोपमम्
सन्दधे बलवत्कृष्य घोरं शत्रुनिबर्हणम्
स वक्षसि पपातोग्रश्शरो व्याल इव श्वसन्
महीं राजंस्ततश्चाहमगमं रुधिराविलः
सम्प्राप्य तु पुनस्सञ्ज्ञां जामदग्न्याय धीमते
प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव
सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे
विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत्
तत एनं परिष्वज्य सखा विप्रो महातपाः
अकृतव्रणश्शुभैर्वाक्यैराश्वासयदनेकधा
समाश्वस्तस्ततो रामः क्रोधामर्षसमन्वितः
प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः
ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम्
मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत्
तयोर्ब्रह्मास्त्रयोरासीदन्तरा खे समागमः
असम्प्राप्यैव रामं च मां च भारतसत्तम
ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम्
भूतानि चैव सर्वाणि जग्मुरार्तिं विशाम्पते
ऋषयश्च सगन्धर्वा देवताश्चैव भारत
सन्तापं परमं जग्मुरस्त्रतेजोभिपीडिताः
ततश्चचाल पृथिवी सपर्वतवनद्रुमा
सन्तप्तानि च भूतानि विषादं जग्मुरुत्तमम्
प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश
न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा
ततो हाहाकृते लोके सदेवासुरराक्षसे
इदमन्तरमित्येवं मोक्तुकामोऽस्मि भारत
प्रस्वापमस्त्रं दयितं वचनाद्ब्रह्मवादिनाम्
चिन्तितं च तदाऽस्त्रं मे मनसा प्रत्यभात्तदा