भीष्मः-
ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा
ब्राह्मणानां पितॄणां च देवतानां च सर्वशः
नक्तञ्चराणां भूतानां राजन्याश्च विशाम्पते
शयनं प्राप्य सहसा मनसा संविचिन्तयम्
जामदग्न्येन मे युद्धमिदं परमदारुणम्
अहानि च बहून्यद्य वर्तते सुमहात्ययः
न च रामं महावीर्यं शक्नोमि रणमूर्धनि
विजेतुं समरे विप्रं जामदग्न्यं महाबलम्
यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान्
दैवतानि प्रसन्नानि दर्शयन्तु निशां मम
ततो निशि च राजेन्द्र प्रसुप्तश्शरविक्षतः
दक्षिणेनेह पार्श्वेन प्रभातसमये तदा
ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात्
उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः
त एव मां महाभाग स्वप्ने दर्शनमेत्य वै
परिवार्याब्रुवन्वाक्यं तन्निबोध कुरूद्वह
ऋषयः-
उत्तिष्ठ मा भैर्गाङ्गेय भयं ते नास्ति किञ्चन
रक्षामहे नरव्याघ्र स्वशरीरं हि नो भवान्
न त्वां रामो रणे जेता जामदग्न्यः कथञ्चन
त्वमेव समरे रामं विजेता भरतर्षभ
इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान्
उपस्थास्यति राजेन्द्र स्वयमेव तवानघ
येन शत्रून्महावीर्यान्प्रशासिष्यसि कौरव
विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे
प्राजापत्यं विश्वकृतं सुस्वापं नाम भारत
न हीदं वेद रामोऽपि पृथिव्यां वा पुमान्क्वचित्
तत्स्मरस्व महाबाहो भृशं संयोजयस्व च
न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप
एनसा न तु संयोगं प्राप्स्यसे जातु मानद
स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः
ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि
अस्त्रेण दयितेनाजौ भीष्म सम्बोधनेन वै
एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः
प्रसुप्तं वा मृतं वेति तुल्यं मन्यामहे वयम्
न च रामेण मर्तव्यं कदाचिदपि पार्थिव
ततस्समुत्पन्नमिदं प्रस्वापं युज्यतामिति
भीष्मः-
इत्युक्त्वाऽन्तर्हिता राजन्सर्व एव द्विजोत्तमाः
अष्टौ सदृशरूपास्ते सर्वे भासुरमूर्तयः