भीष्मः-
आत्मनस्तु ततस्सूतो हयानां च विशाम्पते
मम चापनयामास शल्यान्कुशलसम्मतः
स्नातापवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः
प्रभाते चोदिते सूर्ये ततो युद्धमवर्तत
दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्
अकरोद्रथमत्यर्थं रामस्सज्जं प्रतापवान्
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम्
धनुश्श्रेष्ठं समुत्सृज्य सहसावतरं रथात्
अभिवाद्य तथैवाहं रथमारुह्य भारत
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीस्स्थितः
ततो मां शरवर्षेण महता समवाकिरत्
अहं च शरवर्षेण वर्षन्तं समवाकिरम्
सङ्क्रुद्धो जामदग्न्यस्तु पुनरेव पतत्रिणः
प्रेषयामास मे राजन्दीप्तास्यानुरगानिव
तानहं निशितैर्भल्लैश्शतशोऽथ सहस्रशः
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान्
मयि प्रयोजयामास तान्यहं प्रत्यषेधयम्
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकक्रियाम्
ततो दिवि महान्नादः प्रादुरासीत्समन्ततः
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्
प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत
ततोऽहमस्त्रमाग्नेयमनुमन्त्र्य प्रयुक्तवान्
वारुणेनैव तद्रामो वारयामास मे विभुः
एवमस्त्राणि दिव्यानि रामस्याहमवारयम्
रामश्च मम तेजस्वी दिव्यान्यस्त्राणि संयुगे
ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः
उरस्यविध्यत्संरब्धः जामदग्न्यो महाबलः
ततोऽहं भारतश्रेष्ठ सन्न्यषीदं रथोत्तमे
ततो मां कश्मलाविष्टं सूतस्तूर्णमुदावहत्
विह्वलं भरतश्रेष्ठ रामबाणप्रपीडितम्
ततो मामपयातं वै भृशं विद्धमचेतसम्
रामस्यानुचरा हृष्टास्सर्वे दृष्ट्वा विचुक्रुशुः
अकृतव्रणप्रभृतयः काशिकन्या च भारत
ततस्तु लब्धसञ्ज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम्
याहि सूत यतो रामस्सज्जोऽहं गतवेदनः
ततो मामवहत्सूतो हयैः परमशोभितैः
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ
ततोऽहं राममासाद्य बाणजालेन कौरव
अवाकिरं सुसंरब्धस्संरब्धं च जिगीषया
तानापतत एवासौ रामो बाणानजिह्मगान्
बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे
ततस्ते सूदितास्सर्वे मम बाणास्सुसंशिताः
रामबाणैर्द्विधा च्छिन्नाश्शतशोऽथ महाहवे
ततः पुनश्शरं दीप्तं सुप्रभं कालसम्मितम्
असृजं जामदग्न्याय रामायाहं जिघांसया
तेन त्वभिहतो गाढं बाणवेगवशं गतः
मुमोह समरे रामो भूमौ च निपपात ह
ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते
जगद्भारत संविग्नं यथाऽर्कपतने तथा
तत एनं समुद्विग्नास्सर्व एवाभिदुद्रुवुः
तपोधनास्ते सहसा काश्या च कुरुनन्दन
तत एनं परिष्वज्य शनैराश्वासयंस्तदा
पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव
ततस्स विह्वलं वाक्यं राम उत्थाय चाब्रवीत्
तिष्ठ भीष्म हतोऽसीति बाणं सन्धाय कार्मुके
स मुक्तो न्यपतत्तूर्णं सव्ये पार्श्वे महाहवे
तेनाहं भृशमुद्विग्नो व्याघूर्णित इव द्रुमः
हत्वा हयांस्ततो रामश्शीघ्रास्त्रेण महाहवे
अवाकिरन्मां विस्रब्धं बाणैस्तैर्लोमवापिभिः
ततोऽहमपि शीघ्रास्त्रं समरप्रतिवारणम्
अवासृजं महेष्वासं तेऽन्तरा विष्ठिताश्शराः
रामस्य च ममैवाशु व्योमावृत्य समन्ततः
न स्म सूर्यः प्रतपति शरजालसमावृतः
मातरिश्वाऽन्तरे तस्मिन्मेघरुद्ध इवानदत्
ततो वायोः प्रकम्पाच्च सूर्यस्य च गभस्तिभिः
अभिपातात्स्वभावाच्च पावकस्समजायत
ते शरास्सुसमिद्धेन प्रदीप्ताश्चित्रभानुना
भूमौ सर्वे तदा राजन्भस्मीभूताः प्रपेदिरे
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च
अयुतान्यथ खर्वाणि निखर्वाणि च कौरव
रामश्शराणां सङ्क्रुद्धो मयि तूर्णं न्यपातयत्
ततोऽहं तानपि रणे शरैराशीविषोपमैः
सञ्छिद्य भूमौ नृपतेऽपातयं पन्नगानिव
एवं तदभवद्युद्धं तदा भरतसत्तम
सन्ध्याकाले व्यतीते तु व्यपायात्समराद्गुरुः