भीष्मः-
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः
आरोह स्यन्दनं वीर कवचं च महाभुज
बधान समरे राम यदि योद्धुं मिहेच्छसि
ततो मामब्रवीद्रामस्स्मयमानो रणाजिरे
रामः-
रथो मे मेदिनी भीष्म वाहा वेदास्सदश्ववत्
सूतश्च मातरिश्वा वै कवचं वेदमातरः
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन
भीष्मः-
एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः
शरव्रातेन महता सर्वतः प्रत्यवारयत्
ततोऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम्
सर्वायुधधरे श्रीमत्यद्भुतोपमदर्शने
मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे
दिव्याश्वयुजि सन्नद्धे कवचेन विभूषिते
ध्वजेन च महाबाहो सोमार्ककृतलक्ष्मणा
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान्
सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह
आह्वयानस्स मां युद्धे मनो हर्षयतीव मे
पुनः पुनरपि क्रोशन्याहियाहीति भार्गवः
तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम्
क्षत्रियान्तकरं राममेकमेकस्समासदम्
ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै
अवतीर्य धनुर्न्यस्य पदातिर्ऋषिसत्तमम्
अभ्यागच्छं तदा राममर्चिष्यन्द्विजसत्तमम्
अभिवाद्य चैनं विधिवदब्रवं वाक्यमुत्तमम्
योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च
गुरुणा धर्मशीलेन जयमाशास्व मे विभो
रामः-
एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता
धर्मो ह्येष महाबाहो विशिष्टैस्सह युध्यताम्
शपेयं त्वां न चेदेवमागच्छेथा विशाम्पते
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव
न तु ते जयमाशंसे त्वां विजेतुमहं स्थितः
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते
भीष्मः-
ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः
प्राध्मापयं रणे शङ्खं पुनर्हेमपरिष्कृतम्
ततो युद्धं समभवन्मम तस्य च भारत
दिवसान्सुबहून्राजन्परस्परजिगीषया
स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्कपत्रिभिः
षष्ट्या शतैश्च नवभिश्शराणामग्निवर्चसाम्
चत्वारस्तेन मे वाहास्सूतश्चैव विशाम्पते
प्रतिरुद्धास्तथैवाहं समरे दंशितस्स्थितः
नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यो विशेषतः
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्
आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि
भूयश्च शृणु मे ब्रह्मंस्सम्पदं धर्मसङ्ग्रहे
एते वेदाश्शरीरस्था ब्राह्मण्यं यच्च ते महत्
तपश्च ते महत्तप्तं न तेभ्यः प्रहराम्यहम्
प्रहरे क्षत्रधर्मं तं यं त्वं राम समाश्रितः
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात्
पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं च मे
एष ते कार्मुकं वीर छिनद्मि निशितेषुणा
तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ
तेनास्य धनुषः कोटिश्छिन्ना भूमावपातयम्
नव चापि पृषत्कानां शतानि नतपर्वणाम्
प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति
काये विषक्तास्तु तदा वायुना समुदीरिताः
चेलुः क्षरन्तो रुधिरं नागा इव वसुन्धराम्
क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं रणे
बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन्
हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः
बभौ रामस्तदा राजन्क्वचित्किंशुकसन्निभः
ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः
हेमपुङ्खान्सुनिशिताञ्शरांस्तान्प्रववर्ष सः
ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः
अकम्पयन्महावेगास्सर्पाननविषोपमाः
तमहं समवष्टभ्य पुनरात्मानमाहवे
शतसङ्ख्यैश्शरैः क्रुद्धस्तदा राममवाकिरम्
स तैरग्न्यर्कसङ्काशैश्शरैराशीविषोपमैः
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत्
ततोऽहं कृपयाऽऽविष्टो विनिन्द्यात्मानमात्मना
धिग्धिगित्यब्रुवं युद्धं क्षत्रधर्मं च भारत
असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः
अहो बत कृतं पापं मयेदं क्षत्रधर्मणा
गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितश्शरैः
ततोऽहं प्राहरं भूयो जामदग्न्याय भारत
अथापतत्स पृथिवीं पूषा दिवससङ्क्षये
जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत्