भीष्मः-
रामः-
ततो मामब्रवीद्रामः प्रहसन्निव भारत
दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि सङ्गरे
अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह
भाषितं ते करिष्यामि तत्रागच्छेः परन्तप
तत्र त्वां निहतं माता मया शरशताचितम्
जाह्नवी पश्यतां भीष्म गृध्रकङ्कबलाशनम्
कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता
मया विनिहतं देवी रुदतामद्य पार्थिव
अतदर्हा महाभागा भगीरथसुता नदी
या त्वामजीजनन्मन्दं युद्धकामुकमातुरम्
एहि गच्छ मया भीष्म युद्धमद्यैव वर्तताम्
गृहाण सर्वं कौरव्य रथादि भरतर्षभ
भीष्मः-
इति ब्रुवाणं तमहं रामं परपुरञ्जयम्
प्रणम्य शिरसा पादावेवमस्त्वित्यथाब्रुवम्
एवमुक्तो ययौ रामः कुरुक्षेत्रं युयुत्सया
प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम्
ततः कृतस्वस्त्ययनो मात्रा च प्रतिनन्दितः
द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते
रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः
सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम्
उपपन्नं महाशस्त्रैस्सर्वोपकरणान्वितम्
तत्कुलीनेन वीरेण हयशास्त्रविदा नृप
यत्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा
दंशितः पाण्डुरेणाहं कवचेन वपुष्मता
पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
व्यजनैः पाण्डुरैश्चापि वीज्यमानो नराधिप
शुक्लवासास्सितोष्णीषस्सर्वशुक्लविभूषणः
स्तूयमानो जयाशीर्भिर्निष्क्रम्य गजसाह्वयात्
कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ
ते हयाश्चोदितास्तेन सूतेन परमाहवे
अवहन्मां भृशं राजन्मनोमारुतरंहसः
गत्वाऽहं तत्कुरुक्षेत्रं स च रामः प्रतापवान्
युद्धाय सहसा राजन्पराक्रान्तौ परस्परम्
ततस्सन्दर्शने तिष्ठन्रामस्यातितपस्विनः
प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम्
ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः
प्रापश्यन्त रणं दिव्यं देवास्सेन्द्रगणास्तदा
ततो दिव्यानि माल्यानि प्रादुरासन्मुहुर्मुहुः
वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह
ततस्ते तापसास्सर्वे भार्गवस्यानुयायिनः
प्रेक्षकास्समपद्यन्त परिवार्य रणाजिरम्
ततो मामब्रवीद्देवी सर्वभूतहितैषिणी
माता स्वरूपिणी राजन्किमिदं ते चिकीर्षितम्
गत्वाऽहं जामदग्न्यं तु प्रयाचिष्ये कुरूद्वह
भीष्मेण सह मा योत्सीश्शिष्येणेति पुनः पुनः
मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव
जामदग्न्येन समरे योद्धुमित्यवभर्त्सयत्
किं नु वै क्षत्रियहणो हरतुल्यपराक्रमः
विदितः पुत्र रामस्ते यतस्त्वं योद्धुमिच्छसि
ततोऽहमब्रवं देवीमभिवाद्य कृताञ्जलिः
सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे
यथा च रामो राजेन्द्र मया पूर्वं प्रचोदितः
काशिराजसुतायाश्च यथा कर्म पुरातनम्
ततस्सा राममभ्येत्य जननी मे महानदी
मदर्थं तमृषिं देवी क्षमयामास भार्गवम्
भीष्मेण सह मा योत्सीश्शिष्येणेति वचोऽब्रवीत्
स च तामाह याचन्तीं भीष्ममेव निवर्तय
न च मे कुरुते काममित्यहं तमुपागमम्
ततो गङ्गा सुतस्नोहान्मां सा पुनरुपागमत्
नास्या अकरवं वाक्यं क्रोधपर्याकुलेक्षणः
अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः
आह्वयामास च तदा युद्धाय द्विजसत्तमः