भीष्मः-
ततस्तृतीये दिवसे समे देशे व्यवस्थितः
प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः
तमागतमहं श्रुत्वा विषयान्तं महाबलम्
अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम्
गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः
ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः
स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान्
प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत्
रामः-
भीष्म कां बुद्धिमास्थाय काशिराजसुता त्वया
अकामेयमिहानीता पुनश्चैव विसर्जिता
विभ्रंशिता त्वया हीयं धर्मादास्ते यशस्विनी
परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति
प्रत्याख्याता हि साल्वेन त्वया नीतेति भारत
तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत
स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम्
न युक्तमववमानोऽयं राज्ञां कर्तुं त्वयाऽनघ
भीष्मः-
ततस्तं वै विमनसमुदीक्ष्याहमथाब्रुवम्
नाहमेनां पुनर्दद्यां ब्रह्मन्भ्रात्रे कथञ्चन
साल्वस्याहमिति प्राह पुरा मामेव भार्गव
मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति
न भयान्नाप्यनुक्रोशान्न लोभान्नर्थकाम्यया
क्षात्रं धर्ममहं जह्यामिति मे व्रतमाहितम्
अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः
न करिष्यसि चेदेतद्वाक्यं मे नरपुङ्गव
हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः
संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः
तमहं गीर्भिरिष्टाभिः पुनः पुनररिन्दम
अयाचं भृगुशार्दूलं न चैव प्रशशाम सः
यदा प्रयाच्यमानोऽपि प्रसादं न करोति मे
प्रणम्य तमहं मूर्ध्ना भूयो ब्राह्मणसत्तमम्
अब्रुवं कारणं किं तद्यत्त्वं योद्धमिहेच्छसि
इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम्
उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव
ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः
रामः-
जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे
सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते
न हि मे विद्यते शान्तिरन्यथा कुरुनन्दन
गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः
त्वया विभ्रंशिता हीयं भर्तारं नाधिगच्छति
भीष्मः-
तथा ब्रुवन्तं तमहं रामं परपुरञ्जयम्
नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते
गुरुत्वं त्वयि सम्प्रेक्ष्य जामदग्न्य पुरातनम्
प्रसादये त्वां भगवंस्त्यक्तैषा तु पुरा मया
को जातु परभावां हि नारीं व्यालीमिव स्थिताम्
वासयेत गृहे जानन्स्त्रीणां दोषान्महात्ययान्
न भयाद्वासवस्यापि धर्मं जह्यां महाव्रत
प्रसीद मा वा यद्वा ते कार्यं तत्कुरु मा चिरम्
अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो
मरुत्तेन महाबुद्धे गीतश्श्लोको महात्मना
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्
स त्वं गुरुरिति प्रेम्णा मया सम्मानितो भृशम्
गुरुवृत्तिं न जानीषे तस्माद्योत्स्यामि वै त्वया
गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः
विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव
उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत्
यो हन्यात्समरे क्रुद्धं युध्यन्तमपलायिनम्
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः
क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन
यो यथा वर्तते यस्मिंस्तस्मिन्नेव प्रवर्तयन्
नाधर्मं समवाप्नोति नरश्श्रेयश्च विन्दति
अर्थे वा यदि वा धर्मे समर्थो देशकालवित्
अनर्थे संशयापन्नश्श्रोयान्निस्संशयो नरः
तस्मात्संशयितेऽप्यर्थे यथान्यायं प्रवर्तसे
तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे
पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम्
एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन
तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह
द्वन्द्वे राम यथेष्टं मे सज्जीभव महाद्युते
तत्र त्वं निहतो राम मया शरशतार्दितः
प्राप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो मया रणे
सङ्गच्छ विनिवर्तस्व कुरुक्षोत्रं रणप्रिय
समाह्वय महाबाहो युद्धाय त्वां तपोधन
अपि यत्र त्वया राम कृतं शौचं पुरा पितुः
तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव
तत्र राम स गच्छ त्वं त्वरितं युद्धदुर्मदः
व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव
यच्चापि कत्थसे राम बहुशः परिषत्सु वै
निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छ्रृणु
न तदा जातवान्भीष्मः क्षत्रियोऽपि हि मद्विधः
पञ्चाञ्जातानि तेजांसि तृणेषु ज्वलितं यथा
यस्ते युद्धगतं दर्पं कामं च व्यपनाशयेत्
सोऽहं जातो महाबाहो भीष्मः परपुरञ्जयः
व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः