भीष्मः-
अम्बा-
निष्क्रामन्ती सा नगराच्चिन्तयामास भारत
पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया
बन्धुर्भिर्विप्रहीणाऽस्मि साल्वेन च निराकृता
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम्
अनुज्ञाता तु भीष्मेण साल्वमुद्दिश्य कारणम्
किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम्
अहोस्वित्पितरं मूढं यो मेऽकार्षीत्स्वयंवरम्
ममायं स्वकृतो दोषो याऽहं भीष्मरथात्तदा
प्रवृत्ते वैशसे युद्धे साल्वार्थं नापतं पुरा
तस्येयं फलनिर्वृत्तिर्यदापन्नाऽस्मि मूढवत्
धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम्
येनाहं वीर्यशुल्केति पण्यस्त्रीवत्प्रवेशिता
धिङ्मां धिक्साल्वराजानं धिग्धातारमथापि वा
येषां दुर्नीतभावेन प्राप्ताऽस्म्यापदमुत्तमाम्
सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः
अनयस्यास्य तु मुखं भीष्मश्शान्तनवो मम
सा भीष्मे प्रतिकर्तव्यमहं पश्यामि साम्प्रतम्
तपसा वा युधा वापि दुःखहेतुस्स मे मतः
को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः
भीष्मः-
एवं सा परिनिश्चित्य जगाम नगराद्बहिः
आश्रमं पुण्यशीलानां तापसानां महात्मनाम्
ततस्तामवसद्रात्रिं तापसैः परिपालिता
आचख्यौ च यथावृत्तं सर्वमात्मनि भारत
विस्तरेण महाबाहो निखिलेन शुचिस्मिता
हरणं च विसर्गं च साल्वेन च विसर्जनम्
ततस्तत्र महानासीद्ब्राह्मणस्संशितव्रतः
शैखावत्यस्तपोवृद्धश्शास्त्रे चारण्यके गुरुः
आर्तां तामाह स मुनिश्शैखावत्यो महातपाः
निश्श्वसन्तीं स तां बालां दुःखशोकपरायणाम्
शैखावत्यः-
एवं गते तु किं भद्रे शक्यं कर्तुं तपस्विभिः
आश्रमस्थैर्महाभागैस्तपोयुक्तैर्महात्मभिः
भौष्मः-
सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः
प्राव्राजितुमिहेमिच्छामि तपस्तप्स्यामि दुश्चरम्
मयैव यानि कर्माणि पूर्वदेहेषु मूढया
कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम्
नोत्सहेऽहं पुनर्गन्तुं स्वजनं प्रति तापसाः
प्रत्याख्याता निरानन्दा साल्वेन च निराकृता
उपदिष्टमिहेच्छामि तपसे वीतकल्मषाः
युष्माभिर्देवसङ्काशैः कृपा भवतु वो मयि
स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः
सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैस्सह