भीष्मः-
ततोऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा
मन्त्रिणश्चर्त्विजश्चैव तथैव च पुरोहितान्
समनुज्ञासिषं कन्यामम्बां ज्येष्ठां नराधिप
अनुज्ञाता ययौ सा तु कन्या साल्वपतेः पुरम्
वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा
अतीत्य च तमध्वानमासमाद नराधिपम्
सा तमासाद्य राजानं साल्वं वचनमब्रवीत्
अम्बा-
आगताऽहं महाबाहो त्वामुद्दिश्य महामते
अभिनन्दस्व मां राजन्सदा प्रियहिते रताम्
प्रतिपादय मां राजन्धर्मार्थं चैव धर्मतः
त्वं हि मे मनसा ध्यातस्त्वया चाप्युपमन्त्रिता
भीष्मः-
साल्वः-
तामब्रवीत्साल्वपतिस्स्मयन्निव विशाम्पते
त्वयाऽन्यपूर्वया नाहं भार्यार्थी वरवर्णिनि
गच्छ भद्रे पुनस्तत्र सकाशं भीष्मकस्य वै
नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै
त्वं हि भीष्मेण निर्जित्य नीता प्रीतिमती तदा
परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन्
नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत्
नारीं विदितविज्ञानः परेषां धर्ममादिशन्
यथेष्टं गम्यतां भद्रे मा त्वां कालोऽत्यगादयम्
भीष्मः-
अम्बा-
अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता
नैवं वद महीपाल नैतदेवं कथञ्चन
नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन
बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन्
भजस्व मां साल्वपते भक्तां बालामनागसीम्
भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते
साऽहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम्
अनुज्ञाता च तेनैव ततोऽहं भृशमागता
न स भीष्मो महाबाहुर्मामिच्छति विशाम्पते
भ्रातृहेतोस्समारम्भो भीष्मस्येति श्रुतं मया
भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप
प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे
यथा साल्वपते नान्यं नरं यामि कथञ्चन
त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे
न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता
सत्यं ब्रवीमि साल्वैतत्सत्येनात्मानमालभे
भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम्
अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम्
भीष्मः-
तामेवं भाषमाणां तु साल्वः काशिपतेस्सुताम्
अत्यजद्भरतश्रेष्ठ जीर्णां त्वचमिवोरगः
एवं बहुविधैर्वाक्यैर्याच्यमानस्तयाऽनघ
नाश्रद्दधत्साल्वपतिः कन्यायां भरतर्षभ
ततस्सा मन्युनाऽऽविष्टा ज्येष्ठा काशिपतेस्सुता
अब्रवीत्साश्रुनयना बाष्पविह्वलया गिरा
अम्बा-
त्वया युक्ता गमिष्यामि यत्र तत्र विशाम्पते
तत्र मे सन्तु गतयस्सन्तस्सत्यं यथा ध्रुवम्
भीष्मः-
एवं तां भाषमाणां तु नृशंसस्साल्वराट्तदा
परितत्याज कौरव्य करुणं परिदेविनीम्
गच्छ गच्छेति तां साल्वः पुनः पुनरभाषत
बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः
एवमुक्ता तु सा तेन साल्वेनादीर्घदर्शिना
निश्चक्राम पुराद्दीना रुदती कुररी यथा॥