भीष्मः-
ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम्
अभिगम्योपसङ्गृह्य दाशेयीमिदमब्रवम्
इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान्
विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः
ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप
आह सत्यवती हृष्टा दिष्ठ्या पुत्र जितं त्वया
सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते
उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेस्सुता
अम्बा-
भीष्म त्वमसि धर्मज्ञस्सर्वशास्त्रविशारदः
श्रुत्वा च वचनं मह्यं धर्म्यं कर्तुमिहार्हसि
मया साल्वपतिः पूर्वं मनसाऽभिवृतो वरः
तेन चापि वृता पूर्वं रहस्यविदिते पितुः
कथं मामन्यकामां त्वं राजधर्ममतीत्य वै
वासयेथा गृहे भीष्म कौरवस्सन्विशेषतः
एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ
यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि
स मां प्रतीक्षते वोडुं साल्वराजो विशाम्पते
तस्मान्मां त्वं कुरुश्रेष्ठ समनुज्ञातुमर्हसि
कृपां कुरु महाबाहो मयि धर्मभृतां वर
त्वं हि सत्यव्रतो वीरः पृथिव्यामिति नश्श्रुतम्