दुर्योधनः-
किमर्थं भरतश्रेष्ठ नैव हन्यााश्शिखण्डिनम्
उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम्
पूर्वमुक्त्वा महाबाहो पाण्डन्सह सोमकैः
हनिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह
भीष्मः-
शृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः
यदर्थं युधि सम्प्रेक्ष्य नाहं हन्यां शिखण्डिनम्
महाराजो मम पिता शान्तनुर्भरतर्षभः
दिष्टान्तमाप धर्मात्मा समये भरतर्षभ
ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन्
चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम्
तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः
विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि
मयाऽभिषिक्तो राजेन्द्र यवीयानपि धर्मतः
विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत
तस्य दारक्रियां तात चिकीर्षुरहमुद्यतः
अनुरूपादिव कुलादित्येव च मनो दधे
अथाऽश्रौषं महाबाहो तिस्रः कन्यास्स्वयंवरे
रूपेणाप्रतिमास्सर्वाः काशिराजसुतास्तदा
अम्बां चैवाम्बिकां चैव तथैवाम्बालिकामपि
राजानश्च समाहूताः पृथिव्यां भरतर्षभ
अम्बा ज्येष्ठाऽभवत्तासामम्बिका त्वथ मध्यमा
अम्बालिका च राजेन्द्र राजकन्या यवीयसी
सोऽहमेकरथेनैव गतः काशीपतेः पुरीम्
अपश्यं ता महाबाहो तिस्रः कन्यास्स्वलङ्कृताः
राज्ञश्चैव समावृत्तान्पार्थिवान्पृथिवीपते
ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान्
रथमारोपयाञ्चक्रे कन्यास्ता भरतर्षभ
वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा
अवोचं पार्थिवान्सर्वानहं तत्र समागतान्
भीष्मश्शान्तनवः कन्या हरतीति पुनः पुनः
ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः
प्रसह्य हि हराम्येष मिषतां वो नरर्षभाः
योगो योग इति क्रुद्धास्सारथींश्चाप्यचोदयन्
ते रथैर्मेधसङ्काशैर्गजैश्च गजयोधिनः
उष्ट्रैश्चाश्वैर्महेष्वासास्समुत्पेतुरुदायुधाः
ततस्ते पृथिवीपालास्सर्व एव विशाम्पते
रथव्रातेन महता सर्वतः पर्यवारयन्
तानहं शरवर्षेण महता प्रत्यवारयम्
सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान्
अपातयं शरैर्दीप्तैः प्रहसन्भरतर्षभ
तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान्
एकैकेन हि बाणेन भूमौ पातितवानहम्
हयांस्तेषां गजांश्चैव सारथींश्चाप्यहं रणे
अपातयं शरैश्चैव प्रहसन्पुरुषर्षभ
ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं च मे
प्रणिपेतुश्च सर्वे वै प्रशशंसुश्च पार्थिवाः
तत आदाय ताः कन्या नृपतींश्च विसृज्य तान्
ततोऽहं हास्तिनपुरमागां जित्वा महीक्षितः
ततोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत
तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम्