भीष्मः-
रोचमानो महाराज पाण्डवानां महारथः
योत्स्यतेऽमरवत्सङ्ख्ये परसैन्येषु भारत
पुरुजित्कुन्तिभोजश्च महेष्वासो महारथः
मातुलो भीमसेनस्य स च मेऽतिरथो मतः
एष वीरो महेष्वासः कृती च निपुणश्च ह
चित्रयोधी च शक्तश्च मतो मे रथपुङ्गवः
स योत्स्यति हि विक्रम्य मघवानिव दानवैः
योधा ये चास्य विख्यातास्सर्वे युद्धविशारदाः
भागिनेयकृते वीर स करिष्यति सङ्गरम्
सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते रतः
भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः
मतो मे बहुमायावी रथयूथपयूथपः
योत्स्यते समरे तात मायाभिस्समरप्रियः
ये चास्य राक्षसा वीरास्सचिवा वशवर्तिनः
एते चान्ये च बहवो नानाजनपदेश्वराः
समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः
एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः
रथाश्चातिरथाश्चैव ये चान्येऽर्धरथा मताः
नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप
महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना
तैरहं समरे वीर मायाविद्भिर्जयैषिभिः
योत्स्यामि जयमाकाङ्क्षन्नथवा निधनं रणे
वासुदेवं च पार्थं च चक्रगाण्डीवधारिणौ
सन्ध्यागताविवार्केन्दू समेष्येते पुरुषोत्तमौ
ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः
सहसैन्यानहं तांश्च समेष्ये रणमूर्धनि
एते रथाश्चातिरथाश्च तुभ्यं यथाप्रधानं नृप कीर्तिता मया
तथा परे येऽर्धरथाश्च केचित्तथैव तेषामपि कौरवेन्द्र
अर्जुनं वासुदेवं च ये चान्ये तत्र पाणडवाः
सर्वानावारयिष्यामि यावद्द्रक्ष्ये शिखण्डिनम्
पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम्
उद्यतेषुमभिप्रेक्षे प्रतियुध्यन्तमाहवे
लोकस्तं वेद यदहं पितुः प्रियचिकीर्षया
प्राप्तं राज्यं परित्यज्य ब्रह्मचर्ये धृतव्रतः
चित्राङ्गदं कौरवाणामाधिपत्येऽभ्यषेचयम्
विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम्
देवव्रतत्वं विख्यातं पृथिव्यां सर्वराजसु
नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कदाचन
स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः
कन्या भूत्वा पुमाञ्जातो न योत्स्ये तेन भारत
सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ
यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप