भीष्मः-
पाञ्चालराजस्य सुतो राजन्परपुरञ्जयः
शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत
एष योत्स्यति सङ्ग्रामे नाशयन्पूर्वसंस्थितम्
वैरं योऽसौ विप्रथयंस्तव सेनासु भारत
एतस्य बहुलास्सेनाः पाञ्चालाश्च प्रभद्रकाः
सेनाऽसौ रथवंशेन महत्कर्म करिष्यति
धृष्टद्युम्नश्च सेनानीस्सर्वसेनासु भारत
मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः
एष योत्स्यति सङ्ग्रामे सूदयन्वै परान्बहून्
भगवानिव सङ्क्रुद्धः पिनाकी युगसङ्क्षये
एतस्य तद्रथानीकं कथयन्ति रणप्रियाः
बहुत्वात्सागरप्रख्यं देवानामिव संयुगे
धृतवर्मा तु राजेन्द्र मतो मेऽर्धरथो महान्
धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः
शिशुपालसुतो वीरश्चेदिराजो महारथः
धृष्टकेतुर्महेष्वासस्सम्बन्धी पाण्डवस्य ह
एष चेदिपतिश्शूरस्सह पुत्रेण भारत
महारथानां सुकरं महत्कर्म करिष्यति
क्षत्रधर्मरतो मह्यं मतः परपुरञ्जयः
क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः
जयन्तश्चामितौजाश्च सत्यजिच्च महारथः
महारथा महात्मानस्सर्वे पाञ्चालसत्तमाः
योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः
अजो भोजश्च विक्रान्तौ पाण्डवेषु महारथौ
योत्स्येते बलिनौ वीरौ परं शक्त्या यतिष्यतः
शीघ्रास्त्राश्चित्रयोद्धारः कृतिनो दृढविक्रमाः
केकयाः पञ्च राजेन्द्र भ्रातरो युद्धदुर्मदाः
सर्वे चैव रथोदारास्सर्वे लोहितकध्वजाः
कौशिकस्सुकुमारश्च नीलो यश्चापरो नृप
सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः
सर्व एते रथोदारास्सर्वे चाहवलक्षणाः
सर्वास्त्रविदुषस्सर्वे महात्मानो मता मम
वार्धक्षेमिर्महाराज रथो मम महान्मतः
चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः
स हि सङ्ग्रामशोभी च भक्तश्चापि किरीटिनः
चेकितानस्सत्यधृतिः पाण्डवानां महारथौ
द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम
व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत
मतौ मम रथोदारौ पाण्डवानां न संशयः
सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः
यस्समो वासुदेवेन भीमसेनेन चाभिभूः
स योत्स्यति हि विक्रम्य समरे तव सैनिकैः
मां च द्रोणं कृपं चैव यथा सम्मन्यते भवान्
तथा स समरश्लाघी मन्तव्यो रथसत्तमः
काश्यः परमशीघ्रास्त्रश्श्लाघनीयो रथोत्तमः
रथ एकगुणो मह्यं ज्ञेयः परपुरञ्जयः
स्वयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः
सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा
गतस्सोऽतिरथत्वं हि धृष्टद्युम्नेन सम्मितः
पाण्डवानां यशस्कामः परं कर्म करिष्यति
अनुरक्ताश्च शूरश्च रथोऽयमपरो महान्
पाण्ड्यराजो महावीर्यः पाण्डवानां धुरन्धरः
दृढधन्वा महेष्वासः पाण्डवानां महारथः
श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः
उभावेतावतिरथौ मतौ परपुरञ्जयौ