भीष्णः-
द्रौपदेया महाराज सर्वे पञ्च महारथाः
वैराटिरुत्तरश्चैव रथो मम महान्मतः
अभिमन्युर्महाबाहू रथयूथपयूथपः
समः पार्थेन समरे वासुदेवेन वा भवेत्
लघ्वस्त्रश्चित्रयोधी च मनस्वी दृढविक्रमः
संस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति
सात्यकिर्माधवश्शूरो रथयूथपयूथपः
एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः
उत्तमौजास्तथा राजन्रथो मम महान्मतः
युधामन्युश्च विक्रान्तो रथोदारो नरर्षभः
एतेषां बहुसाहस्रा रथा नागा हयास्तथा
योत्स्यन्ते ते तनुं त्यक्त्वा कुन्तीपुत्रप्रियेप्सया
पाण्डवैस्सह राजेन्द्र तव सेनासु भारत
अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम्
अजेयौ समरे वृद्धौ विराटद्रुपदावुभौ
महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ
वयोवृद्धावपि हि तौ क्षत्रधर्मपरायणौ
यतिष्येते परं शक्त्या स्थितौ वीरगते पथि
सम्बन्धिकेन राजेन्द्र तौ तु वीर्यबलान्वयात्
आर्यवृत्तौ महेष्वासौ स्नेहपाशयुतावुभौ
कारणं प्राप्य तु नरास्सर्व एव महाभुजाः
शूरा वा कातरा वाऽपि भवन्ति नरपुङ्गवाः
एकायनगतावेतौ पार्थिवौ दृढधन्विनौ
प्राणांस्त्यक्त्वा परं शक्त्या घट्टितारौ नराधिप
पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ
सम्बन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः
लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत
प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः